श्रीशुक उवाच
विचित्रेयं कथा तात वैदिकी मे त्वयेरिता ।
अन्याः पुण्याश्चमे ब्रूहि कथाः पापप्रणाशिनीः ॥१॥
व्यास उवाच
अहं ते कथयिष्यामि पुरावृत्तमनुत्तमम् ।
पतिव्रतायाः संवादं कस्यचिद्व्रह्यचारिणः ॥२॥
कश्यपो नीतिमान् नाम ब्राम्हणो वेदपारगः ।
सर्वशास्त्रार्थतत्त्वज्ञो व्याख्याने परिनिष्ठतः ॥३॥
स्वधर्मकार्यनिरतः परधर्मपराङ्मुखः ।
ऋतुकालाभिगामी च अग्निहोत्रपरायणः ॥४॥
सायंप्रातर्महाभाग हुत्वाग्निं तर्पयन् द्विजान ।
अतिथीनागतान् गेहं नरसिंहं च पूजयत् ॥५॥
तस्य पत्नी महाभागा सावित्री नाम नामतः ।
पतिव्रता महाभागा पत्युः प्रियहिते रता ॥६॥
भर्तुः शुश्रूषणेनैव दीर्घकालमनिन्दिता ।
परोक्षज्ञानमापन्ना कल्याणी गुणसम्मता ॥७॥
तया सह स धर्मात्मा मध्यदेशे महामतिः ।
नन्दिग्रामे वसन् धीमान् स्वानुष्ठानपरायणः ॥८॥
अथ कौशलिको विप्रो यज्ञशर्मा महामतिः ।
तस्य भार्याभवत् साध्वी रोहिणी नाम नामतः ॥९॥
सर्वलक्षणसम्पन्ना पतिशुश्रूषणे रता ।
सा प्रसूता सुतं त्वेकं तस्माद्भर्तुरनिन्दिता ॥१०॥
स यायावरवृत्तिस्तु पुत्रे जाते विचक्षणः ।
जातकर्म तदा चक्रे स्नात्वा पुत्रस्य मन्त्रतः ॥११॥
द्वादशेऽहनि तस्यैव देवशर्मेति बुद्धिमान ।
पुण्याहं वाचयित्वा तु नाम चक्रे यथाविधि ॥१२॥
उपनिष्क्रमणं चैव चतुर्थे मासि यत्नतः ।
तथान्नप्राशनं षष्ठे मासि चक्रे यथाविधि ॥१३॥
संवत्सरे ततः पूर्णे चूडाकर्म च धर्मवित् ।
कृत्वा गर्भाष्टमे वर्षे व्रतबन्धं चकार सः ॥१४॥
सोपनीतो यथान्यायं पित्रा वेदमधीतवान् ।
स्वीकृते त्वेकवेदे तु पिता स्वर्लोकमास्थितः ॥१५॥
मात्रा सहास दुःखी स पितर्युपरते सुतः ।
धैर्यमास्थाय मेधावी साधुभिः प्रेरितः पुनः ॥१६॥
प्रेतकार्याणि कृत्वा तु देवशर्मा गतः सुतः ।
गङ्गादिषु सुतीर्थेषु स्नानं कृत्वा यथाविधि ॥१७॥
तमेव प्राप्तवान् ग्रामं यत्रास्ते सा पतिव्रता ।
सम्प्राय विश्रुतः सोऽथ ब्रह्मचारी महामते ॥१८॥
भिक्षाटनं तु कृत्वासौ जपन् वेदमतन्द्रितः ।
कुर्वन्नेवाग्निकार्यं तु नन्दिग्रामे च तस्थिवान् ॥१९॥
मृते भर्तरि तन्माता पुत्रे प्रव्रजिते तु सा ।
दुःखाददुःखमनुप्राप्ता नियतं रक्षकं विना ॥२०॥
अथ स्त्रावा तु नद्यां वै ब्रह्मचारी स्वकर्पटम् ।
क्षितौ प्रसार्य शोषार्थं जपन्नासीत वाग्यतः ॥२१॥
काको बलाका तद्वस्त्रं परिगृह्याशु जग्मतुः ।
तौ दृष्ट्वा भर्त्सयामास देवशर्मा ततो द्विजः ॥२२॥
विष्ठामुत्सृज्य वस्त्रे तु जग्मतुस्तस्य भर्त्सनात् ।
