सूत उवाच
श्रुत्वेमाममृतां पुण्यां सर्वपाप्रणाशिनीम् ।
अवितृप्तः स धर्मात्मा शुको व्यासमभाषत ॥१॥
श्रीशुक उवाच
अहोऽतीव तपश्चर्या मार्कण्डेयस्य धीमतः ।
येन दृष्टो हरिः साक्षाद्येन मृत्युः पराजितः ॥२॥
न तृप्तिरस्ति मे तात श्रुत्वेमां वैष्णवीं कथाम् ।
पुण्यां पापहरां तात तस्मादन्यत्तु मे वद ॥३॥
नराणां दृढचित्तानामकार्यं नेह कुर्वताम् ।
यत्पुण्यमृषिभिः प्रोक्तं तन्मे वद महामते ॥४॥
व्यास उवाच
नराणां दृढचित्तानामिह लोके परत्र च ।
पुण्यं यत् स्यान्मुनिश्रेष्ठ तन्मे निगदतः श्रृणु ॥५॥
अत्रैवोदाहरन्तीमितिहासं पुरातनम् ।
यम्या च सह संवादं यमस्य च महात्मनः ॥६॥
विवस्वानदितेः पुत्रस्तस्य पुत्रौ सुवर्चसौ ।
जज्ञाते स यमश्चैव यमी चापि यवीयसी ॥७॥
तौ तत्र संविवर्धेते पितुर्भवन उत्तमे ।
क्रीडमानौ स्वभावेन स्वच्छन्दगमनावुभौ ॥८॥
यमी यमं समासाद्य स्वसा भ्रातरमब्रवीत् ॥९॥
यम्युवाच
न भ्राता भगिनीं योग्यां कामयन्तीं च कामयेत् ।
भ्रातृभूतेन किं तस्य स्वसुर्यो न पतिर्भवेत् ॥१०॥
अभूत इव स ज्ञेयो न तु भूतः कथञ्चन ।
अनाथां नाथमिच्छन्तीं स्वसारं यो न नाथति ॥११॥
काङ्क्षन्तीं भ्रातरं नाथं भर्तारं यस्तु नेच्छति ।
भ्रातेति नोच्यते लोके स पुमान् मुनिसत्तमः ॥१२॥
स्याद्वान्यतनया तस्य भार्या भवति किं तया ।
ईक्षतस्तु स्वसा भ्रातुः कामेन परिदह्यते ॥१३॥
यत्कार्यमहमिच्छामि त्वमेवेच्छ तदेव हि ।
अन्यथाहं मरिष्यामि त्वामिच्छन्ती विचेतना ॥१४॥
कामदुः खमसह्यं नु भ्रातः किं त्वं न चेच्छसि ।
कामाग्निना भृशं तप्ता प्रलीयाम्यङ्ग मा चिरम् ॥१५॥
कामार्तायाः स्त्रियाः कान्त वशगो भव मा चिरम् ।
स्वेन कायेन मे कायं संयोजयितुमर्हसि ॥१६॥
यम उवाच
किमिदं लोकविद्विष्टं धर्मं भगिनि भाषसे ।
अकार्यमिह कः कुर्यात् पुमान् भद्रे सुचेतनः ॥१७॥
न ते संयोजयिष्यामि कायं कायेन भामिनि ।
न भ्राता मदनार्तायाः स्वसुः कामं प्रयच्छति ॥१८॥
महापातकमित्याहुः स्वसारं योऽधिगच्छति ।
पशूनामेष धर्मः स्यात् तिर्यग्योनिवतां शुभे ॥१९॥
यम्युवाच
एकस्थाने यथा पूर्वं संयोगो नौ न दुष्यति ।
मातृगर्भे तथैवायं संयोगो नौ न दुष्यति ॥२०॥
किं भ्रातरप्यनाथां त्वं मा नेच्छसि शोभनम् ।
स्वसारं निऋती रक्षः संगच्छति च नित्यशः ॥२१॥
