श्रीव्यास उवाच
मृत्युश्च किंकराश्चैव विष्णुदूतैः प्रपीडिताः ।
स्वराज्ञस्तेऽनु निर्वेशं गत्वा ते चुक्रुशुर्भुशम् ॥१॥
मृत्युकिंकरा ऊचुः
श्रृणु राजन् वचोऽस्मकं तवाग्रे यद ब्रवीमहे ।
त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः ॥२॥
ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तम ।
तं ध्यायमानं कमपि देवमेकाग्रमानसम् ॥३॥
गन्तुं न शक्तास्तत्पर्श्व वयं सर्वे महामते ।
यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः ॥४॥
वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः ।
अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः ॥५॥
एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम् ।
अशक्ता वयमेवात्र मृत्युना सह वै प्रभो ॥६॥
तद्ववीहि महाभाग यद्वह्य ब्राह्मणस्य तु ।
देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम् ॥७॥
व्यास उवाच
इत्युक्तः किंकरैः सर्वैर्मृत्युना च महामते ।
ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः ॥८॥
यम उवाच
श्रृण्वन्तु किंकराः सर्वे मृत्युश्चान्ये च मे वचः ।
सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः ॥९॥
भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः ।
स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया ॥१०॥
भृगुणोक्तेन मार्गेण स तेपे परमं तपः ।
हरिमाराध्य मेधावी जपन् वै द्वादशाक्षरम् ॥११॥
एकाग्रेणैव मनसा ध्यायते हदि केशवम् ।
सततं योगयुक्तस्तु स मुनिस्तत्र किंकराः ॥१२॥
हरिध्यानमहादीक्षाबलं तस्य महामुनेः ।
नायद्वै प्राप्तकालस्य बलं पश्यामि किंकराः ॥१३॥
हदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले ।
पश्यन्तं विष्णुभूतं नु को हि स्यात् केशवाश्रयम् ॥१४॥
तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम् ।
अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः ॥१५॥
न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः ।
भवतां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः ॥१६॥
नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत् ।
युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम् ।
समानेतुं कृतो यत्नः समीचीनं न तत्कृतम् ॥१७॥
नरसिंह महादेवं ये नराः पर्युपासते ।
तेषां पार्श्वे न गन्तव्यं युष्माभिर्मम शासनात् ॥१८॥
श्रीव्यास उवाच
स एवं किंकरानुक्त्वा मृत्युं च पुरतः स्थितम् ।
यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् ॥१९॥
कृपया परया युक्तो विष्णुभक्त्या विशेषतः ।
जनस्यानुग्रहार्थाय तेनोक्ताश्च गिरः श्रृणु ॥२०॥
नरके पच्यमानस्य यमेन परिभाषितम् ।
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥२१॥
उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥२२॥
नरसिंहो हषीकेशः पुण्डरीकनिभेक्षणः ।
स्मरणान्मुक्तिदो नृणां स त्वया किं न पूजितः ॥२३॥
इत्युक्त्वा नारकान् सर्वान् पुनराह स किंकरान् ।
वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः ॥२४॥
नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः ।
अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रुतम् ॥२५॥
तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम् ।
शिक्षार्थं किंकराः सर्वे श्रृणुत प्रणता हरेः ॥२६॥
हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः ।
जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् ॥२७॥
पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम ।
त्वामहं शरणं प्राप्त इति यस्तं समुद्धरे ॥२८॥
त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन ।
इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥२९॥
व्यास उवाच
इत्युदीरितमाकर्ण्य हरिवाक्यं यमेन च ।
नारकाः कृष्णकृष्णेति नारसिंहेति चुकुशुः ॥३०॥
यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः ।
तथा तथ हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् ॥३१॥
नारका ऊचुः
ॐ नमो भगवते तस्मै केशवाय महात्मने ।
यन्नामकीर्तनात् सद्यो नरकाग्निः प्रशाम्यति ॥३२॥
भक्तिप्रियाय देवाय रक्षाय हरये नमः ।
लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥३३॥
अनन्तायाप्रमेयाय नरसिंहाय ते नमः ।
नारायणाय गुरवे शङ्खचक्रगदाभृते ॥३४॥
वेदप्रियाय महते विक्रमाय नमो नमः ।
वाराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ॥३५॥
नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः ।
वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ॥३६॥
बलिबन्धनदक्षाय वेदपालाय ते नमः ।
विष्णवे सुरनाथाय व्यापिने परमात्मने ॥३७॥
चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः ।
जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥३८॥
रामाय रावणान्ताय नमस्तुभ्यं महात्मने ।
अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते ॥३९॥
व्यास उवाच
इति संकीर्तिते विष्णौ नारकैर्भक्तिपूर्वकम् ।
तदा सा नारकी पीडा गता तेषां महात्मनाम् ॥४०॥
कृष्णरुपधराः सर्वे दिव्यवस्त्रविभूषिताः ।
दिव्यगन्धानुलिप्ताङ्गा दिव्याभरणभूषिताः ॥४१॥
तानारोप्य विमानेषु दिव्येषु हरिपूरुषाः ।
तर्जयित्वा यमभटान् नीतास्ते केशवालयम् ॥४२॥
नारकेषु च सर्वेषु नीतेषु हरिपुरुषैः ।
विष्णुलोकं यमो भूयो नमश्चके तदा हरिम् ॥४३॥
यन्नामकीर्तनाद्याता नारकाः केशवालयम् ।
तं नमामि सदा देवं नरसिंहमहं गुरुम् ॥४४॥
तस्य वै नरसिंहस्य विष्णोरमिततेजसः ।
प्रणामं येऽपि कुर्वन्ति तेभ्योऽपीह नमो नमः ॥४५॥
दृष्ट्वा प्रशान्तं नरकाग्रिमुग्रं यन्त्रादि सर्वं विपरीतमत्र ।
पुनः स शिक्षार्थमथात्मदूतान् यमो हि वक्तुं कृतवान् मनः स्वयम् ॥४६॥
इति श्रीनरसिंहपुराणे यमगीता नामाष्टमोऽध्यायः ॥८॥