भरद्वाज उवाच
कोऽसौ ध्रुवः कस्य सुतः सूर्याधारोऽभवत् कथम् ।
विचिन्त्य कथयाशु त्वं सूत जीव समाः शतम् ॥१॥
सूत उवाच
मनोः स्वायम्भुवस्यासीदुत्तानचरणः सुतः ।
तस्य क्षितिपतेर्विप्र द्वौ सुतौ सम्बभूवतुः ॥२॥
सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवोऽपरः ।
मध्येसभं नरपतेरुपविष्टस्य चैकदा ॥३॥
सुनीत्या राजसेवायै नियुक्तोऽलङ्कृतः सुतः ।
ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः ॥४॥
स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह ।
दृष्टोत्तमं तदुत्सङ्गे निविष्टं जनकस्य वै ॥५॥
प्राप्य सिंहासनस्थं च नृपतिं बालचापलात् ।
आरुरुक्षुमवेक्ष्यामुं सुरुचिर्ध्रुवमब्रवीत् ॥६॥
सुरुचिरुवाच
दौर्भगेय किमारोढुमिच्छेरङ्के महीपतेः ।
बाल बालिशबुद्धित्वादभाग्याजाठरोद्भवः ॥७॥
अस्मिन् सिंहासने स्थातुं सुकृतं किं त्वया कृतम् ॥८॥
यदि स्यात् सुकृतं तत्किं दुर्भाग्योदरगोऽभवः ।
अनेनैवानुमानेन बुध्यस्व स्वल्पपुण्यताम् ॥९॥
भूत्वा राजकुमारोऽपि नालंकुर्या ममोदरम् ।
सुकुक्षिजसममुं पश्य त्वमुत्तममनुत्तमम् ॥१०॥
अधिजानु धराजान्वोर्मानेन परिबृंहितम् ।
सूत उवाच
मध्येराजसभं बालस्तयेति परिभर्त्सितः ॥११॥
निपतन्नेत्रबाष्पाम्बुर्धैर्यात् किंचिन्न चोक्तवान् ।
उचितं नोचितं किंचिन्नोचिवान् सोऽपि पार्थिवः ॥१२॥
नियन्त्रितो महिष्याश्च तस्याः सौभाग्यगौरवात् ।
विसर्जितसभालोकं शोकं संहत्य चेष्टितैः ॥१३॥
शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ ।
सुनीतिर्नीतिनिलयमवलोक्याथ बालकम् ॥१४॥
मुखलक्ष्म्यैव चाज्ञासीद् धुव राज्ञापमानितम् ।
अथ दृष्ट्वा सुनीतिं तु रहोऽन्तः पुरवासिनीम् ॥१५॥
आलिङ्ग्य दीर्घं निः श्वस्य मुक्तकण्ठं रुरोद ह ।
सान्त्वयित्वा सुनीतिस्तं वदनं परिमार्ज्य च ॥१६॥
दुकूलाञ्चलसम्पर्कैर्वीज्य तं मृदुपाणिना ।
पप्रच्छ तनयं माता वद रोदनकारणम् ॥१७॥
विद्यमाने नरपतौ शिशो केनापमानितः ।
ध्रुव उवाच
सम्पृच्छे जननि त्वाहं सम्यक् शंस ममाग्रतः ॥१८॥
भार्यात्वेऽपि च सामान्ये कथं सा सुरुचिः प्रिया ।
कथं न भवती मातः प्रिया क्षितिपतेरसि ॥१९॥
कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः ।
कुमारत्वेऽपि सामान्ये कथं चाहमनुत्तमः ॥२०॥
कथं त्वं मन्दभाग्यासि सुकुक्षिः सुरुचिः कथम् ।
कथं नृपासनं योग्यमुत्तमस्य कथं न मे ॥२१॥
कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम् ।
इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः ॥२२॥
किंचिदुच्छुस्य शनकैः शिशुशोकोपशान्तये ।
स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे ॥२३॥
