मार्कण्डेय उवाच
बालिना कृतवैरोऽथ दुर्गवर्ती हरीश्वरः ।
सुग्रीवो दृष्टवान् दूराददृष्ट्वाऽऽह पवनात्मजम् ॥१॥
कस्येमौ सुधनुः पाणी चीरवल्कलधारिणौ ।
पश्यन्तौ सरसीं दिव्यां पद्मोत्पलसमावृताम् ॥२॥
नानारुपधरावेतौ तापसं वेषमास्थितौ ।
बालिदूताविह प्राप्ताविति निश्चित्य सूर्यजः ॥३॥
उत्पपात भयत्रस्तः ऋष्यमूकाद् वनान्तरम् ।
वानरैः सहितः सर्वैरगस्त्यश्रममुत्तमम् ॥४॥
तत्र स्थित्वा स सुग्रीवः प्राह वायुसुतं पुनः ।
हनूमन् पृच्छ शीघ्रं त्वं गच्छ तापसवेषधृक् ॥५॥
कौ हि कस्य सुतौ जातौ किमर्थं तत्र संस्थितौ ।
ज्ञात्वा सत्यं मम ब्रूहि वायुपुत्र महामते ॥६॥
इत्युक्तो हनुमान् गत्वा पम्पातटमनुत्तमम् ।
भिक्षुरुपी स तं प्राह रामं भ्रात्रा समन्वितम् ॥७॥
को भवानिह सम्प्राप्तस्तथ्यं ब्रूहि महामते ।
अरण्ये निर्जने घोरे कुतस्त्वं किं प्रयोजनम् ॥८॥
एवं वदन्तं तं प्राह लक्ष्मणो भ्रातुराज्ञया ।
प्रवक्ष्यामि निबोध त्वं रामवृत्तान्तमादितः ॥९॥
राजा दशरथो नाम बभूव भुवि विश्रुतः ।
तस्य पुत्रो महाबुद्धे रामो ज्येष्ठो ममाग्रजः ॥१०॥
अस्याभिषेक आरब्धः कैकेय्या तु निवारितः ।
पितुराज्ञामयं कुर्वन् रामो भ्राता ममाग्रजः ॥११॥
मया सह विनिष्क्रम्य सीतया सह भार्यया ।
प्रविष्टो दण्डकारण्यं नानामुनिसमाकुलम् ॥१२॥
जनस्थाने निवसतो रामस्यास्य महात्मनः ।
भार्या सीता तत्र वने केनापि पाप्पना हता ॥१३॥
सीतामन्वेषयन् वीरो रामः कमललोचनः ।
इहायातस्त्वया दृष्ट इति वृत्तान्तमीरितम् ॥१४॥
श्रुत्वा ततो वचस्तस्य लक्ष्मणस्य महात्मनः ।
अव्याञ्जितात्मा विश्वासाद्धनूमान् मारुतात्मजः ॥१५॥
त्वं मे स्वामी इति वदन् रामं रघुपतिं तदा ।
आश्वास्यानीय सुग्रीवं तयोः सख्यमकारयत् ॥१६॥
शिरस्यारोप्य पादाब्जं रामस्य विदितात्मनः ।
सुग्रीवो वानरेन्द्रस्तु उवाच मधुराक्षरम् ॥१७॥
अद्यप्रभृति राजेन्द्र त्वं मे स्वामी न संशयः ।
अहं तु तव भृत्यश्च वानरैः सहितः प्रभो ॥१८॥
त्वच्छत्रुर्मम शत्रुः स्यादद्यप्रभृति राघव ।
मित्रं ते मम सन्मित्रं त्वददुःखं तन्ममापि च ॥१९॥
त्वत्प्रीतिरेव मत्प्रीतिरित्युक्त्वा पुनराह तम् ।
वाली नाम मम ज्येष्ठो महाबलपराक्रमः ॥२०॥
भार्यापहारी दुष्टात्मा मदनासक्तमानसः ।
त्वामृते पुरुषव्याघ्र नास्ति हन्ताद्य वालिनम् ॥२१॥
