श्रीसहस्त्रानीक उवाच
पुनरेव द्विजश्रेष्ठ मार्कण्डेय महामते ।
निर्माल्यापनयाद्विष्णोर्यत्पुण्यं तद्वदस्व मे ॥१॥
मार्कण्डेय उवाच
निर्माल्यमपनीयाथ तोयेन स्नाप्य केशवम् ।
नरसिंहाकृतिं राजन् सर्वपापैः प्रमुच्यते ॥२॥
सर्वतीर्थफलं प्राप्य यानारुढो दिवं व्रजेत् ।
श्रीविष्णोः सदनं प्राप्य मोदते कालमक्षयम् ॥३॥
आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः ।
एतावतापि राजेन्द्र सर्वपापैः प्रमुच्यते ॥४॥
दत्त्वाऽऽसनमथार्घ्यं च पाद्यमाचमनीयकम् ।
देवदेवस्य विधिना सर्वपापैः प्रमुच्यते ॥५॥
स्नाप्य तोयेन पयसा नरसिंहं नराधिप ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥६॥
स्त्राप्य दध्ना सकृद्यस्तु निर्मलः प्रियदर्शनः ।
विष्णुलोकमवाप्नोति पूज्यमानः सुरोत्तमैः ॥७॥
यः करोति हरेरर्चां मधुना स्यापयन्नरः ।
अग्निलोके स मोदित्वा पुनर्विष्णुपुरे वसेत् ॥८॥
घृतेन स्त्रपनं यस्तु स्नानकाले विशेषतः ।
नरसिंहाकृतेः कुर्याच्छङ्खभेरीनिनादितम् ॥९॥
पापकञ्चुकमुन्मुच्य यथा जीर्णामहिस्त्वचम् ।
दिव्यं विमानमास्थाय विष्णुलोके महीयते ॥१०॥
पञ्चगव्येन देवेशं यः स्नापयति भक्तितः ।
मन्त्रपूर्वं महाराज तस्य पुण्यमनन्तकम् ॥११॥
यश्च गोधूमकैश्चूर्णैरुद्वत्योष्णेन वारिणा ।
प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् ॥१२॥
पादपीठं तु यो भक्त्या बिल्वपत्रैर्निघर्षितम् ।
उष्णाम्बुना च प्रक्षाल्य सर्वपापैः प्रमुच्यते ॥१३॥
कुशपुष्पोदकैः स्नात्वा ब्रह्मलोकमवाप्नुयात् ।
रत्नोदकेन सावित्रं कौबेरं हेमवारिणा ।
नरसिंह तु संस्त्राप्य कर्पूरागुरुवारिणा ॥१४॥
इन्द्रलोके स मोदित्वा पश्चाद्विष्णुपुरे वसेत् ।
पुण्योदकेन गोविन्दं स्नाप्य भक्त्या नरोत्तम ॥१५॥
सावित्रं लोकमासाद्य विष्णुलोके महीयते ।
वस्त्राभ्यामर्चनं भक्त्या परिधाप्य हरिं हरेः ॥१६॥
सोमलोके रमित्वा च विष्णुलोके महीयते ।
कुङ्कुमागुरुश्रीखण्डकर्दमैरच्युताकृतिम् ॥१७॥
आलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेद्दिवि ।
मल्लिकामालतीजातिकेतक्यशोकचचम्पकैः ॥१८॥
पुंनागनागबकुलैः पद्मैरुत्पलजातिभिः ।
तुलसीकरवीरैश्च पालाशैः सानुकुम्बकैः ॥१९॥
एतैरन्यैश्च कुसुमैः प्रशस्तैरच्युतं नरः ।
अर्चयेद्दशसुवर्णस्य प्रत्येकं फलमाप्नुयात् ॥२०॥
मालां कृत्वा यथालाभमेतेषां विष्णुमर्चयेत् ।
कल्पकोटिसहस्त्राणि कल्पकोटिशतानि च ॥२१॥
दिव्यं विमानमास्थाय विष्णुलोके स मोदते ।
नरसिंहं तु यो भक्त्या बिल्वपत्रैरखण्डितैः ॥२२॥
निश्छिद्रैः पूजयेद्यस्तु तुलसीभिः समन्वितम् ।
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ॥२३॥
काञ्चनेन विमानेन विष्णुलोके महीयते ।
माहिषाख्यं गुग्गुलं च आज्ययुक्तं सशर्करम् ॥२४॥
धूपं ददाति राजेन्द्र नरसिंहस्य भक्तिमान् ।
धूपुतैः सर्वदिग्भ्यस्तु सर्वपापविवर्जितः ॥२५॥
अप्सरोगणसंकीर्णविमानेन विराजते ।
वायुलोके स मोदित्वा पश्चाद्विष्णुपुरं व्रजेत् ॥२६॥
घृतेन वाथ तैलेन दीपं प्रज्वालयेन्नरः ।
विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं श्रृणु ॥२७॥
विहाय पापकलिलं सहस्त्रादित्यसप्रभः ।
ज्योतिष्मता विमानेन विष्णुलोकं स गच्छति ॥२८॥
हविः शाल्योदनं विद्वानाज्ययुक्तं सशर्करम् ।
निवेद्य नरसिंहाय यावकं पायसं तथा ॥२९॥
समास्तन्दुलसंख्याया यावतीस्तावतीर्नृप ।