सुनीतिरुवाच
अयि तात महाबुद्धे विशुद्धेनान्तरात्मना ।
निवेदयामि ते सर्वं मावमाने मतिं कृथाः ॥२४॥
तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा ।
यदि सा महिषी राज्ञो राज्ञीनामतिवल्लभा ॥२५॥
महासुकृतसम्बारैरुत्तमश्चोत्तमोदरे ।
उवास तस्याः पुण्याया नृपसिंहासनोचितः ॥२६॥
आतपत्रं च चन्द्राभं शुभे चापि हि चामरे ।
भद्रासनं तथोच्चं च सिन्धुराश्च मदोत्कटाः ॥२७॥
तुरंगमाश्च तुरगा अनाधिव्याधि जीवितम् ।
निः सपत्नं शुभं राज्यं प्राप्यं विष्णुप्रसादतः ॥२८॥
सूत उवाच
इत्याकर्ण्य सुनीत्यास्तन्मातुर्वाक्यमनिन्दितम् ।
सौनीतेयो ध्रुवो वाचमाददे वक्तुमुत्तरम् ॥२९॥
ध्रुव उवाच
जनयित्रि सुनीते मे श्रृणु वाक्यमनाकुलम् ।
उत्तानचरणादन्यन्नास्तीति मे मतिः शुभे ॥३०॥
सिद्धार्थोऽस्म्यम्ब यद्यस्ति कश्चिदाश्रितकामधुक् ।
अद्यैव सकलाराध्यं तमाराध्य जगत्पतिम् ॥३१॥
तत्तदासादितं विद्धि पदमन्यैर्दुरासदम् ।
एकमेव हि साहाय्यं मातर्मे कर्तुमर्हसि ॥३२॥
अनुज्ञां देहि मे विष्णुं यथा चाराधयाम्यहम् ।
सुनीतिरुवाच
अनुज्ञातुं न शक्नोमि त्वामुत्तानशयाङ्गज ॥३३॥
सप्ताष्टवर्षदेशीयः क्रीडायोग्योऽसि पुत्रक ।
त्वदेकतनया तात त्वदाधारैकजीविता ॥३४॥
लब्धोऽसि कतिभिः कष्टैरिष्टाः सम्प्रार्थ्य देवताः ।
यदा यदा बहिर्यासि रन्तुं त्रिचतुरं पदम् ।
तदा तदा मम प्राणस्तात त्वामुपगच्छति ॥३५॥
ध्रुव उवाच
अद्य यावत् पिता माता त्वं चोत्तानपदो विभुः ।
अद्य प्रभृति मे माता पिता विष्णुर्न संशयः ॥३६॥
सुनीतिरुवाच
विष्णोराराधने नाहं वारये त्वां सुपुत्रक ।
जिह्वा मे शतधा यातु यदि त्वां वारयामि भोः ॥३७॥
इत्यनुज्ञामिव प्राप्य जननीचरणाम्बुजौ ।
परिक्रम्य प्राप्य जननीचरणाम्बुजौ ।
परिक्रम्य प्रणम्याथ तपसे च ध्रुवो ययौ ॥३८॥
तयापि धैर्यसूत्रेण सुनीत्या परिगुम्प्य च ।
तत्रेन्दीवरजा माला ध्रुवस्योपायनीकृता ॥३९॥
मात्रा तन्मार्गरक्षार्थं तदा तदनुगीकृताः ।
परैरवार्यप्रसराः स्वाशीर्वादाः परैशशताः ॥४०॥
सर्वत्रावतु ते पुत्र शङ्खचक्रगदाधरः ।
नारायणो जगद्व्यापी प्रभुः कारुण्यवारिधिः ॥४१॥
सूत उवाच
स्वसौधात् स विनिर्गत्य बालो बालपराक्रमः ।
अनुकूलेन मरुता दर्शिताध्वाविशद्वनम् ॥४२॥
स मातृदैवतोऽभिज्ञः केवलं राजवर्त्मनि ।
न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः ॥४३॥
पुरोपवनमासाद्य चिन्तयामास सोऽर्भकः ।
किं करोमि क्व गच्छामि को मे साहाय्यदो भवेत् ॥४४॥
एवमुन्मील्य नयने यावत् पश्यति स धुवः ।
तावद्ददर्श सप्तर्षीन् अतर्कितगतीन् वने ॥४५॥
अथ दृष्ट्वा स सप्तर्षीन् सप्तसप्ततितेजसः ।
भाग्यसूत्रैरिवाकृष्योपनीतान् प्रमुमोद ह ॥४६॥