युगपत्सप्ततालांस्तु तरुन् यो वै वधिष्यति ।
स तं वधिष्यतीत्युक्तं पुराणज्ञैर्नृपात्मज ॥२२॥
तत्प्रियार्थं हि रामोऽपि श्रीमांश्छित्त्वा महातरुन् ।
अर्धाकृष्टेन बाणेन युगप्रदघुनन्दनः ॥२३॥
विदध्वा महातरुन् रामः सुग्रीवं प्राह पार्थिवम् ।
वालिना गच्छ युध्यस्व कृतचिह्नो रवेः सुत ॥२४॥
इत्युक्तः कृतचिह्नोऽयं युद्धं चक्रेऽथ वालिना ।
रामोऽपि तत्र गत्वाथ शरेणैकेन वालिनम् ॥२५॥
विव्याध वीर्यवान् वाली पपात च ममार च ।
वित्रस्तं वालिपुत्रं तु अङ्गदं विनयान्वितम् ॥२६॥
रणशौण्डं यौवराज्ये नियुक्त्वा राघवस्तदा ।
तां च तारां तथा दत्त्वा रामश्च रविसूनवे ॥२७॥
सुग्रीवं प्राहं धर्मात्मा रामः कमललोचनः ।
राज्यमन्वेषय स्वं त्वं कपीनां पुनराव्रज ॥२८॥
त्वं सीतान्वेषणे यत्नं कुरु शीघ्रं हरीश्वर ।
इत्युक्तः प्राह सुग्रीवो रामं लक्ष्मणसंयुतम् ॥२९॥
प्रावृट्कालो महान् प्राप्तः साम्प्रतं रघुनन्दन ।
वानराणां गतिर्नास्ति वने वर्षति वासवे ॥३०॥
गते तमिंस्तु राजेन्द्र प्राप्ते शरदि निर्मले ।
चारान् सम्प्रेषयिष्यामि वानरान्दिक्षु राघव ॥३१॥
इत्युक्त्वा रामचन्द्रं स तं प्रणम्य कपीश्वरः ।
पम्पापुरं प्रविश्याथ रेमे तारासमन्वितः ॥३२॥
रामोऽपि विधिवदभ्रात्रा शैलसानौ महावने ।
निवासं कृतवान् शैले नीलकण्ठे महामतिः ॥३३॥
प्रावृट्काले गते कृच्छ्रात् प्राप्ते शरदि राघवः ।
सीतावियोगाद्व्यथितः सौमित्रिं प्राह लक्ष्मणम् ॥३४॥
उल्लङ्घितस्तु समयः सुग्रीवेण ततो रुषा ।
लक्ष्मणं प्राह काकुत्स्थो भ्रातरं भ्रातृवत्सलः ॥३५॥
गच्छ लक्ष्मण दुष्टोऽसौ नागतः कपिनायकः ।
गते तु वर्षाकालेऽहमागमिष्यामि तेऽन्तिकम् ॥३६॥
अनेकैर्वानरैः सार्धमित्युक्त्वासौ तदा गतः ।
तत्र गच्छ त्वरा युक्तो यत्रास्ते कपिनायकः ॥३७॥
तं दुष्टमग्रतः कृत्वा हरिसेनासमन्वितम् ।
रमन्तं तारया सार्धं शीघ्रमानय मां प्रति ॥३८॥
नात्रागच्छति सुग्रीवो यद्यसौ प्राप्तभूतिकः ।
तदा त्वयैवं वक्तव्यः सुग्रीवोऽनृतभाषकः ॥३९॥
वालिहन्ता शरो दुष्ट करे मेऽद्यापि तिष्ठति ।
स्मृत्वैतदाचर कपे रामवाक्यं हितं तव ॥४०॥
इत्युक्तस्तु तथेत्युक्त्वा रामं नत्वा च लक्ष्मणः ।
पम्पापुरं जगामाथ सुग्रीवो यत्र तिष्ठति ।
दृष्ट्वा स तत्र सुग्रीवं कपिराजं बभाष वै ॥४१॥
ताराभोगविषक्तस्त्वं रामकार्यपराङ्मुखः ।
