राजोवाच
हरेरर्चविधिं पुण्यां श्रोतुमिच्छामि तत्त्वतः ।
त्वत्प्रसादाद्विशेषेण भगवन् प्रब्रवीहि मे ॥१॥
सम्मार्जनकरो यश्च नरसिंहस्य मन्दिरे ।
यत्पुण्यं यत्पुण्यं स्त्रापिते केशवे भवेत् ।
क्षीरस्त्रानेन यत्पुण्यं दध्ना च मधुना तथा ।
घृतस्नानेन यत्पुण्यं पञ्चगव्येन यद्भवेत् ॥३॥
क्षालिते चोष्णतोयेन प्रतिमायां च भक्तितः ।
कर्पूरागुरुतोयेन मिश्रेण स्नापितेन च ॥४॥
अर्घ्यदानेन यत्पुण्यं पाद्याचमनदानके ।
मन्त्रेण स्त्रापिते यच्च वस्त्रदानेन यद्भवेत् ॥५॥
श्रीखण्डकुङ्कुमाभ्यां तु अर्चिते किं फलं भवेत् ।
पुष्पैरभ्यर्चिते यच्च यत्फलं धूपदीपयोः ॥६॥
नैवेद्यैर्यत्फलं प्रोक्तं प्रदक्षिणकृते तु यत् ।
नमस्कारकृते यच्च फलं यत्स्तोत्रगीतयोः ॥७॥
तालवृन्तप्रदानेन चामरस्य च यद्भवेत् ।
ध्वजप्रदाने यद्विष्णोः शङ्खदानेन यद्भवेत् ॥८॥
एतच्चान्यच्च यत्किंचिदज्ञानान्न प्रचोदितम् ।
तत्सर्वं कथय ब्रह्मन् भक्तस्य मम केशवे ॥९॥
सूत उवाच
इति सम्प्रेरितो विप्रस्तेन राज्ञा भृगुस्तदा ।
मार्कण्डेयं नियुज्याथ कथने स गतो मुनिः ॥१०॥
सोऽपि तस्मिन् मुदायुक्तो हरिभक्त्या विशेषतः ।
राज्ञे प्रवक्तुमारेभे भृगुणा चोदितो मुनिः ॥११॥
मार्कण्डेय उवाच
राजपुत्र श्रृणुष्वेदं हरिपूजाविधिं क्रमात् ।
विष्णुभक्तस्य वक्ष्यामि तवाहं पाण्डुवंशज ॥१२॥
नरसिंहस्य नित्यं च यः सम्मार्जनमारभेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥१४॥
अत्रार्थे यत्पुरावृत्तमितिहासं पुरातनम् ।
यच्छुत्वा सर्वपापेभ्यो मुक्तिर्भवति सत्तम ॥१५॥
पुरा युधिष्ठिरो राजा पञ्चभिर्भ्रातृभिर्युतः ।
द्रौपद्या सह राजेन्द्र काननं विचचार ह ॥१६॥
शूलकण्टकनिष्क्रान्तास्ततस्ते पञ्च पाण्डवाः ।
नारदोऽपि गतो नाकं जुष्टेदं तीर्थमुत्तमम् ॥१७॥
ततो युधिष्ठिरो राजा प्रस्थितस्तीर्थमुत्तमम् ।
दर्शनं मुनिमुख्यस्य तीर्थधर्मोपदेशिनः ॥१८॥
चिन्तयति च धर्मात्मा क्रोधपैशुन्यवर्जितः ।
दानवो बहुरोमा च तथा स्थूलशिरा नृप ॥१९॥
पाण्डवान् गच्छतो वीक्ष्य दानवो द्रौपदीच्छया ।
कृत्वा भूप मुने रुपं बहुरोमाऽऽगतस्तदा ॥२०॥
प्रणिधानं विधायाथ आसीनः कुशविष्टरे ।
बिभ्रत् कमण्डलुं पार्श्वे दर्भसूचीं तथा करे ॥२१॥
अक्षमालां जपन्मत्रं स्वनासाग्रं निरीक्षयन् ।
स दृष्टः पाण्डवैस्तत्र रेवायां वनचारिभिः ॥२२॥
ततो युधिष्ठिरो राजा तं प्रणम्य सहानुजः ।
जगाद वचनं दृष्ट्वा भाग्येनासि महामुने ॥२३॥
तीर्थानि रुद्रदेहायाः सुगोप्यानि निवेदय ।
मुनीनां दर्शनं नाथ श्रुतं धर्मोपदेशकम् ॥२४॥
यावन्मुनिमुवाचेदं धर्मपुत्रो युधिष्ठिरः ।
तावत्स्थूलशिराः प्राप्तो मुनिरुपधरोऽपरः ॥२५॥
जल्पन्नित्यातुरं वाक्यं को नामास्त्यत्र रक्षकः ।
भयातुरं नरो जीवं यो रक्षेच्छरणागतम् ॥२६॥
स्यानन्तफलं स्याद्वै किं पुनर्मां द्विजोत्तमम् ।
