सूत उवाच
साम्प्रतं मारुतोत्पत्तिं वक्ष्यामि द्विजसत्तम । पुरा देवासुरे युद्धे देवैरिन्द्रादिभिर्दितेः ॥१॥
पुत्राः पराभूता दितिश्च विनष्टपुत्रा महेन्द्रदर्पहरं पुत्रमिच्छन्ती कश्यपमृषिं स्वपतिमाराधयामास ॥२॥
स च तपसा संतुष्टो गर्भाधानं चकार तस्याम् । पुनस्तामेवमुक्तवान् ॥३॥
यदि त्वं शुचिः सती शरच्छतामिमं गर्भं धारयिष्यसि ततश्च महेन्द्रदर्पहन्ता पुत्रो भविष्यति । इत्येवमुक्ता सा च तं गर्भं धारयामास ॥४॥
इन्द्रोऽपि तञ्ज्ञात्वा वृद्धब्राह्मणरुपेणागत्य दितिपार्श्वं स्थितवान् । किंचिदूनपूर्णे वर्षशते पादशौचमकृत्वा दितिः शयनमारुह्य निद्रां गता ॥५॥
सोऽपि लब्धावसरो वज्रपाणिस्तत्कुक्षिं प्रविश्य वज्रेण तं गर्भं सप्तधा चिच्छेद । सोऽपि तेन प्रच्छिद्यमानो रुरोद ॥६॥
मा रोदीरिति वदन्निन्द्रस्तान् सप्तधैकैकं चिच्छेद ॥७॥
सप्तधा ते सर्वे मरुतो यतो जातमात्रान्मा रोदीरित्युक्तवान् । महेन्द्रस्य सहाया अमी मरुतो नाम देवा बभूवुः ॥८॥
एवं मुने सृष्टिरियं तवेरिता देवासुराणां नरनागरक्षसाम् ।
वियन्मुखानामपि यः पठेदिदं श्रृण्वंश्च भक्त्या हरिलोकमेति सः ॥९॥
इति श्रीनरसिंहपुराणे विंशतितमोऽध्यायः ॥२०॥