किं त्वया विस्मृतं सर्वं रामाग्रे समयं कृतम् ॥४२॥
सीतामन्विष्य दास्यामि यत्र क्वापीति दुर्मते ।
हत्वा तु वालिनं राज्यं येन दत्तं पुरा तव ॥४३॥
त्वामृते कोऽवमन्येत कपीन्द्र पापचेतस ।
प्रतिश्रुत्य च रामस्य भार्याहीनस्य भूपते ॥४४॥
साहाय्यं ते करोमिति देवाग्निजलसंनिधौ ।
ये ये च शत्रवो राजंस्ते ते च मम शत्रवः ॥४५॥
मित्राणि यानि ते देव तानि मित्राणि मे सदा ।
सीतामन्वेषितुं राजन् वानरैर्बहुभिर्वृतः ॥४६॥
सत्यं यास्यामि ते पार्श्वमित्युक्त्वा कोऽन्यथाकरोत् ।
त्वामृते पापिनं दुष्टं रामदेवस्य संनिधौ ॥४७॥
कारयित्वा तु तेनैवं स्वकार्यं दुष्टवानर ।
ऋषीणां सत्यवद्वाक्यं त्वयि दृष्टं मयाधुना ॥४८॥
सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते ।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥४९॥
जनवृत्तविदां लोके सर्वज्ञानां महात्मनाम् ।
न तं पश्यामि लोकेऽस्मिन् कृतं प्रतिकरोति यः ॥५०॥
शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।
कृतघ्नस्य कपे दुष्ट न दृष्टा निष्कृतिः पुरा ॥५१॥
कृतघ्रना न कार्या ते त्वत्कृतं समयं स्मर ।
एह्येह्यागच्छ शरणं काकुत्स्थं हितपालकम् ॥५२॥
यदि नायासि च कपे रामवाक्यामिदं श्रृणु ।
नयिष्ये मृत्युसदनं सुग्रीवं वालिनं यथा ॥५३॥
स शरो विद्यतेऽस्माकं येन वाली हतः कपिः ।
लक्ष्मणेनैवमुक्तोऽसौ सुग्रीवः कपिनायकः ॥५४॥
निर्गत्य तु नमश्चके लक्ष्मणं मन्त्रिणोदितः ।
उवाच च महात्मानं लक्ष्मणं वानराधिपः ॥५५॥
अज्ञानकृतपापानामस्माकं क्षन्तुमर्हसि ।
समयः कृतो मया राज्ञा रामेणामिततेजसा ॥५६॥
यस्तदानीं महाभाग तमद्यापि न लङ्घये ।
यास्यामि निखिलरैद्य कपिभिर्नृपनन्दन ॥५७॥
त्वया सह महावीर रामपार्श्वं न संशयः ।
मां दृष्ट्वा तत्र काकुत्स्थो यद्वक्ष्यति च मां प्रति ॥५८॥
तत्सर्वं शिरसा गृह्य करिष्यासि न संशयः ।
सन्ति मे हरयः शूराः सीतान्वेषणकर्मणि ॥५९॥
तान्यहं प्रेषयिष्यामि दिक्षु सर्वासु पार्थिव ।
इत्युक्तः कपिराजेन सुग्रीवेण स लक्ष्मणः ॥६०॥
इहि शीघ्रं गमिष्यामो रामपार्श्वमितोऽधुना ।
सेना चाहूयतां वीर ऋक्षाणां हरिणामपि ॥६१॥
यां दृष्ट्वा प्रीतिमभ्येति राघवस्ते महामते ।
इत्युक्तो लक्ष्मणेनाथ सुग्रीवः स तु वीर्यवान् ॥६२॥
पार्श्वस्यं युवराजानमङ्गदं संज्ञयाब्रवीत् ।