रोषेण वीक्षयामास खे यान्तौ पक्षिणौ तु सः ॥२३॥
तद्रोषवह्निना दग्धौ भूम्यां निपतितौ खगौ ।
स दृष्ट्वा तौ क्षितिं यातौ पक्षिणौ विस्मयं गतः ॥२४॥
तपसा न मया कश्चित् सदृशोऽस्ति महीतले ।
इति मत्त्वा गतो भिक्षामटितुं ग्राममञ्जसा ॥२५॥
अटन् ब्राह्मणगेहेषु ब्रह्मचारी तपः स्मयी ।
प्रविष्टस्तदगृहं वत्स गृहे यत्र पतिव्रता ॥२६॥
तं दृष्ट्वा याच्यमानापि तेन भिक्षां पतिव्रता ।
वाग्यता पूर्वं विज्ञाय भर्तुः कृत्वानुशासनम् ॥२७॥
क्षालयामास तत्पादौ भूय उष्णेन वारिणा ।
आश्वास्य स्वपतिं सा तु भिक्षां दातुं प्रचक्रमे ॥२८॥
ततः क्रोधेन रक्ताक्षो ब्रह्मचारी पतिव्रताम् ।
दग्धुकामस्तपोवीर्यात् पुनः पुनरुदैक्षत ।
सावित्री तु निरीक्ष्यैवं हसन्ती सा तमब्रवीत् ॥२९॥
न काको न बलाकाहं त्वत्क्रोधेन तु यौ मृतौ ।
नदीतीरेऽद्य कोपात्मन् भिक्षां मत्तो यदीच्छसि ॥३०॥
तयैवमुक्तः सावित्र्या भिक्षामादाय सोऽग्रतः ।
चिन्तयन् मनसा तस्याः शक्तिं दूरार्थवेदिनीम् ॥३१॥
एत्याश्रमे मठे स्थाप्य भिक्षापात्रं प्रयत्नतः ।
पतिव्रतायां भुक्तायां गृहस्थे निर्गते पतौ ॥३२॥
पुनरागम्य तद्गेहं तामुवाच पतिव्रताम् ।
ब्रह्मचार्युवाच
प्रबूह्येतन्महाभागे पृच्छतो मे यथार्थतः ॥३३॥
विप्रकृष्टार्थविज्ञानं कथमाशु तवाभवत् ।
इत्युक्ता तेन सा साध्वी सावित्री तु पतिव्रता ॥३४॥
तं ब्रह्मचारिणं प्राह पृच्छन्तं गृहमेत्य वै ।
श्रृणुष्वावहितो ब्रह्मन् यन्मां त्वं परिपृच्छसि ॥३५॥
तत्तेऽहं सम्प्रवक्ष्यामि स्वधर्मपरिबृंहितम् ।
स्त्रीणां तु पतिशुश्रूषा धर्म एषः परिस्थितः ॥३६॥
तमेवाहं सदा कुर्यां नान्यमस्मि महामते ।
दिवारात्रमसंदिग्धं श्रद्धया परितोषणम् ॥३७॥
कुर्वन्त्या मम सम्भूतं विप्रकृष्टार्थदर्शनम् ।
अन्यच्च ते प्रवक्ष्यामि निबोध त्वं यदीच्छसि ॥३८॥
पिता यायावरः शुद्धस्तस्माद्वेदमधीत्य वै ।
मृते पितरि कृत्वा तु प्रेतकार्यमिहागतः ॥३९॥
उत्सृज्य मातरं द्रष्टुं वृद्धां दीनां तपस्विनीम् ।
अनाथां विधवामत्र नित्यं स्वोदरपोषकः ॥४०॥
यया गर्भे धृतः पूर्वं पालितो लालितस्तथा ।
तां त्यक्त्वा विपिने धर्मं चरन् विप्र न लज्जसे ॥४१॥
यया तव कृतं ब्रह्मन् बाल्ये मलानिकृन्तनम् ।
दुःखितां तां गृहे त्यक्त्वा किं भवेद्विपिनेऽटतः ॥४२॥
मातृदुःखेन ते वक्त्रं पूतिगन्धमिदं भवेत् ।
पित्रैव संस्कृतो यस्मात् तस्माच्छक्तिरभूदियम् ॥४३॥
