श्रीभराद्वाज उवाच
मार्कण्डेयेन मुनिना कर्थं मृत्युः पराजितः ।
एतदाख्याहि मे सूत त्वयैतत् सूचितं पुरा ॥१॥
सूत उवाच
इदं तु महदख्यानं भरद्वाज श्रृणुष्व मे ।
श्रृण्वन्तु ऋष्यश्चेमे पुरावृत्तं ब्रवीम्यहम् ॥२॥
कुरुक्षेत्रे महापुण्ये व्यासपीठे वराश्रमे ।
तत्रासीनं मुनिवरं कृष्णद्वैपायनं मुनिम् ॥३॥
कृतस्नानं कृतजपं मुनिशिष्यैः समावृतम् ।
वेदवेदार्थतत्त्वज्ञं सर्वशास्त्रविशारदम् ॥४॥
प्राणिपत्य यथान्यायं शुकः परमधार्मिकः ।
इममेवार्थमुद्दिश्य तं पप्रच्छ कृताञ्जलिः ॥५॥
यमुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसंनिधौ ।
नरसिंहस्य भक्तेन कृततीर्थनिवासिना ॥६॥
श्रीशुक उवाच
मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः ।
एतदाख्याहि मे तात श्रोतुमिच्छामि तेऽधुना ॥७॥
व्यास उवाच
मार्कण्डेयेना मुनिना यथा मृत्युः पराजितः ।
तथा ते कथयिष्यामि श्रृणु वत्स महामते ॥८॥
श्रृण्वन्तु मुनयश्चेमे कथ्यमानं मयाधुना ।
मच्छिष्याश्चैव श्रृण्वन्तु महदाख्यानमुत्तमम् ॥९॥
भृगोः ख्यात्यां समुत्पन्नो मृकण्डुर्नाम वै सुतः ।
सुमित्रा नाम वै पत्नी मृकण्डोस्तु महात्मनः ॥१०॥
धर्मज्ञा धर्मनिरता पतिशुश्रूषणे रता ।
तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ॥११॥
भृगुपौत्रो महाभागो बालत्वेऽपि महामतिः ।
ववृधे वल्लभो बालः पित्रा तत्र कृतक्रियः ॥१२॥
तस्मिन् वै जातमात्रे तु आगमी कश्चिदब्रवीत् ।
वर्षे द्वादशमे पूर्णे मृत्युरम्य भविष्यति ॥१३॥
श्रुत्वा तन्मातृपितरौ दुःखितौ तौ बभूवतुः ।
विदूयमानहदयौ तं निरीक्ष्य महामते ॥१४॥
तथापि तत्पिता तस्य यत्नात् काले क्रियां ततः ।
चकार सर्वा मेधावी उपनीतो गुरोर्गृहे ॥१५॥
वेदानेवाभ्यसन्नास्ते गुरुशूश्रूषणोद्यतः ।
स्वीकृत्य वेदशास्त्राणि स पुनर्गुहमागतः ॥१६॥
मातापितृन्नमस्कृत्य पादयोर्विनयान्वितः ।
तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महामुनिः ॥१७॥
तं निरीक्ष्य महात्मानं सत्प्रज्ञं च विचक्षणम् ।
दुःखितौ तौ भृशं तत्र तन्मातापितरौ शुचा ॥१८॥
तौ दृष्टवा दुःखमापन्नौ मार्कण्डेयो महामतिः ।
उवाच वचनं तत्र किमर्थं दुःखमीदृशम् ॥१९॥
सदैतत् कुरुषे मातस्तातेन सह धीमता ।
वक्तुमर्हसि दुःखस्य कारणं मम पृच्छतः ॥२०॥
इत्युक्ता तेन पुत्रेण माता तस्य महात्मनः ।
कथयामास तत्सर्वमागमी यदुवाच ह ॥२१॥
तच्छुत्वासौ मुनिः प्राह मातरं पितरं पुनः ।
पित्रा सार्धं त्वया मातर्न कार्यं दुःखमण्वपि ॥२२॥
अपनेष्यामि भो मृत्युं तपसा नात्र संशयः ।
यथा चाहं चिरायुः स्यां तथा कुर्यामहं तपः ॥२३॥
इत्युक्त्वा तौ समाश्वास्य पितरौ वनमभ्यगात् ।
वल्लीवटं नाम वनं नानाऋषिनिषेवितम् ॥२४॥
तत्रासौ मुनिभिः सार्धमासीनं स्वपितामहम् ।
भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः ॥२५॥
अभिवाद्य यथान्यायं मुनींश्चैव स धार्मिकः ।
कृताञ्जलिपुटो भूत्वा तस्थौ तत्पुरतो दमी ॥२६॥