सोऽपि निर्गत्य सेनानीमाह सेनापतिं तदा ॥६३॥
तेनाहूताः समागत्य ऋक्षवानरकोटयः ।
गुहास्थाश्च गिरिस्थाश्च वृक्षस्थाश्चैव वानराः ॥६४॥
तैः सार्धं पर्वताकारैर्वानरैर्भीमविक्रमैः ।
सुग्रीवः शीघ्रमागत्य ववन्दे राघवं तदा ॥६५॥
लक्ष्मणोऽपि नमस्कृत्य रामं भ्रातरमब्रवीत् ।
प्रसादं कुरु सुग्रीवे विनीते चाधुना नृप ॥६६॥
इत्युक्तो राघवस्तेन भ्रात्रा सुग्रीवमब्रवीत् ।
आगच्छात्र महावीर सुग्रीव कुशलं तव ॥६७॥
श्रुत्वेत्थं रामवचनं प्रसन्नं च नराधिपम ।
शिरस्यञ्जलिमाधाय सुग्रीवो राममब्रवीत् ॥६८॥
तदा मे कुशलं राजन् सीतादेवी तव प्रभो ।
अन्विष्य तु यदा दत्ता मया भवति नान्यथा ॥६९॥
इत्युक्ते वचने तेन हनूमान्मारुतात्मजः ।
नत्वा रामं बभाषैनं सुग्रीवं कपिनायकम् ॥७०॥
श्रृणु सुग्रीव मे वाक्यं राजायं दुःखितो भृशम् ।
सीतावियोगेन च सदा नाश्नाति च फलादिकम् ॥७१॥
अस्य दुःखेन सततं लक्ष्मणोऽयं सुदुःखितः ।
एतयोरत्र यावस्था तां श्रुत्वा भरतोऽनुजः ॥७२॥
दुःखी भवति तददुः खाददुः खं प्राप्नोति तज्जनः ।
यत एवमतो राजन् सीतान्वेषणमाचर ॥७३॥
इत्युक्ते वचने तत्र वायुपुत्रेण धीमता ।
जाम्बवानतितेजस्वी नत्वा रामं पुरः स्थितः ॥७४॥
स प्राह कपिराजं तं नीतिमान् नीतिमद्वचः ।
यदुक्तं वायुपुत्रेण तत्तथेत्यवगच्छ भोः ॥७५॥
यत्र क्वापि स्थिता सीता रामभार्या यशस्विनी ।
पतिव्रता महाभागा वैदेही जनकात्मजा ॥७६॥
अद्यापि वृत्तसम्पन्ना इति मे मनसि स्थितम् ।
न हि कल्याणचित्तायाः सीतायाः केनचिद्भुवि ॥७७॥
पराभवोऽस्ति सुग्रीव प्रेषयाद्यैव वानरान् ।
इत्युक्तस्तेन सुग्रीवः प्रीतामा कपिनायकः ॥७८॥
पश्चिमायां दिशि तदा प्रेषयामास तान् कपीन् ।
अन्वेष्टुं रामभार्यां तां महाबलपराक्रमः ॥७९॥
उत्तरस्यां दिशि तदा नियुतान् वानरानसौ ।
प्रेषयामास धर्मात्मा सीतान्वेषणकर्मणि ॥८०॥
पूर्वस्यां दिशि कर्पीश्च कपिराजः प्रतापवान् ।
प्रेषयामास रामस्य सुभार्यान्वेषणाय वै ॥८१॥
इति तान् प्रेषयामास वानरान् वानराधिपः ।
सुग्रीवो वालिपुत्रं तमङ्गदं प्राह बुद्धिमान् ॥८२॥
त्वं गच्छ दक्षिणं देशं सीतान्वेषणकर्मणि ।
जाम्बवांश्च हनूमांश्च मैन्दो द्विविद एव च ॥८३॥
नीलाद्याश्चैव हरयो महाबलपराक्रमाः ।
अनुयास्यन्ति गच्छन्तं त्वामद्य मम शासनात् ॥८४॥
