श्रीशुक उवाच
संसारवृक्षमारुह्य द्वन्द्वपाशशतैर्दृढैः ।
बध्यामानः सुतैश्वर्यैः पतितो योनिसागरे ॥१॥
यः कामक्रोधलोभैस्तु विषयैः परिपीडितः ।
बद्धः स्वकर्मभिर्गोणैः पुत्रदारैषणादिभिः ॥२॥
स केन निस्तरत्याशु दुस्तरं भवसागरम् ।
पृच्छामाख्याहि मे तात तस्य मुक्तिः कथं भवेत् ॥३॥
श्रीव्यास उवाच
श्रृणु वत्स महाप्राज्ञ यञ्ञात्वा मुक्तिमाप्नुयात् ।
तच्च वक्ष्यामि ते दिव्यं नारदेन श्रुतं पुरा ॥४॥
नरके रौरवे घोरे धर्मज्ञानविवर्जिताः ।
स्वकर्मभिर्महादुःखं प्राप्ता यत्र यमालये ॥५॥
महापापकृतं घोरं सम्र्पाप्ताः पापकृज्जनाः ।
आलोक्य नारदः शीघ्रं गत्वा यत्र त्रिलोचनः ॥६॥
गङ्गाधरं महादेवं शंकरं शूलपाणिनम् ।
प्रणम्य विधिवद्देवं नारदः परिपृच्छति ॥७॥
नारद उवाच
यः संसारे महाद्वन्द्वैः कामभोगैः शुभाशुभैः ।
शब्दादिविषयैर्बद्धः पीड्यमानः षडूर्मिभिः ॥८॥
कथं नु मुच्यते क्षिप्रं मृत्युसंसारसागरात् ।
भगवन् ब्रूहि मे तत्त्वं श्रोतुमिच्छामि शंकर ॥९॥
तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः ।
उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥१०॥
महेश्वर उवाच
ज्ञानामृतं च गुह्यं च रहस्यमृषिसत्तम ।
वक्ष्यामि श्रृणु दुःखघ्नं सर्वबन्धभयापहम् ॥११॥
तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् ।
चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥१२॥
तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते ।
स निस्तरति संसारं देवानामपि दुस्तरम् ॥१३॥
भोगैश्वर्यमदोन्मत्तस्तत्त्वज्ञानपराङ्मुखः ।
संसारसुमहापङ्के जीर्णा गौरिव मज्जति ॥१४॥
यस्त्वात्मानं निबध्नाति कर्मभिः कोशकारवत् ।
तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि ॥१५॥
तस्मान्नारद सर्वेशं देवानां देवमव्ययम् ।
आराधयेत्सदा सम्यग् ध्यायेद्विष्णुं समाहितः ॥१६॥
यस्तं विश्वमनाद्यन्तमाद्यं स्वात्मनि संस्थितम् ।
सर्वज्ञममलं विष्णुं सदा ध्यायन् विमुच्यते ॥१७॥
निर्विकल्पं निराकाशं निष्प्रपञ्चं निरामयम् ।
वासुदेवमजं विष्णुं सदा ध्यायन् विमुच्यते ॥१८॥
निरञ्जनं परं शान्तमच्युतं भूतभावनम् ।
देवगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते ॥१९॥
सर्वपापविनिर्मुक्तमप्रमेयमलक्षणम् ।
निर्वाणमनघं विष्णुं सदा ध्यायन् विमुच्यते ॥२०॥
अमृतं परमानन्दं सर्वपापविवर्जितम् ।
ब्रह्मण्यं शंकरं विष्णुं सदा संकीर्त्य मुच्यते ॥२१॥
योगेश्वरं पुराणाख्यमशरीरं गुहाशयम् ।
अमात्रमव्ययं विष्णुं सदा ध्यायन् विमुच्यते ॥२२॥
शुभाशुभविनिर्मुक्तमूर्षिषटकपरं विभुम् ।
अचिन्त्यममलं विष्णुं सदा ध्यायन् विमुच्यते ॥२३॥
सर्वद्वन्द्वविनिर्मुक्तं सर्वदुःखविवर्जितम् ।
अप्रतर्क्यमजं विष्णुं सदा ध्यायन् विमुच्यते ॥२४॥
अनामगोत्रमद्वैतं चतुर्थं परमं पदम् ।
तं सर्वहद्रतं विष्णुं सदा ध्यायन् विमुच्यते ॥२५॥
अरुपं सत्यसंकल्पं शुद्धमाकाशवत्परम् ।
एकाग्रमनसा विष्णुं सदा ध्यायन् विमुच्यते ॥२६॥
सर्वात्मकं स्वभावस्थमात्मचैतन्यरुपकम् ।
शुभ्रमेकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते ॥२७॥
अनिर्वाच्यमविज्ञेयमक्षरादिमसम्भवम् ।
एकं नूत्नं सदा विष्णूं सदा ध्यायन् विमुच्यते ॥२८॥
विश्वाद्यं विश्वगोप्तारं विश्वादं सर्वकामदम् ।
स्थानत्रयातिगं विष्णुं सदा ध्यायन् विमुच्यते ॥२९॥
सर्वदुःखक्षयकरं सर्वशान्तिकरं हरिम् ।
सर्वपापहरं विष्णुं सदा ध्यायन् विमुच्यते ॥३०॥
ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः ।
योगिभिः सेवितं विष्णुं सदा ध्यायन् विमुच्यते ॥३१॥
विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः ।
विश्वेश्वरमजं विष्णुं कीर्तयन्नेव मुच्यते ॥३२॥
संसारबन्धनान्मुक्तिमिच्छन् काममशेषतः ।
भक्त्यैव वरदं विष्णुं सदा ध्यायन् विमुच्यते ॥३३॥
व्यास उवाच
नारदेन पुरा पृष्ट एवं स वृषभध्वजः ।
यदुवाच तदा तस्मै तन्मया कथितं तव ॥३४॥
तमेव सततं ध्याहि निर्बीजं ब्रह्म केवलम् ।
अवाप्यसि ध्रुवं तात शाश्वतं पदमव्ययम् ॥३५॥
श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् ।
स विष्णुं सम्यगाराध्य परां सिद्धिमवाप्तवान् ॥३६॥
यश्चैनं पठते चैव नृसिंहकृतमानसः ।
शतजन्मकृतं पापमपि तस्य प्रणश्यति ॥३७॥
विष्णोः स्तवमिदं पुण्यं महादेवेन कीर्तितम् ।
प्रातः स्नात्वा पठेन्नित्यममृतत्वं स गच्छति ॥३८॥
ध्यायन्ति ये नित्यमनन्तमच्युतं
हत्पद्ममध्येष्वथ कीर्तयन्ति ये ।
उपासकानां प्रभुमीश्वरं परं
ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥३९॥
इति श्रीनरसिंहपुराणे विष्णोः स्तवराजनिरुपणे षोडशोऽध्यायः ॥१६॥