गतायुषं ततो दृष्ट्वा पौत्रं बालं महामतिः ।
भृगुराह महाभागं मार्कण्डेयं तदा शिशुम् ॥२७॥
किमागतोऽसि पुत्रात्र पितुस्ते कुशलं पुनः ।
मातुश्च बान्धवानां च किमागमनकारणम् ॥२८॥
इत्येवमुक्तो भृगुणा मार्कण्डेयो महामतिः ।
उवाच सकलं तस्मै आदेशिवचनं तदा ॥२९॥
पौत्रस्य वचनं श्रुत्वा भृगुस्तु पुनरब्रवीत् ।
एवं सति महाबुद्धे किं त्वं कर्म चिकीर्षसि ॥३०॥
मार्कण्डेय उवाच
भूतापहारिणं मृत्युं जेतुमिच्छामि साम्प्रतम् ।
शरणं त्वां प्रपन्नोऽसि तत्रोपायं वदस्व नः ॥३१॥
भृगुरुवाच
नारायणमनाराध्य तपसा महता सुत ।
को जेतुं शक्नुयान्मृत्युं तस्मात्तं तपसार्चय ॥३२॥
तमनन्तमजं विष्णुमच्युतं पुरुषोत्तमम् ।
भक्तप्रियं सुरश्रेष्ठं भक्त्या त्वं शरणं व्रज ॥३३॥
तमेव शरणं पूर्वं गतवान्नारदो मुनिः ।
तपसा शरणं पूर्वं गतवान्नारदो मुनिः ।
तपसा महता वत्स नारायणमनामयम् ॥३४॥
तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः ।
जरां मृत्युं विजित्याशु दीर्घायुर्वर्धते सुखम् ॥३५॥
तमृते पुण्डरीकाक्षं नारसिंहं जनार्दनम् ।
कः कुर्यान्मानवो वत्स मृत्युसत्तानिवारणम् ॥३६॥
तमनन्तमजं विष्णुं कृष्णं जिष्णुं श्रियः पतिम् ।
गोविन्दं गोपतिं देवं सततं शरणं व्रज ॥३७॥
नरसिंहं महादेव यदि पूजयसे सदा ।
वत्स जेतासि मृत्युं त्वं सततं नात्र संशयः ॥३८॥
व्यास उवाच
उक्तः पितामहेनैवं भृगुणा पुनरब्रवीत् ।
मार्कण्डेयो महातेजा विनयात् स्वपितामहम् ॥३९॥
मार्कण्डेय उवाच
आराध्यः कथितस्तात विष्णुर्विश्वेश्वरः प्रभुः ।
कथं कुत्र मया कार्यमच्युताराधनं गुरो ।
येनासौ मम तुष्टस्तु मृत्युं सद्योऽपनेष्यति ॥४०॥
भृगुरुवाच
तुङ्गभद्रेति विख्याता या नदी सह्यपर्वते ।
तत्र भद्रवटे वत्स त्वं प्रतिष्ठाप्य केशवम् ॥४१॥
आराधय जगन्नाथं गन्धपुष्पादिभिः क्रमात् ।
हदि कृत्वेन्द्रियग्रामं मनः संयम्य तत्त्वतः ॥४२॥
हत्पुण्डरीके देवेशं शङ्खचक्रगदाधरम् ।
ध्यायन्नेकमना वत्स द्वादशाक्षरमभ्यसन् ॥४३॥
ॐ नमो भगवते वासुदेवाय ।
इमं मन्त्रं हि जपतो देवदेवस्य शार्ङ्गिणः ॥
प्रीतो भवति विश्वात्मा मृत्युं येनापनेष्यति ॥४४॥
व्यास उवाच
इत्युक्तस्तं प्रणम्याथ स जगाम तपोवनम् ॥४५॥
सह्यपादोद्भवायास्तु भद्रायास्तटमुत्तमम् ।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥४६॥
गुल्मवेणुलताकीर्णं नानामुनिजनाकुलम् ।
तत्र विष्णुं प्रतिष्ठाप्य गन्धधूपादिभिः क्रमात् ॥४७॥
पूजयामास देवेशं मार्कण्डेयो महामुनिः ।
पूजयित्वा हरि तत्र तपस्तेपे सुदुष्करम् ॥४८॥
निराहरो मुनिस्तत्र वर्षमेकमतन्द्रितः ।
मात्रोक्तकाले त्वासन्ने दिने तत्र महामतिः ॥४९॥
स्रावा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम् ।
हदि कृत्वेन्द्रियग्राम्म विशुद्धेनान्तरात्मना ॥५०॥
आसनं स्वस्तिकं बदध्वा कृत्वासौ प्राणसंयमम् ।
ॐकारोच्चारणाद्धीमान् हत्पद्मं स विकासयन् ॥५१॥
तन्मध्ये रविसोमाग्निमण्डलानि यथाक्रमम् ।
कल्पयित्वा हरेः पीठं तस्मिन् देशे सनातनम् ॥५२॥