अचिरादेव यूयं तां दृष्ट्वा सीतां यशस्विनीम् ।
स्थानतो रुपतश्चैव शीलतश्च विशेषतः ॥८५॥
केन नीता च कुत्रास्ते ज्ञात्वात्रागच्छ पुत्रक ।
इत्युक्तः कपिराजेन पितृव्येण महात्मना ॥८६॥
अङ्गदस्तूर्णमुत्थाय तस्याज्ञां शिरसा दधे ।
इत्युक्ते दूरतः स्थाप्य वानरानथ जाम्बवान् ॥८७॥
रामं च लक्ष्मणं चैव सुग्रीवं मारुतात्मजम् ।
एकतः स्थाप्य तानाह नीतिमान् नीतिमद्वचः ॥८८॥
श्रूयतां वचनं मेऽद्य सीतान्वेषणकर्मणि ।
श्रुत्वा च तदगृहाण त्वं रोचते यन्नृपात्मज ॥८९॥
रावणेन जनस्थानान्नीयमाना तपस्विनी ।
जटायुषा तु सा दृष्ट्वा शक्त्या युद्धं प्रकुर्वता ॥९०॥
भूषणानि च दृष्टानि तया क्षिप्तानि तेन वै ।
तान्यस्माभिः प्रदृष्टानि सुग्रीवायार्पितानि च ॥९१॥
जटायुवाक्याद्राजेन्द्र सत्यमित्यवधारय ।
एतस्मात्कारणात्सीता नीता तेनैव रक्षसा ॥९२॥
रावणेन महाबाहो लङ्कायां वर्तते तु सा ।
त्वां स्मरन्ती तु तत्रस्था त्वद्दुःखेन सुदुःखिता ॥९३॥
रक्षन्ती यत्नतो वृत्तं तत्रपि जनकात्मजा ।
त्वद्ध्यानेनैव स्वान् प्राणान्धारयन्ती शुभानना ॥९४॥
स्थिता प्रायेण ते देवी सीता दुःखपरायणा ।
हितमेव च ते राजन्नुदधेर्लङ्घने क्षमम् ॥९५॥
वायुपुत्रं हनूमन्तं त्वमत्रादोष्टुमर्हसि ।
त्वं चाप्यर्हसि सुग्रीव प्रेषितुं मारुतात्मजम् ॥९६॥
तमृते सागरं गन्तुं वानराणां न विद्यते ।
बलं कस्यापि वा वीर इति मे मनसि स्थितम् ॥९७॥
क्रियतां मव्दचः क्षिप्रं हितं पथ्यं च नः सदा ।
उक्ते जाम्बवतैवं तु नीतिस्वल्पाक्षरान्विते ॥९८॥
वाक्ये वानरराजोऽसौ शीघ्रमुत्थाय चासनात् ।
वायुपुत्रसमीपं तु तं गत्वा वाक्यमब्रवीत् ॥९९॥
श्रृणु मद्वचनं वीर हनुमन्मारुतात्मज ।
अयमिक्ष्वाकुतिलको राजा रामः प्रतापवान् ॥१००॥
पितुरादेशमादाय भ्रातृभार्यासमन्वितः ।
प्रविष्टो दण्डकारण्यं साक्षाद्धर्मपरायणः ॥१०१॥
सर्वात्मा सर्वलोकेशो विष्णुर्मानुषरुपवान् ।
अस्य भार्या हता तेन दुष्टेनापि दुरात्मना ॥१०२॥
तद्वियोगजदुःखार्तो विचिन्वंस्तां वने वने ।
त्वया दृष्टो नृपः पूर्वमयं वीरः प्रतापवान् ॥१०३॥
एतेन सह संगम्य समयं चापि कारितम् ।
अनेन निहतः शत्रुर्मम वालिर्महाबलः ॥१०४॥
अस्य प्रसादेन कपे राज्यं प्राप्तं मयाधुना ।
मया च तत्प्रतिज्ञातमस्य साहाय्यकर्मणि ॥१०५॥
तत्सत्यं कर्तुमिच्छामि त्वद्वलान्मारुतात्मज ।