तिलकाङ्कितसद्भालान् कुशोपग्रहिताङ्गुलीन् ।
कृष्णाजिनोपविष्टांश्च ब्रह्मसूत्रैरलंकृतान् ॥४७॥
उपगम्य विनम्रांसः प्रबद्धकरसम्पुटः ।
ध्रुवो विज्ञापयांचक्रे प्रणम्य ललितं वचः ॥४८॥
ध्रुव उवाच
अवैत मां मुनिवराः सुनीत्युदरसम्भवम् ।
उत्तानपादतनयं धुवं निर्विण्णमानसम् ॥४९॥
सूत उवाच
तं दृष्टोर्जस्वलं बालं स्वभावमधुराकृतिम् ।
अनर्घ्यनयनेपथ्यं मृदुगम्भीरभाषिणम् ॥५०॥
उपोपवेश्य शिशुकं प्रोचुस्ते विस्मिता भृशम् ।
तवाद्यापि न जानीमो वत्स निर्वेदकारणम् ॥५१॥
अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम् ।
सप्तद्वीपपते राज्ञः कुमारस्त्वं तथा कथम् ॥५२॥
किमस्माभिरहो कार्यं कस्तवास्ति मनोरथः ।
ध्रुव उवाच
मुनयो मम यो बन्धुरुत्तमश्चोत्तमोत्तमः ॥५३॥
पित्रा प्रदत्तं तस्यास्तु तद्भद्रासनमुत्तमम् ।
भवत्कृतं हि साहाय्यं एतदिच्छामि सुव्रताः ॥५४॥
अनन्यनृपभुक्तं यद् यदन्येभ्यः समुच्छ्रितम् ।
इन्द्रादिदुरवापं यत् कथं लभ्येत तत्पदम् ॥५५॥
इति श्रुत्वा वचस्तस्य मुनयो बालकस्य तु ।
यथार्थमेव प्रत्यूचुर्मरीच्याद्यास्तदा ध्रुवम् ॥५६॥
मरीचिरुवाच
अनास्वादिगोविन्दपदाम्बुजरजोरसः ।
मनोरथपथातीतं स्फीतं नाकलयेत् फलम् ॥५७॥
अत्रिरुवाच
अनर्चिताच्युतपदः पदमासादयेत् कथम् ।
इन्द्रादिदुरवापं यन्मानवैः सुदुरासदम् ॥५८॥
अङ्गिरा उवाच
न हि दूरे पदं तस्य सर्वासां सम्पदामिह ।
कमलाकान्तकान्ताङ्घिकमलं यः सुशीलयेत् ॥५९॥
पुलस्त्य उवाच
यस्य स्मरणमात्रेण महापातकसंततिः ।
परमान्तकमाप्नोति स विष्णुः सर्वदो ध्रुव ॥६०॥
पुलह उवाच
यदाहुः परमं ब्रह्म प्रधानपुरुषात् परम् ।
यन्मायया कृतं सर्वं स विष्णुः कीर्तितोऽर्थदः ॥६१॥
क्रतुरुवाच
यो यज्ञपुरुषो विष्णुर्वेदवेद्यो जनार्दनः ।
अन्तरात्मास्य जगतः संतुष्टः किं न यच्छति ॥६२॥
वसिष्ठ उवाच
यदभ्रूनर्तनवर्तिन्यः सिद्धयोऽष्टौ नृपात्मज ।
तमाराध्य हषीकेशं चतुर्वर्गो न दूरतः ॥६३॥
ध्रुव उवाच
सत्यमुक्तं द्विजेन्द्रा वो विष्णोराराधनं प्रति ।
कथं स भगवानिज्यः स विधिश्चोपदिश्यताम् ॥६४॥
प्रभूतदो भवेद्यो वै दुराराध्यतमो भवेत् ।
बालोऽहं राजपुत्रोऽहं दुःखं नैव मया क्षमम् ॥६५॥
मुनय ऊचुः
तिष्ठता गच्छता वापि स्वपता जाग्रता तथा ।
शयानेनोपविष्टेन वेद्यो नारायणः सदा ॥६६॥
पुत्रान् कलत्रं मित्राणि राज्यं स्वर्गापवर्गकम् ।
वासुदेवं जपन् मर्त्यः सर्वं प्राप्नोत्यसंशयम् ॥६७॥
द्वादशाक्षरमन्त्रेण वासुदेवात्मकेन च ।
ध्यायंश्चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः ॥६८॥
पितामहेन चाप्येष महामन्त्र उपासितः ।
मनुना राज्यकामेन वैष्णवेन नृपात्मज ॥६९॥
