राजोवाच
साम्प्रतं देवदेवस्य नरसिंहस्य शार्ङ्गिणः ।
श्रोतुमिच्छामि सकलं प्रतिष्ठायाः परं विधिम् ॥१॥
श्रीमार्कण्डेय उवाच
प्रतिष्ठाया विधिं विष्णोदेंवदेवस्य चक्रिणः ।
प्रवक्ष्यामि यथाशास्त्रं श्रृणु भूपाल पुण्यदम् ॥२॥
कर्तुं प्रतिष्ठां यश्चात्र विष्णोरिच्छति पार्थिव ।
स पूर्वं स्थिरनक्षत्रे भूमिशोधनसमारभेत् ॥३॥
खात्वा पुरुषमात्रं तु बाहुद्वयमथापि वा ।
पूरयेच्छुद्धमृद्भिस्तु जलाक्तैः शर्करान्वितैः ॥४॥
अधिष्ठानं ततो बुद्ध्वा पाषाणोष्टकमृण्मयम् ।
प्रासादं कारयेत्तत्र वास्तुविद्याविदा नृप ॥५॥
चतुरस्त्रं सूत्रमार्गे चतुः कोणं समन्ततः ।
शिलाभित्तिकमुत्कृष्टं तदलाभेष्टकामयम् ॥६॥
तदलाभे तु मृत्कुड्यं पूर्वद्वारं सुशोभनम ।
जातिकाष्ठमयैः स्तम्भैस्तल्लग्नैः फलदान्वितैः ॥७॥
उत्पलैः पद्मपत्रैश्च पातितैश्चित्रशिल्पिभिः ।
इत्थं तु कारयित्वा हि हरेर्वेश्म सुशोभनम् ॥८॥
पूर्वद्वारं नृपश्रेष्ठ सुकपाटं सुचित्रितम् ।
अतिवृद्धातिबालैस्तु कारयेन्नाकृतिं हरेः ॥९॥
कुष्ठाद्युपहतैर्वापि अन्यैर्वा दीर्घरोगिभिः ।
विश्वकर्मोक्तमार्गेण पुराणोक्तां नृपोत्तम ॥१०॥
कारयेत् प्रतिमां दिव्यां पुष्टाङ्गेन तु धीमता ।
सौम्याननां सुश्रवणं सुनासां च सुलोचनाम् ॥११॥
नाधोदृष्टिं नोर्ध्वदृष्टिं तिर्यग्दृष्टिं न कारयेत् ।
कारयेत् समदृष्टिं तु पद्मपत्रायतेक्षणाम् ॥१२॥
सुभ्रुवं सुललाटां च सुकपोलां समां शुभाम् ।
बिम्बोष्ठीं सुष्ठुचिबुकां सुग्रीवां कारयेदबुधः ॥१३॥
उपबाहुकरे देयं दक्षिणे चक्रमर्कवत् ।
नाभिसंलग्नदिव्यारं परितो नेमिसंयुतम् ॥१४॥
वामपार्श्वत्युपभुजे देयं शङ्खं शशिप्रभम् ।
पाञ्चजन्यमिति ख्यातं दैत्यदर्पहरं शुभम् ॥१५॥
हारार्पितवरां दिव्यां कण्ठे त्रिवलिसंयुताम् ।
सुस्तनीं चारुहदयां सुजठरां समां शुभाम् ॥१६॥
कटिलग्नवामकरां पद्मलग्नां च दक्षिणाम् ।
केयूरबाहुकां दिव्यां सुनाभिवलिभङ्गिकाम् ॥१७॥
सुकटीं च सुजङ्घोरुं वस्त्रमेखलभूषिताम् ।
एवं तां कारयित्वा तु प्रतिमां राजसत्तम ॥१८॥
सुवर्णवस्त्रदानेन तत्कर्तृन पूज्य सत्तम ।
पूर्वपक्षे शुभे काले प्रतिमां स्थापयेदबुधः ॥१९॥
प्रासादस्याग्रतः कृत्वा यागमण्डपमुत्तमम् ।
चतुर्द्वारं चुतर्दिक्षु चतुर्भिस्तोरणैर्युतम् ॥२०॥
सप्तधान्याङ्कुरैर्युक्तं शङ्खभेरीनिनादितम् ।
प्रतिमं क्षाल्य विद्वद्भिः षटत्रिंशद्भिर्घटोदकैः ॥२१॥
प्रविश्य मण्डपे तस्मिन् ब्राह्मणैर्वेदपारगैः ।
तत्रापि स्नापयेत्पश्चात् पञ्चगव्यैः पृथक् पृथक् ॥२२॥
तथोष्णवारिणा स्नाप्य पुनः शीतोदकेन च ।
हरिद्राकुङ्कुमाद्यैस्तु चन्दनैश्चोपलेपयेत् ॥२३॥
पुष्पमाल्यैरलङ्कृत्य वस्त्रैराच्छाद्य तां पुनः ।
पुण्याहं तत्र कृत्वा तु ऋग्भिस्तां प्रोक्ष्य वारिभिः ॥२४॥
स्नात्वा तां ब्राह्मणैर्भक्तैः शंखभेरीस्वनैर्युतम् ।
वासयेत्सप्तरात्रं तु त्रिरात्रं वा नदीजले ॥२५॥