उत्तीर्य सागरं वीर दृष्टा सीतामनिन्दिताम् ॥१०६॥
भूयस्तर्तुं बलं नास्ति वानराणां त्वया विना ।
अतस्त्वमेव जानासि स्वामिकार्यं महामते ॥१०७॥
बलवान्नीतिमांश्चैव दक्षस्त्वं दौत्यकर्मणि ।
तेनैवमुक्तो हनुमान् सुग्रीवेण महात्मना ॥१०८॥
स्वामिनोऽर्थं न किं कुर्यामीदृशं किं नु भाषसे ।
इत्युक्तो वायुपुत्रेण रामस्तं पुरतः स्थितम् ॥१०९॥
प्राह वाक्यं महाबाहुर्वाष्पसम्पूर्णलोचनः ।
सीतां स्मृत्वा सुदुःखार्तः कालयुक्तममित्रजित् ॥११०॥
त्वयि भारं समारोप्य समुद्रतरणादिकम् ।
सुग्रीवः स्थाप्यते ह्यत्र मया सार्धं महामते ॥१११॥
हनुमंस्तत्र गच्छ त्वं मत्प्रीत्यै कृतनिश्चयः ।
ज्ञातीनां च तथा प्रीत्यै सुग्रीवस्य विशेषतः ॥११२॥
प्रायेण रक्षसा नीता भार्या मे जनकात्मजा ।
तत्र गच्छ महावीर यत्र सीता व्यवस्थिता ॥११३॥
यदि पृच्छति सादृश्यं मदाकारमशेषतः ।
अतो निरीक्ष्य मां भूयो लक्ष्मणं च ममानुजम् ॥११४॥
ज्ञात्वा सर्वाङ्गगं लक्ष्म सकलं चावयोरिह ।
नान्यथा विश्वसेत्सीता इति मे मनसि स्थितम् ॥११५॥
इत्युक्तो रामदेवेन प्रभञ्जनसुतो बली ।
उत्थाय तत्पुरः स्थित्वा कृताञ्जलिरुवाच तम् ॥११६॥
जानामि लक्षणं सर्वं युवयोस्तु विशेषतः ।
गच्छामि कपिभिः सार्धं त्वं शोकं मा कुरुष्व वै ॥११७॥
अन्यच्च देह्यभिज्ञानं विश्वासो येन मे भवेत् ।
सीतायास्तव देव्यास्तु राजन् राजीवलोचन ॥११८॥
इत्युक्तो वायुपुत्रेण रामः कमललोचनः ।
अङ्गुलीयकमुन्मुच्य दत्तवान् रामचिह्नितम् ॥११९॥
तदगृहीत्वा तदा सोऽपि हनुमान्मारुतात्मजः ।
रामं प्रदक्षिणीकृत्य लक्ष्मणं च कपीश्वरम् ॥१२०॥
नत्वा ततो जगामाशु हनुमानञ्जनीसुतः ।
सुग्रीवोऽपि च ताञ्छुत्वा वानरान् गन्तुमुद्यतान् ॥१२१॥
आज्ञेयानाज्ञापयति वानरान् बलदर्पितान् ।
श्रृण्वन्तु वानराः सर्वे शासनं मम भाषितम् ॥१२२॥
विलम्बनं न कर्तव्यं युष्माभिः पर्वतादिषु ।
द्रुतं गत्वा तु तां वीक्ष्य आगन्तव्यमनिन्दिताम् ॥१२३॥
रामपत्नीं महाभागां स्थास्येऽहं रामसंनिधौ ।
कर्तनं वा करिष्यामि अन्यथा कर्णनासयोः ॥१२४॥
एवं तान् प्रेषयित्वा तु आज्ञापूर्वं कपीश्वरः ।
अथ ते वानरा याताः पश्चिमादिषु दिक्षु वै ॥१२५॥
ते सानुषु समस्तेषु गिरीणामपि मूर्धसु ।
नदीतीरेषु सर्वेषु मुनीनामाश्रमेषु च ॥१२६॥
कन्दरेषु च सर्वेषु वनेषूपवनेषु च ।