त्वमप्येतेन मन्त्रेण वासुदेवपरो भव ।
यथाभिलषितामृद्धिं क्षिप्रं प्राप्स्यासि सत्तम ॥७०॥
सूत उवाच
इत्युक्त्वान्तार्हिताः सर्वे महात्मानो मुनीश्वराः ।
वासुदेवमना भूत्वा ध्रुवोऽपि तपसे ययौ ॥७१॥
ध्रुवः सर्वार्थदं मन्त्रं जपन् मधुवने तपः ।
स चक्रे यमुनातीरे मुनिदिष्टेन वर्त्मना ॥७२॥
श्रद्धान्वितेन जपता च तपः प्रभावात्
साक्षादिवाब्जनयनं ददृशे हदीशम् ।
दिव्याकृतिं सपदि तेन ततः स एव
हर्षात् पुनः स प्रजजाप नृपात्मभूतः ॥७३॥
क्षुत्तर्षवर्धघनवातमहोष्णतादिशारीरदुःखकुलमस्य न किंचनाभूत् ।
मग्ने मनस्यनुपमेयसुखाम्बुराशौ राज्ञः शिशुर्न च विवेद शरीरवार्ताम् ॥७४॥
विघ्नाश्च तस्य किल शङ्कितदेवसृष्टा बालस्य तीव्रतपसो विफला बभूवुः ।
शीतातपादिरिव विष्णुमयं मुनिं हि प्रादेशिका न खलु धर्षयितुं क्षमन्ते ॥७५॥
अथ भक्तजनप्रियः प्रभुः शिशुना ध्यानबलेन तोषितः ।
वरदः पतगेन्द्रवाहनो हरिरागात् स्वजनं तमीक्षितुम् ॥७६॥
मणिपिण्डकमौलिराजितो विलसद्रत्नमहाघनच्छविः ।
स बभावुदयाद्रिमत्सराद्धतबालार्क इवासिताचलः ॥७७॥
स राजसूनुं तपसि स्थितं तं ध्रुवं ध्रुवस्निग्धदृगित्युवाच ।
दन्तांशुसंज्ञैरमितप्रवाहैः प्रक्षालयन् रेणुमिवास्य गात्रे ॥७८॥
वरं वरं वत्स वृणीष्व यस्ते मनोगतस्त्वत्तपसास्मि तुष्टः ।
ध्यानेन ते चेन्द्रियनिग्रहेण मनोनिरोधेन च दुष्करेण ॥७९॥
श्रृण्वन् वचस्तत्सकलं गभीरमुन्मीलिताक्षः सहसा ददर्श ।
स्वे चिन्त्यमानं त्विदमेव मूर्तं पुरः स्थितं ब्रह्म चतुर्भुजं सः ॥८०॥
दृष्ट्वा क्षणं राजसुतः सुपूज्यं पुरस्त्रयीशं किमिह ब्रवीमि ।
किं वा करोमीति ससम्भ्रमः स तु न चाब्रवीत् किंचन नो चकार ॥८१॥
हर्षाश्रुपूर्णः पुलकाञ्चिताङ्गस्त्रिलोकनाथेति वदन्नथोच्चैः ।
दण्डप्रणामाय पपात भूमौ प्रवेपमानभ्रु हरेः पुरः सः हि ॥८२॥
दण्डवत् प्रणिपत्याथ परितः परिलुण्ठ्य च ।
रुरोद हर्षेण चिरं दृष्ट्वा तं जगतो गुरुम् ॥८३॥
नारदेन सनन्देन सनकेन च संश्रुतम् ।
अन्यैः सनत्कुमाराद्यैर्योगिभिर्योगिनां वरम् ॥८४॥
कारुण्यबाष्पनीरार्द्रं पुण्डरीकविलोचनम् ।
ध्रुवमुत्थापयांचक्रे चक्री धृत्वा करेण तम् ॥८५॥
हरिस्तु परिपस्पर्श तदङ्गं धूलिधूसरम् ।
कराभ्यां कोमलाभ्यां स परिष्वज्याह तं हरिः ॥८६॥
वरं वरय भो बाल यत्ते मनसि वर्तते ।
तद्ददामि न संदेहो नादेयं विद्यते तव ॥८७॥
ततो वरं राजशिशुर्ययाचे विष्णुं वरं ते स्तवशक्तिमेव ।
तं मूर्तविज्ञाननिभेन देवः पस्पर्श शङ्खेन मुखेऽमलेन ॥८८॥
अथ सुरमुनिदत्तज्ञानचन्द्रेण सम्यग् विमलितमिव चित्तं पूर्णमव ध्रुवस्य ।
त्रिभुवनगुरुशङ्खस्पर्शजज्ञानभानानुदयति नितरान्तः साधु तुष्टाव हष्टः ॥८९॥