हदे तु विमले शुद्धे तडागे वापि रक्षयेत् ।
अधिवास्य जले देवमेवं पार्थिवपुङ्गव ॥२६॥
तत उत्थाप्य विप्रैस्तु स्थाप्यालङ्कृत्य पूर्ववत् ।
ततो भेरीनिनादैस्तु वेदघोषैश्च केशवम् ॥२७॥
आनीय मण्डपे शुद्धे पद्माकारविनर्मिते ।
कृत्वा पुनस्ततः स्नाप्य विष्णुभक्तैरलङ्क्रियात् ॥२८॥
ब्राह्मणान् भोजयित्वा तु विधिवत् षोडशर्त्विजः ।
चतुर्भिरध्ययनं कार्यं चतुर्भिः पालनं तथा ॥२९॥
चतुर्भिस्तु चतुर्दिक्षु होमः कार्यो विचलक्षणैः ।
पुष्पाक्षतान्नमिश्रेण दद्याद्दिक्षु बलीन् नृप ॥३०॥
एकेन दापयेत्तेषामिन्द्राद्याः प्रीयन्तामिति ।
प्रत्येकं सायंसंध्यायां मध्यरात्रे तथोषसि ॥३१॥
उदिते च ततो दद्यान्मातृविप्रगणाय वा ।
जपन् पुरुषसूक्तं तु एकतस्तु पुनः पुनः ॥३२॥
एकतो मनसा राजन् विष्णोर्मन्दिरमध्यगः ।
अहोरात्रोषितो भूत्वा यजमानो द्विजैः सह ॥३३॥
प्रविश्य प्रतिमाद्वारं शुभलग्ने विचक्षणः ।
देवसूक्तं द्विजैः सार्धमुपस्थाप्य च तां दृढम् ॥३४॥
संस्थाप्य विष्णुसूक्तेन पवमानेन वा पुनः ।
प्रोक्षयेद्देवदेवेशमाचार्यः कुशवारिणा ॥३५॥
तदग्रे चाग्निमाधाय सम्परिस्तीर्य यत्नतः ।
जुहुयाज्जातकर्मादि गायत्र्या वैष्णवेन तु ॥३६॥
चतुर्भिराज्याहुतिभिरेकामेकां क्रियां प्रति ।
आचार्यस्तु स्वयं कुर्यादस्त्रैर्बन्धं च कारयेत् ॥३७॥
त्रातारमिति चैन्द्र्यां तु कुर्यादाज्यप्रणुन्नकम् ।
परोदिवेति याम्यायां वारुण्यां निषसेति च ॥३८॥
या ते रुद्रेति सौम्यां तु हुवेदाज्याहुतीर्नृप ।
परोमात्रेति सूक्ताभ्यां सर्वत्राज्याहुतीर्नृप ॥३९॥
हुत्वा जपेच्च विधिवद्यदस्येति च स्विष्टकृत् ।
ततः स दक्षिणां दद्यादृत्विग्भ्यश्च यथार्हतः ॥४०॥
वस्त्रे द्वे कुण्डले चैव गुरवे चाङ्गुलीयकम् ।
यजमानस्ततो दद्याद्विभवे सति काञ्चनम् ॥४१॥
कलशाष्टसहस्त्रेण कलशाष्टशतेन वा ।
एकविंशतिना वापि स्नपनं कारयेद बुधः ॥४२॥
शङ्खदुन्दुभिनिर्घोषैर्वेदघोषैश्च मङ्गलैः ।
यवव्रीहियुतैः पात्रैरुद्धतैरुच्छ्रिताङ्कुरैः ॥४३॥
दीपयष्टिपताकाभिश्छन्नचामरतोरणैः ।
स्नपनं कारयित्वा तु यथाविभवविस्तरम् ॥४४॥
तत्रापि दद्याद्विप्रेभ्यो यथाशक्त्या तु दक्षिणाम् ।
एवं यः कुरुते राजन् प्रतिष्ठां देवचक्रिणः ॥४५॥
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।
विमाननेन विचित्रेण त्रिः सप्तकुलजैर्वृतः ॥४६॥
पूजां सम्प्राप्य महतीमिन्द्रलोकादिषु क्रमात् ।
बान्धवांस्तेषु संस्थाप्य विष्णुलोके महीयते ॥४७॥
तत्रैव ज्ञानमासाद्य वैष्णवं पदमाप्नुयात् ।
प्रतिष्ठाविधिरयं विष्णोर्मयैवं ते प्रकीर्तितः ॥४८॥
पठतां श्रृण्वतां चैव सर्वपापप्रणाशनः ॥४९॥
यदा नृसिंहं नरनाथ भूमौ संस्थाप्य विष्णुं विधिना ह्यनेन ।
तदा ह्यसौ याति हरेः पदं तु यत्र स्थितोऽयं न निवर्तते पुनः ॥५०॥
इति श्रीनरसिंहपुराणे प्रतिष्ठाविधिर्नाम षटपञ्चाशोऽध्यायः ॥५६॥