वृक्षेषु वृक्षगुल्मेषु गुहासु च शिलासु च ॥१२७॥
सह्यपर्वतपार्श्वेषु विन्ध्यसागरपार्श्वयोः ।
हिमवत्यपि शैले च तथा किम्पुरुषादिषु ॥१२८॥
मनुदेशेषु सर्वेषु सप्तपातालकेषु च ।
मध्यदेशेषु सर्वेषु कश्मीरेषु महाबलाः ॥१२९॥
पूर्वदेशेषु सर्वेषु कामरुपेषु कोशले ।
तीर्थस्थानेषु सर्वेषु सप्तकोङ्कणकेषु च ॥१३०॥
यत्र तत्रैव ते सीतामदृष्ट्वा पुनरागताः ।
आगत्य ते नमस्कृत्य रामलक्ष्मणपादयोः ॥१३१॥
सुग्रीवं च विशेषेण नास्माभिः कमलेक्षणा ।
दृष्टा सीता महाभागेत्युक्त्वा तांस्तत्र तस्थिरे ॥१३२॥
ततस्तं दुःखितं प्राह रामदेवं कपीश्वरः ।
सीता दक्षिणदिग्भागे स्थिता द्रष्टुं वने नृप ॥१३३॥
शक्या वानरसिंहेन वायुपुत्रेण धीमता ।
दृष्टा सीतामिहायाति हनुमान्नात्र संशयः ॥१३४॥
स्थिरो भव महाबाहो राम सत्यमिदं वचः ।
लक्ष्मणोऽप्याह शकुनं तत्र वाक्यमिदं तदा ॥१३५॥
सर्वथा दृष्टसीतस्तु हनुमानागमिष्यति ।
इत्याश्वास्य स्थितौ तत्र रामं सुग्रीवलक्ष्मणौ ॥१३६॥
अथाङ्गदं पुरस्कृत्य ये गता वानरोत्तमाः ।
यत्नादन्वेषणार्थाय रामपत्नीं यशस्विनीम् ॥१३७॥
अदृष्ट्वा श्रममापन्नाः कृच्छ्रभूतास्तदा वने ।
भक्षणेन विहीनास्ते क्षुधया च प्रपीडिताः ॥१३८॥
भ्रमद्भिर्गहनेऽरण्ये क्वापि दृष्ट्वा च सुप्रभा ।
गुहानिवासिनी सिद्धा ऋषिपत्नी ह्यनिन्दिता ॥१३९॥
सा च तानागतान्दृष्ट्वा स्वाश्रमं प्रति वानरान् ।
आगताः कस्य यूयं तु कुतः किं नु प्रयोजनम् ॥१४०॥
इत्युक्ते जाम्बवानाह तां सिद्धां सुमहामतिः ।
सुग्रीवस्य वयं भृत्या आगता ह्यत्र शोभने ॥१४१॥
रामभार्यार्थमनघे सीतान्वेषणकर्मणि ।
कां दिग्भूता निराहारा अदृष्टा जनकात्मजाम् ॥१४२॥
इत्युक्ते जाम्बवत्यत्र पुनस्तानाह सा शुभा ।
जानामि रामं सीतां च लक्ष्मणं च कपीश्वरम् ॥१४३॥
भुञ्जीध्वमत्र मे दत्तमाहारं च कपीश्वराः ।
रामकार्यागतास्त्वत्र यूयं रामसमा मम ॥१४४॥
इत्युक्त्वा चामृतं तेषां योगाद्दत्वा तपस्विनी ।
भोजयित्वा यथाकामं भूयस्तानाह तापसी ॥१४५॥
सीतास्थानं तु जानाति सम्पातिर्नाम पक्षिराट् ।
आस्थितो वै वने सोऽपि महेन्द्रे पर्वते द्विजः ॥१४६॥
मार्गेणानेन हरयस्तत्र यूयं गमिष्यथ ।
स वक्ति सीतां सम्पातिर्दूरदर्शी तु यः खगः ॥१४७॥
तेनादिष्टं तु पन्थानं पुनरासाद्य गच्छथ ।
अवश्यं जानकीं सीतां द्रक्ष्यते पवनात्मजः ॥१४८॥