ध्रुव उवाच
अखिलमुनिजननिवहनमितचरणः । खरकदनकरः । चपलचरितः । देवाराधितपादजलः । सजलजलधरश्यामः शमितसौभपतिशाल्बधामा । अभिरामरामातिविनयकृतनवरसरसापहतेन्द्रियसुरमणीविहितान्तः करणानन्दः । अनादिनिधनः । अधननिजद्विजमित्रोद्धरणधीरः । अवधीरितसुरनाथनाथितविपक्षपक्षः । ऋक्षराजबिलप्रवेशापहतस्यमन्तकापमार्जितनिजापवाददुरितहतत्रैलोक्यभारः । द्वारकावासनिरतः । स्वरितमधुरवेणुवादनश्रवणामृतप्रकटितातीन्द्रियज्ञानः । यमुनातटचरः । द्विजधेनुभृङ्गगणैस्त्यक्तनिजनिजाहारः । संसारदुस्तरपारावारसमुत्तारणाङ्घिपोतः । स्वप्रतापानलहुतकालयवनः । वनमालाधरवरमणिकुण्डलालंकृतश्रवणः । नानाप्रसिद्धाभिधानः । निगमविबुधमुनिजनवचनमनोऽगोचरः । कनकपिशङ्गकौशेयवासोभगवान् भृगुपदकौस्तुभविभूषितोरः स्थलः । स्वदयिताक्रूरनिजजननीगोकुलपालकचतुर्भूजशङ्खचक्रगदापद्मतुलसीनवदलदामहारकेयूरकटकमुकुटालंकृतः । सुनन्दनादिभागवतोपासितविश्वरुपः । पुराणपुरुषोत्तमः । उत्तमश्लोकः । लोकावासो वासुदेवः । श्रीदेवकीजठरसम्भूतः । भूतपतिविरञ्चिनतचरणारविन्दः । वृन्दावनकृतकेलिगोपिकाजनश्रमापहः । सततं सम्पादितसुजनकामः । कुन्दनिभशङ्खधरमिन्दुनिभवक्त्रं सुन्दरसुदर्शनमुदारतरहासं नतोऽस्मि ।
स्थानाभिकामी तपसि स्थितोऽहं त्वां दृष्टवान् साधुमुनीन्द्रगुह्यम् ।
काचं विचिन्वन्निव दिव्यरत्नं स्वामिन् कृतार्थोऽस्मि वरान्न याचे ॥९०॥
अपूर्वदृष्टे तव पादपद्मे दृष्ट्वा दृढं नाथ नहि त्यजामि ।
कामान् न याचे स हि कोऽपि मूढो यः कल्पवृक्षात् तुषमात्रमिच्छेत् ॥९१॥
त्वां मोक्षबीजं शरणं प्रपन्नः शक्नोमि भोक्तुं न बहिः सुखानि ।
रत्नाकरे देव सति स्वनाथे विभूषणं काचमयं न युक्तम् ॥९२॥
अतो न याचे वरमीश युष्मतपादाब्जभक्तिं सततं ममास्तु ।
इमं वरं देववर प्रयच्छ पुनः पुनस्त्वामिदमेव याचे ॥९३॥
श्रीसूत उवाच
इत्यात्मसंदर्शनलब्धदिव्यज्ञानं गदन्तं भगवाञ्जगाद ॥९४॥
श्रीभगवानुवाच
आराध्य विष्णुं किमनेन लब्धं मा भूज्जनेऽपीत्थमसाधुवादः ।
स्थानं परं प्राप्नुहि यन्मतं ते कालेन मां प्राप्स्यसि शुद्धभावः ॥९५॥
आधारभूतः सकलग्रहाणां कल्पद्रुमः सर्वजनैश्च वन्द्यः ।
मम प्रसादात्तव सा च माता ममान्तिके या च सुनीतिरार्या ॥९६॥
श्रीसूत उवाच
तं साधयित्वेति वरैर्मुकुन्दः स्वमालयं दृश्यवपुर्जगाम ।
त्यक्त्वा शनैर्दिव्यवपुः स्वभक्तं मुहुः परावृत्त्य समीक्षमाणः ॥९७॥
तावच्च सद्यः सुरसिद्धसंघः श्रीविष्णुतद्भक्तसमागमं तम् ।
दृष्ट्वाथ वर्षन् सुरपुष्पवृष्टिं तुष्टाव हर्षाद् धुवमव्ययं च ॥९८॥
श्रियाभिमत्या च सुनीतिसूनुर्विभाति देवैरपि वन्द्यमानः ।