यम उवाच
स्वयम्भुवापि निन्द्येत लोकवृत्तं जुगुप्सितम् ।
प्रधानपुरुषाचीर्णं लोकोऽयमनुवर्तते ॥२२॥
तस्मादनिन्दितं धर्मं प्रधानपुरुषश्चरेत् ।
निन्दितं वर्जयेद्यत्नादेतद्धर्मस्य लक्षणम् ॥२३॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेत्तरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥२४॥
अतिपापमहं मन्ये सुभगे वचनं तव ।
विरुद्धं सर्वधर्मेषु लोकेषु च विशेषतः ॥२५॥
मत्तोऽन्यो यो भवेद्यो वै विशिष्टो रुपशीलतः ।
तेन सार्धं प्रमोदस्व न ते भर्ता भवाम्यहम् ॥२६॥
नाहं स्पृशामि तन्वा ते तनुं भद्रे दृढव्रतः ।
मुनयः पापमाहुस्तं यः स्वसारं निगृह्णति ॥२७॥
यम्युवाच
दुर्लभं चैव पश्यामि लोके रुपमिहेदृशम् ।
यत्र रुपं वयश्चैव पृथिव्यां क्व प्रतिष्ठितम् ॥२८॥
न विजानामि ते चित्तं कुत एतत् प्रतिष्ठितम् ।
आत्मरुपगुणोपेतां न कामयसि मोहिताम् ॥२९॥
लतेव पादपे लग्ना कामं त्वच्छरणं गता ।
बाहुभ्यां सम्परिष्वज्य निवसामि शुचिस्मिता ॥३०॥
यम उवाच
अन्यं श्रयस्व सुश्रोणि देवं देव्यसितेक्षणे ।
यस्तु ते काममोहेन चेतसा विभ्रमं गतः ।
तस्य देवस्य देवी त्वं भवेथा वरवर्णिनि ॥३१॥
ईप्सितां सर्वभूतानां वर्यां शंसन्ति मानवाः ।
सुभद्रां चारुसर्वाङ्गीं संस्कृतां परिचक्षते ॥३२॥
तत्कृतेऽपि सुविद्वांसो न करिष्यन्ति दूषणम् ।
परितापं महाप्राज्ञे न करिष्ये दृढव्रतः ॥३३॥
चित्तं मे निर्मलं भद्रे विष्णौ रुद्रे च संस्थितम् ।
अतः पापं नु नेच्छामि धर्मचित्तो दृढव्रतः ॥३४॥
व्यास उवाच
असकृत् प्रोच्यमानोऽपि तया चैवं दृढव्रतः ।
कृतवान् न यमः कार्यं तेन देवत्वमाप्तवान् ॥३५॥
नराणां दृढचित्तानामेवं पापमकुर्वताम् ।
अनन्तं फलमित्याहुस्तेषां स्वर्गफलं भवेत् ॥३६॥
एतत्तु यम्युपाख्यानं पूर्ववृत्तं सनातनम् ।
सर्वापापहरं पुण्यं श्रोतव्यमनसूयया ॥३७॥
यश्चैतत् पठते नित्यं हव्यकव्येषु ब्राह्मणः ।
संतृप्ताः पितरस्तस्य न विशन्ति यमालयम् ॥३८॥
यश्चैतत् पठते नित्यं पितृणामनृणो भवेत् ।
वैवस्वतीभ्यस्तीव्राभ्यो यातनाभ्यः प्रमुच्यते ॥३९॥
पुत्रैतदाख्यानमनुत्तमं मया तवोदितं वेदपदार्थनिश्चितम् ।
पुरातनं पापहरं सदा नृणां किमन्यदद्यैव वदामि शंस मे ॥४०॥
इति श्रीनरसिंहपुराणे यमीयमसंवादो नाम द्वादशोऽध्यायः ॥१२॥