तयैवमुक्ताः कपयः परां प्रीतिमुपागताः ।
ह्यष्टास्तेजनमापन्नास्तां प्रणम्य प्रतस्थिरे ॥१४९॥
महेन्द्राद्रिं गता वीरा वानरास्तद्दिदृक्षया ।
तत्र सम्पातिमासीनं दृष्टवन्तः कपीश्वराः ॥१५०॥
तानुवाचाथ सम्पातिर्वानरानागतान्द्विजः ।
के यूयमिति सम्प्राप्ताः कस्य वा ब्रूत मा चिरम् ॥१५१॥
इत्युक्ते वानरा ऊचुर्यथावृत्तमनुक्रमात् ।
रामदूता वयं सर्वे सीतान्वेषणकर्मणि ॥१५२॥
प्रेषिताः कपिराजेन सुग्रीवेण महात्मना ।
त्वां द्रष्टुमिह सम्प्राप्ताः सिद्धाया वचनादद्विज ॥१५३॥
सीतास्थानं महाभाग त्वं नो वद महामते ।
इत्युक्तो वानरैः श्येनो वीक्षांचक्रे सुदक्षिणाम् ॥१५४॥
सीतां दृष्ट्वा स लङ्कायामशोकाख्ये महावने ।
स्थितेति कथितं तेज जटायुस्तु मृतस्तव ॥१५५॥
भ्रातेति चोचुः स स्नात्वा दत्त्वा तस्योदकाञ्जलिम् ।
योगमास्थाय स्वं देहं विससर्ज महामतिः ॥१५६॥
ततस्तं वानरा दग्ध्वा दत्त्वा तस्योदकाञ्जलिम् ।
गत्वा महेन्द्रश्रृङ्गं ते तमारुह्य क्षणं स्थिताः ॥१५७॥
सागरं वीक्ष्य ते सर्वे परस्परमथाब्रुवन् ।
रावणेनैव भार्या सा नीता रामस्य निश्चितम् ॥१५८॥
सम्पातिवचनादद्य संज्ञातं सकलं हि तत् ।
वानराणां तु कश्चात्र उत्तीर्य लवणोदधिम् ॥१५९॥
लङ्कां प्रविश्य दृष्ट्वा तां रामपत्नीं यशस्विनीम् ।
पुनश्चोदधितरणे शक्तिं ब्रूत हि शोभनाः ॥१६०॥
इत्युक्तो जाम्बवान् प्राह सर्वे शक्तास्तु वानराः ।
सागरोत्तरणे किंतु कार्यमन्यस्य सम्भवेत् ॥१६१॥
तत्र दक्षोऽयमेवात्र हनुमानिति मे मतिः ।
कालक्षेपो न कर्तव्यो मासार्धमधिकं गतम् ॥१६२॥
यद्यदृष्ट्वा तु गच्छामो वैदेहीं वानरर्षभाः ।
कर्णनासादि नः स्वाङ्गं निकृन्तति कपीश्वरः ॥१६३॥
तस्मात् प्रार्थ्यः स चास्माभिर्वायुपुत्रस्तु मे मतिः ।
इत्युक्तास्ते तथेत्यूचुर्वानरा वृद्धवानरम् ॥१६४॥
ततस्ते प्रार्थयामासुर्वानराः पवनात्मजम् ।
हनुमन्तं महाप्राज्ञं दक्षं कार्येषु चाधिकम् ॥१६५॥
गच्छ त्वं रामभृत्यस्त्वं रावणस्य भयाय च ।
रक्षस्व वानरकुलमस्माकमञ्जनीसुत ।
इत्युक्तस्तांस्तथेत्याह वानरान् पवनात्मजः ॥१६६॥
रामप्रयुक्तश्च पुनः स्वभर्तृणा पुनर्महेन्द्रे कपिभिश्च नोदितः ।
गन्तुं प्रचक्रे मतिमञ्जनीसुतः समुद्रमुत्तीर्य निशाचरालयम् ॥१६७॥
इति श्रीनरसिंहपुराणे रामप्रादुर्भावे पञ्चाशत्तमोऽध्यायः ॥५०॥