योऽयं नृणां कीर्तनदर्शनाभ्यामायुर्यशो वर्धयति श्रियं च ॥९९॥
इत्थं ध्रुवः प्राप पदं दुरापं हरेः प्रसादान्न च चित्रमेतत् ।
तास्मिन् प्रसन्ने द्विजराजपत्रे न दुर्लभं भक्तजनेषु किंचित् ॥१००॥
सूर्यमण्डलमानात्तु द्विगुणं सोममण्डलम् ।
पूर्णे शतसहस्त्रे द्वे तस्मान्नक्षत्रमण्डलम् ॥१०१॥
द्वे लक्षेऽपि बुधस्यापि स्थनं नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥१०२॥
अङ्गारकोऽपि शुक्रस्य तावन्माने व्यवस्थितः ।
लक्षद्वयं तु भौमस्य स्थितो देवपुरोहितः ॥१०३॥
सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे तु व्यवस्थितः ।
तस्माच्छनैश्चरादूर्ध्वं लक्षे सप्तर्षिमण्डलम् ॥१०४॥
सप्तर्षिमण्डलादूर्ध्वमेकं लक्षं ध्रुवः स्थितः ।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य सत्तम ॥१०५॥
स्वभावात् तपति विप्रेन्द्र अधश्चोर्ध्वं च रशिमभिः ।
कालसंख्यां त्रिलोकस्य स करोति युगे युगे ॥१०६॥
जनस्तपस्तथा सत्यमेतांल्लोकान् द्विजोत्तम ।
ब्रह्मणा मुनिशार्दूल विष्णुभक्तिविवर्धितः ॥१०७॥
ऊर्ध्वंगतैर्द्विजश्रेष्ठ रश्मिभिस्तपते रविः ।
अधोगतैश्च भूर्लोकं द्योतते दीर्घदीधितिः ॥१०८॥
सर्वपापहरः सूर्यः कर्ता त्रिभुवनस्य च ।
छत्रवत् प्रतिपश्येत मण्डलान्मण्डलं परम् ॥१०९॥
आदित्यमण्डलाधस्ताद् भुवलोंकं प्रतिष्ठितम् ।
त्रैलोक्यस्येश्वरत्वं च विष्णुदत्तं शतक्रतोः ॥११०॥
लोकपालैः स सहितो लोकान् रक्षति धर्मतः ।
वसेत् स्वर्गे महाभाग देवेन्द्रः स तु कीर्तिमान् ॥१११॥
ततोऽधस्तान्मुने चेदं पातालं विद्धि सप्रभम् ।
न तत्र तपते सूर्यो न रात्रिर्न निशाकरः ॥११२॥
दिव्यस्वरुपमास्थाय तपन्ति सततं जनाः ।
पातालस्था द्विजश्रेष्ठ दीप्यमानाः स्वतेजसा ॥११३॥
स्वर्लोकात्तु महर्लोकः कोटिमात्रे व्यवस्थितः ।
ततो योजनमात्रेण द्विगुणो मण्डलेन तु ॥११४॥
जनलोकः स्थितो विप्र पञ्चमो मुनिसेवितः ।
तत्रोपरि तपोलोकश्चतुर्भिः कोटिभिः स्थितः ॥११५॥
सत्यलोकोऽष्टकोटीभिस्तपोलोकोपरिस्थितः ।
सर्वे छत्राकृतिज्ञेया भुवनोपरिसंस्थिताः ॥११६॥
ब्रह्मलोकाद्विष्णुलोको द्विगुणश्च व्यवस्थितः ।
वाराहे तस्य माहात्म्यं कथितं लोकचिन्तकैः ॥११७॥
ततः परं द्विजश्रेष्ठ स्थितः परमपूरुषः ।
ब्रह्माण्डात् परमः साक्षान्निर्लेपः पुरुषः स्थितः ॥११८॥
पशुपाशैर्विमुच्येत तपोज्ञानसमन्वितः ।
इति ते संस्थितिः प्रोक्ता भूगोलस्य मयानघ ।
यस्तु सम्यगिमां वेत्ति स याति परमां गतिम् ॥१९९॥
लोकस्य संस्थानकरोऽप्रमेयो विष्णुर्नृसिंहो नरदेवपूजितः ।
युगे युगे विष्णुरनादिंमूर्तिमानास्थाय विश्वं परिपाति दुष्टहा ॥१२०॥
इति श्रीनरसिंहपुराणे एकत्रिंशोऽध्यायः ॥३१॥