श्रीनरसिंहपुराण - अध्याय ३५
अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।
राजोवाच
अहो महत्त्वया प्रोक्तं विष्णवाराधनजं फलम् ।
सुप्तास्ते मुनिशार्दूल ये विष्णुं नार्चयन्ति वै ॥१॥
त्वत्प्रसादाच्छुतं ह्येतन्नरसिंहार्चनक्रमम् ।
भक्त्या तं पूजायिष्यामि कोटिहोमफलं वद ॥२॥
मार्कण्डेय उवाच
इममर्थं पुरा पृष्टः शौनको गुरुणा नृप ।
यत्तस्मै कथयामास शौनकस्तद्वदामि ते ॥३॥
शौनकं तु सुखासीनं पर्यपृच्छद् बृहस्पतिः ।
बृहस्पतिरुवाच
लक्षहोमस्य या भूमिः कोटिहोमस्य या शुभा ॥४॥
तां मे कथय विप्रेन्द्र होमस्य चरिते विधिम् ।
मार्कण्डेय उवाच
इत्युक्तो गुरुणा सोऽथ लक्षहोमादिकं विधिम् ॥५॥
शौनको वक्तुमारेभे यथावन्नृपसत्तम ।
शौनक उवाच
प्रवक्ष्यामि यथावत्ते श्रृणु देवपुरोहित ॥६॥
लक्षहोममहाभूमिं तद्विशुद्धिं विशेषतः ।
यज्ञकर्मणि शस्ताया भूमेर्लक्षणमुत्तमम् ॥७॥
सुसंस्कृतां समां स्निग्धां पूर्वपूर्वमथोत्तमाम् ।
ऊरुमात्रं खनित्वा च शोधयेत्तां विशेषतः ॥८॥
बहिरच्छतया तत्र मृदाच्छाद्य प्रलेपयेत् ।
प्रमाणं बाहुमात्रं तु सर्वतः कुण्डलक्षणम् ॥९॥
चतुरस्त्रं चतुष्कोणं तुल्यसूत्रेण कारयेत् ।
उपरि मेखलां कुर्याच्चतुरस्त्रां सुविस्तराम् ॥१०॥
चतुरङ्गुलमात्रं तु उच्छितां सूत्रसूत्रिताम् ।
ब्राह्मणान् वेदसम्पन्नान् ब्रह्मकर्मसमन्वितान् ॥११॥
आमन्त्रयेद् यथान्यायं यजमानो विशेषतः ।
ब्रह्मचर्यव्रतं कुर्युस्त्रिरात्रं ते द्विजातयः ॥१२॥
अहोरात्रमुपोष्याथ गायत्रीमयुतं जपेत् ।
ते शुक्लवाससः स्त्राता गन्धस्त्रकपुष्पधारिणः ॥१३॥
शुचयश्च निराहाराः संतुष्टाः संयतेन्द्रियाः ।
कौशमासनमासीना एकाग्रमनसः पुनः ॥१४॥
आरभेयुश्च ते यत्नात्ततो होममतन्द्रिताः ।
भूमिमालिख्य चाभ्युक्ष्य यत्नादग्निं निधापयेत् ॥१५॥
गृह्योक्तेन विधानेन होमं तत्र च होमयेत् ।
आघारवाज्यभागौ च जुहुयात्पूर्वमेव तु ॥१६॥
यवधान्यतिलैर्मिश्रां गायत्र्या प्रथमाहुतिम् ।
जुहुयादेकचित्तेन स्वाहाकारान्वितां बुधः ॥१७॥
गायत्री छन्दसां माता ब्रह्मयोनिः प्रतिष्ठिता ।
सविता देवता तस्या विश्वामित्रस्तथा ऋषिः ॥१८॥
ततो व्याहतिभिः पश्चाज्जुहुयाच्च तिलान्वितम् ।
यावत्प्रयूर्यते संख्या लक्षं वा कोटिरेव वा ॥१९॥
तावद्धोमं तिलैः कुर्यादच्युतार्चनपूर्वकम् ।
दीनानाथजनेभ्यस्तु यजमानः प्रयत्नतः ॥२०॥
तावच्च भोजनं दद्याद् यावद्धोमं समाचरेत् ।
समाप्ते दक्षिणां दद्याद् ऋत्विग्भ्यः श्रद्धयान्वितः ॥२१॥
यथार्हता न लोभेन ततः शान्त्युदकेन च ।
प्रोक्षयेद् ग्राममध्ये तु व्याधितांस्तु विशेषतः ॥२२॥
एवं कृते तु होमस्य पुरस्य नगरस्य च ।
राष्ट्रस्य च महाभाग राज्ञो जनपदस्य च ।
सर्वबाधाप्रशमनी शान्तिर्भवति सर्वदा ॥२३॥
मार्कण्डेय उवाच
इत्येतच्छौनकप्रोक्तं कथितं नृपनन्दन ।
लक्षहोमादिकविधिं कार्यं राष्ट्रे सुशान्तिदम् ॥२४॥
ग्रामे गृहे वा पुरबाह्यदेशे द्विजैरयं यत्नकृतः पुरोविधिः ।
तत्रापि शान्तिर्भविता नराणां गवां च भृत्यैः सह भूपतेश्च ॥२५॥
इति श्रीनरसिंहपुराणे लक्षहोमविधिर्नाम पञ्चत्रिंशोऽध्यायः ॥३५॥
N/A
References : N/A
Last Updated : June 17, 2010
TOP