पक्षी दग्धः सुदुर्बुद्धे पापात्मन् साम्प्रतं वृथा ।
वृथा स्नानं वृथा तीर्थं वृथा हुतम् ॥४४॥
स जीवति वृथा ब्रह्मन् यस्य माता सुदुःखिता ।
यो रक्षेत् सततं भक्त्या मातरं मातृवत्सलः ॥४५॥
तस्येहानुष्ठितं सर्वं फलं चामुत्र चेह हि ।
मातुश्च वचनं ब्रह्मन् पालितं यैर्नरोत्तमैः ॥४६॥
ते मान्यास्ते नमस्कार्या इह लोके परत्र च ।
अतस्त्वं तत्र गत्वाद्य यत्र माता व्यवस्थिता ॥४७॥
तां त्वं रक्षय जीवन्तीं तद्रक्षा ते परं तपः ।
क्रोधं परित्यजैनं त्वं दृष्टादृष्टविघातकम् ॥४८॥
तयोः कुरु वधे शुद्धिं पक्षिणोरात्मशुद्धये ।
याथातथ्येन कथितमेतत्सर्वं मया तव ॥४९॥
ब्रह्मचारिन् कुरुष्व त्वं यदीच्छसि सतां गतिम् ।
इत्युक्त्वा विररामाथ द्विजपुत्रं पतिव्रता ॥५०॥
सोऽपि तामाह भूयोऽपि सावित्रीं तु क्षमापयन् ।
अज्ञानात्कृतपापस्य क्षमस्व वरवर्णिनि ॥५१॥
मया तवाहितं यच्च कृतं क्रोधनिरीक्षणम् ।
तत् क्षमस्व महाभागे हितमुक्तं पतिव्रते ॥५२॥
तत्र गत्वा मया यानि कर्माणि तु शुभव्रते ।
कार्याणि तानि मे ब्रूहि यथा मे सुगतिर्भवेत् ॥५३॥
तेनैवमुक्ता साप्याह तं पृच्छन्तं पतिव्रता ।
यानि कार्याणि वक्ष्यामि त्वया कर्माणि मे श्रृणु ॥५४॥
पोष्या माता त्वया तत्र निश्चयं भैक्षवृत्तिना ।
अन्न वा तत्र वा ब्रह्मन् प्रायश्चित्तं च पक्षिणोः ॥५५॥
यज्ञशर्मसुता कन्या भार्या तव भविष्यति ।
तां गृह्णीष्व च धर्मेण गते त्वयि स दास्यति ॥५६॥
पुत्रस्ते भविता तस्यामेकः संततिवर्धनः ।
यायावरधनादवृत्तिः पितृवत्ते भविष्यति ॥५७॥
पुनर्मृतायां भार्यायां भविता त्वं त्रिदण्डकः ।
स यत्याश्रमधर्मेण यथोक्त्यानुष्ठितेन च ।
नरसिंहप्रसादेन वैष्णवं पदमाप्स्यासि ॥५८॥
भाव्यमेतत्तु कथितं मया तव हि पृच्छतः ।
मन्यसे नानृतं त्वेतत् कुरु सर्वं हि मे वचः ॥५९॥
ब्राह्मण उवाच
गच्छामि मातृरक्षार्थमद्यैवाहं पतिव्रते ।
करिष्ये त्वद्वचः सर्वं तत्र गत्वा शुभेक्षणे ॥६०॥
इत्युक्त्वा गतवान् ब्रह्मन् देवशर्मा ततस्त्वरन् ।
संरक्ष्य मातरं यत्नात् क्रोधमोहविवर्जितः ॥६१॥
कृत्वा विवाहमुत्पाद्य पुत्रं वंशकरं शुभम् ।
मृतभार्यश्च संन्यस्य समलोष्टाश्मकाञ्चनः ।
नरसिंहप्रसादेन परां सिद्धिमवाप्तवान् ॥६२॥
पतिव्रताशक्तिरियं तवेरिता धर्मश्च मातुः परिरक्षणं परम् ।
संसारवृक्षं च निहत्य बन्धनं छित्त्वा च विष्णोः पदमेति मानवः ॥६३॥
इति श्रीनरसिंहपुराणे ब्रह्मचारिसंवादो नाम त्रयोदशोऽध्यायः ॥१३॥