पीताम्बरधरं कृष्णं शङ्खचक्रगदाधरम् ।
भावपुष्पैः समभ्यर्च्य मनस्तस्मिन्निवेश्य च ॥५३॥
ब्रह्मरुपं हरिं ध्यायंस्ततो मन्त्रमुदीरयत् ।
ॐ नमो भगवते वासुदेवाय ॥५४॥
व्यास उवाच
इत्येवं ध्यायतस्तस्य मार्कण्डेयस्य धीमतः ।
मनस्तत्रैव संलग्नं देवदेवे जगत्पतौ ॥५५॥
ततो यमाज्ञया तत्र आगता यमकिंकराः ।
पाशहस्तास्तु तं नेतुं विष्णुद्वतैस्तु ते हताः ॥५६॥
शूलैः प्रहन्यमानास्तु द्विजं मुक्त्वा ययुस्तदा ।
स्वयं निवर्त्य गच्छामो मृत्युरेवागमिष्यति ॥५७॥
विष्णुदूता ऊचुः
यत्र नः स्वामिनो नाम लोकनाथस्य शार्ङ्गिणः ।
को यमस्तत्र मृत्युर्वा कालः कलयतां वरः ॥५८॥
व्यास उवाच
आगत्य स्वयमेवाह मृत्युः पार्श्वं महात्मनः ।
मार्कण्डेयस्य बभ्राम विष्णुकिंकरशङ्कया ॥५९॥
तेऽप्युद्यम्याशु मुशलानायसान् विष्णुकिंकराः ।
विष्णवाज्ञया हनिष्यामो मृत्यमद्येति संस्थिताः ॥६०॥
ततो विष्णवर्पितमना मार्कण्डेयो महामतिः ।
तुष्टाव प्रणतो भूत्वा देवदेवं जनार्दनम् ॥६१॥
विष्णुनैवोदितं यत्तत्स्तोत्रं कर्णे महात्मनः ।
सुभाषितेन मनसा तेन तुष्टाव माधवम् ॥६२॥
मार्कण्डेय उवाच
नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।
प्रणतोऽस्मि हषीकेशं किं मे मृत्युः करिष्यति ॥६३॥
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।
केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६४॥
वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् ।
दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६५॥
शङ्खचक्रधरं देवं छन्नरुपिणमव्ययम् ।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६६॥
वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् ।
माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६७॥
पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् ।
लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६८॥
भूतात्मानं महात्मानं जगद्योनिमयोनिजम् ।
विश्वरुपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६९॥
सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।
महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥७०॥
इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः ।
अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥७१॥
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥७२॥
मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम् ।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥७३॥
य इदं पठते भक्त्या त्रिकालं नियतः शुचिः ।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥७४॥
हत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् ।
संचिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥७५॥
इति श्रीनरसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम सप्तमोऽध्यायः ॥७॥