राजोवाच
भक्तानां लक्षणं ब्रूहि नरसिंहस्य मे द्विज ।
येषां संगतिमात्रेण विष्णुलोको न दूरतः ॥१॥
श्रीमार्कण्डेय उवाच
विष्णुभक्ता महोत्साहा विष्णवर्चनविधौ सदा ।
संयता धर्मसम्पन्नाः सर्वार्थान् साधयन्ति ते ॥२॥
परोपकारनिरता गुरुशुश्रूषणे रताः ।
वर्णाश्रमाचारयुताः सर्वेषां सुप्रियंवदाः ॥३॥
वेदवेदार्थतत्त्वज्ञा गतरोषा गतस्पृहाः ।
शान्ताश्च सौम्यवदनाद नित्यं धर्मपरायणाः ॥४॥
हितं मितं च वक्तारः काले शक्त्यातिथिप्रियाः ।
दम्भमयाविनिर्मुक्ताः कामक्रोधविवर्जिताः ॥५॥
ईदृग्विधा नरा धीराः क्षमावन्तो बहुश्रुताः ।
विष्णुकीर्तनसंजातहर्षा रोमाञ्चिता जनाः ॥६॥
विष्णवर्चापूजने यत्तास्तत्कथायां कृतादराः ।
ईदृग्विधा महात्मानो विष्णुभक्ताः प्रकीर्तिताः ॥७॥
राजोवाच
ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रति ।
इति प्रोक्तं त्वया विद्वन् भृगुवर्य गुरो मम ॥८॥
वर्णानामाश्रमाणां च धर्मं मे वक्तुमर्हसि ।
यैः कृतैस्तुष्यते देवो नरसिंहः सनातनः ॥९॥
श्रीमार्कण्डेय उवाच
अत्र ते वर्णयिष्यामि पुरावृत्तमनुत्तमम् ।
मुनिभिः सह संवादं हारीतस्य महात्मनः ॥१०॥
हारीतं धर्मतत्त्वज्ञमासीनं बहुपाठकम् ।
प्रणिपत्याब्रुवन् सर्वे मुनयो धर्मकाङ्क्षिणः ॥११॥
भगवन् सर्वधर्मज्ञ सवैधर्मप्रवर्तक ।
वर्णानामाश्रमाणां च धर्मं प्रबूहि शाश्वतम् ॥१२॥
हारीत उवाच
नारायणः पुरा देवो जगत्स्रष्टा जलोपरि ।
सुष्वाप भोगिपर्यङ्के शयने तु श्रिया सह ॥१३॥
तस्य सुप्तस्य नाभौ तु दिव्यं पद्ममभूत् किल ।
तन्मध्ये चाभवदब्रह्मा वेदवेदाङ्गभूषणः ॥१४॥
स चोक्तस्तेन देवेन ब्राह्मणान् मुखतोऽसृजत् ।
असृजत्क्षत्रियान् बाह्वोर्वैश्यांस्तु ऊरुतोऽसृजत् ॥१५॥
शूद्रास्तु पादतः सृष्टास्तेषां चैवानुपूर्वशः ।
धर्मशास्त्रं च मर्यादां प्रोवाच कमलोद्भवः ॥१६॥
तद्वत्सर्वं प्रवक्ष्यामि श्रृणुत द्विजसत्तमाः ।
धन्यं यशस्यामायुष्यं स्वर्गमोक्षफलप्रदम् ॥१७॥
ब्राह्मण्यां ब्राह्नणेनैव चोत्पन्नो ब्राह्मणः स्मृतः ।
तस्य धर्मं प्रवक्ष्यामि तद्योग्यं देशमेव च ॥१८॥
कृष्णसारो मृगो यत्र स्वभावात्तु प्रवर्त्तते ।
तस्मिन देशे वसेर्धर्मं कुरु ब्राह्मणपुंगव ॥१९॥
षट्कर्माणि च यान्याहुर्बाह्मणस्य मनीषिणः ।
तैरेव सततं यस्तु प्रवृत्तः सुखमेधते ॥२०॥
अध्ययनाध्यापनं च यजनं याजनं तथा ।
दानं प्रतिग्रहश्चेति कर्मषटकमिहोच्यते ॥२१॥
अध्यापनं च त्रिविधं धर्मस्यार्थस्य कारणम् ।
शुत्रूषाकारणं चैव त्रिविधं परिकीर्तितम् ॥२२॥
योग्यानध्यापयोच्छिष्यान् याज्यानापि च याजयेत् ।
विधिना प्रतिगृह्णंश्च गृहधर्मप्रसिद्धये ॥२३॥
वेदमेवाभ्यसेन्नित्यं शुभे देशे समाहितः ।
नित्यं नैमित्तिकं काम्यं कर्म कुर्यात् प्रयत्नतः ॥२४॥
गुरुशुश्रूषणं चैव यथान्यायमतन्द्रितः ।
सायं प्रातरुपासीत विधिनाग्निं द्विजोत्तमः ॥२५॥
कृतस्त्रानस्तु कुर्वीत वैश्वदेवं दिने दिने ।
अतिथिं चागतं भक्त्या पूजयेच्छक्तितो गृही ॥२६॥
अन्यानथागतान् दृष्ट्वा पूजयेदविरोधतः ।
स्वदारनिरतो नित्यं परदारविवर्जितः ॥२७॥
सत्यवादी जितक्रोधः स्वधर्मनिरतो भवेत् ।
स्वकर्मणि च सम्प्रासे प्रमादं नैव कारयेत् ॥२८॥
प्रियां हितां वदेद्वाचं परलोकाविरोधिनीम् ।
एवं धर्मः समुद्दिष्टो ब्राह्मणस्य समासतः ।
धर्ममेवं तु यः कुर्यात्स याति ब्रह्मणः पदम् ॥२९॥
इत्येष धर्मः कथितो मया वै विप्रस्य विप्रा अखिलाघहारी ।
वदामि राजादिजनस्य धर्मं पृथक्पृथग्बोधत विप्रवर्याः ॥३०॥
इति श्रीनरसिंहपुराणे ब्राह्मणधर्मकथनं नाम सप्तपञ्चाशोऽध्यायः ॥५७॥