विष्णुलोके महाभोगान् भुञ्जन्नास्ते स वैष्णवः ॥३०॥
बलिना वैष्णवेनाथ तृप्ताः सन्तो दिवौकसः ।
शान्तिं तस्य प्रयच्छनि श्रियमारोग्यमेव च ॥३१॥
प्रदक्षिणेन चैकेन देवदेवस्य भक्तितः ।
कृतेन यत्फलं नृणां तच्छृणुष्व नृपात्मज ॥३२॥
पृथ्वीप्रदक्षिणफलं प्राप्य विष्णुपुरे वसेत् ।
नमस्कारः कृतो येन भक्त्या वै माधवस्य च ॥३३॥
धर्मार्थकाममोक्षाख्यं फलं तेनाप्तमञ्जसा ।
स्तोत्रैर्जपैश्च देवाग्रे यः स्तीति मधुसूदनम् ॥३४॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।
गीतवाद्यादिकं नाट्यं शङ्खतूर्यादिनिः स्वनैः ॥३५॥
यः कारयति वै विष्णोः स याति मन्दिरं नरः ।
पर्वकाले विशेषेण कामगः कामरुपवान् ॥३६॥
सुसंगीतविदैश्चैव सेव्यमानोऽप्सरोगणैः ।
महार्हमणिचित्रेण विमानेन विराजता ॥३७॥
स्वर्गात् स्वर्गमनुप्राप्य विष्णु लोके महीयते ।
ध्वजं तु विष्णवे यस्तु गरुडेन समन्वितम् ॥३८॥
दद्यात्सोऽपि ध्वजाकीर्णविमानेन विराजता ।
विष्णुलोकमवाप्नोति सेव्यमानोऽप्सरोगणैः ॥३९॥
सुवर्णाभरणैर्दिव्यैर्हारकेयूरकुण्डलैः ।
मुकुटाभरणाद्यैश्च यो विष्णुं पूजयेन्नृप ॥४०॥
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।
इन्द्रलोके वसेद्धीमान् यावदिन्द्राश्चतुर्दश ॥४१॥
यो गां पयस्विनीं विष्णोः कपिलां सम्प्रयच्छति ।
आराध्य तमथाग्रे तु यत्किंचिद्दुग्धमुत्तमम् ॥४२॥
तद्दत्त्वा नरसिंहाय विष्णुलोके महीयते ।
पितरस्तस्य मोदन्ते श्वेतद्वीपे चिरं नृप ॥४३॥
एवं यः पूजयेद्राजन् नरसिंहं नरोत्तमः ।
तस्य स्वर्गापवर्गो तु भवतो नात्र संशयः ॥४४॥
यत्रैवं पूज्यते विष्णुर्नरसिंहो नरैर्नृप ।
न तत्र व्याधिदुर्भिक्षराजचौरादिकं भयम् ॥४५॥
नरसिंहं समाराध्य विधिनानेन माधवम् ।
नानास्वर्गसुखं भुक्त्वा न भूयः स्तनपो भवेत् ॥४६॥
नित्यं सर्पिस्तिलैर्होमो ग्रामे यस्मिन् प्रवर्तते ।
न भवेत्तस्य ग्रामस्य भयं वा तत्र कुत्रचित् ॥४७॥
अनावृष्टिर्महामारी दोषा नो दाहका नृप ।
नरसिंहं समाराध्य ब्राह्मणैर्वेदपारगैः ॥४८॥
कारयेल्लक्षहोमं तु ग्रामे यत्र पुराधिपः ।
कृते तस्मिन्मयोक्ते तु आगच्छति न तद्भयम् ॥४९॥
दृष्टोपसर्गमरणं प्रजानामात्मनश्च हि ।
सम्यगाराधनीयं तु नरसिंहस्य मन्दिरे ॥५०॥
शङ्करायतने चापि कोटिहोमं नराधिप ।
कारयेत् संयतैर्विप्रैः सभोजनसदक्षिणैः ॥५१॥
कृते तस्मिन्नृपश्रेष्ठ नरसिंहप्रसादतः ।
उपसर्गादिमरणं प्रजानामुपशाम्यति ॥५२॥
दुःस्वप्रदर्शने घोरे ग्रहपीडासु चात्मनः ।
होमं च भोजनं चैव तस्य दोषः प्रणश्यति ॥५३॥
अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
नरसिंह समाराध्य लक्षहोमं तु कारयेत् ॥५४॥
शान्तिर्भवति राजेन्द्र तस्य तत्स्थावासिनाम् ।
एवमादिफलोपतं नरसिंहार्चनं नृप ॥५५॥
कुरु त्वं भूपतेः पुत्र यदि वाञ्छासि सदातिम् ।
अतः परतरं नास्ति स्वर्गमोक्षफलप्रदम् ॥५६॥
नरेन्द्रैः सुकरं कर्तुं देवदेवस्य पूजनम् ।
सन्त्यरण्ये ह्यमूल्यानि पत्रपुष्पाणि शाखिनाम् ॥५७॥
तोयं नदीतडागेषु देवः साधारणः स्थितः ।
मनो नियमयेदेकं विद्यासाधनकर्मणि ॥५८॥
मनो नियमितं येन मुक्तिस्तस्य करे स्थिता ॥५९॥
मार्कण्डेय उवाच
इत्येवमुक्तं भृगुचोदितेन मया तवेहार्चनमच्युतस्य ।
दिने दिने त्वं कुरु विष्णुपूजां वदस्व चान्यत्कथयामिं कि ते ॥६०॥
इति श्रीनरसिंहपुराणे सहस्त्रानीकचरिते श्रीविष्णोः पूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥३४॥