एकतो मेदिनीदानं मेरुभूधरदक्षिणम् ॥२७॥
अन्यतो ह्यार्तजीवानां प्राणसंशयवारणम् ।
द्विजं धेनुं स्त्रियं बालं पीड्यमानं च दुर्जनैः ॥२८॥
उपेक्षेत नरो यस्तु स च गच्छति रौरवम् ।
अथ मां हतसर्वस्वं प्राणत्यागपरायणम् ॥२९॥
को रक्षति नरो वीरः पराभूतं हि दानवैः ।
गृहीत्वा चाक्षमालां मे तथा शुभकमण्डलुम् ॥३०॥
निहतोऽहं कराघातैस्तथा खाटो मनोहरम् ।
गृहीतं मम सर्वस्वं दानवेन दुरात्मना ॥३१॥
इत्याकर्ण्य वचः क्लीबं पाण्डवा जातसम्भ्रमाः ।
यान्ति रोमाञ्चिता भूयो विधायाग्निं च तं मुनिम् ॥३२॥
विमुच्य द्रौपदीं तत्र मुनेः पार्श्वे महात्मनः ।
ततो दूरतरं प्राप्ताः संरम्भात्ते च पाण्डवाः ॥३३॥
ततो युधिष्ठिरोऽवोचत् किं च नो नात्र दृश्यते ।
कृष्णासंरक्षणार्थाय व्रज व्यावर्त्य चार्जुन ॥३४॥
ततोऽर्जुनो विनिष्क्रान्तो बन्धुवाक्यप्रणोदितः ।
ततो युधिष्ठिरो राजा सत्यां वाचमकल्पयत् ॥३५॥
निरीक्ष्य मण्डलं भानोस्तदा सुगहने वने ।
मम सत्याच्च सुकृताद् धर्मसम्भाषणात् प्रभो ॥३६॥
तथ्यं शंसन्तु त्रिदशा मम संशयभाजिनः ।
ततोऽम्बरेऽभवद्वाणी तदा भूपाशरीरिणी ॥३७॥
दानवोऽयं महाराज मुनिः स्थूलशिराः स्थितः ।
नासावुपद्रुतः केन मायैषास्य दुरात्मनः ॥३८॥
ततो भीमः कराघातैर्नश्यमानं हि दानवम् ।
संरम्भात्कुपितोऽत्यर्थं मौलिदेशे जघान तम् ॥३९॥
सोऽपि रुपं निजं प्राप्य रौद्रं भीममताडयत् ।
तत्र युद्धं प्रववृत्ते दारुणं भीमदैत्ययोः ॥४०॥
कष्टाद्वभञ्ज भीमोऽपि तस्य स्थूलं शिरो वने ।
अर्जुनोऽपि समायातो नैव पश्यति तं मुनिम् ॥४१॥
तथा च द्रौपदीं भूयः सार्ध्वी कान्तां च वल्लभाम् ।
ततो वृक्षं समारुह्य यावत्पश्यति चार्जुनः ॥४२॥
तावद्विधाय तां स्कन्धे शीघ्रं धावति दानवः ।
संहता याति दुष्टेन रुदती कुररी यथा ॥४३॥
कुर्वती भीमभीमेति धर्मपुत्रेति वादिनी ।
तां दृष्ट्वा स ययौ वीरः शब्दैः संनादयन् दिशः ॥४४॥
पादन्यासोरुवेगेन प्रभग्नाः पादपा भृशम् ।
ततो दैत्योऽपि तां तन्वीं विहायाशु पलायितः ॥४५॥
तथापि चार्जुनो तस्य कोपान्मुञ्चति नासुरम् ।
पतितो मेदिनीपृष्ठे तावदेव चतुर्भुजः ॥४६॥
पीते च वाससी बिभ्रत् शङ्खचक्रायुधानि च ।
ततः स विस्मयाक्रान्तो नत्वा पार्थो वचोऽवदत् ॥४७॥
अर्जुन उवाच
कथं कृतैषा भगवंस्त्वया मायात्र वैष्णवी ।
मयाप्यपकृतं नाथ तत् क्षमस्व नमोऽस्तु ते ॥४८॥
नूतमज्ञानभावेन कर्मैतद्दारुणं मया ।
तत्क्षन्तव्यं जगन्नाथ चैतन्यं मानवे कुतः ॥४९॥
चतुर्भुज उवाच
नाहं कृष्णो महाबाहो बहुरोमास्मि दानवः ।
उपयातो हरेर्देहं पूर्वकर्मप्रभावतः ॥५०॥
अर्जुन उवाच
बहुरोमन् पूर्वजातिं कर्म मे शंस तत्त्वतः ।
केन कर्मविपाकेन विष्णोः सारुप्यमाप्तवान् ॥५१॥
चतुर्भुज उवाच
श्रृण्वर्जुन महाभाग सहितो भ्रातृभिर्मम ।
चरितं चित्रमत्यर्थं श्रृण्वतां मुदवर्धनम् ॥५२॥
अहमासं पुरा राजा सोमवंशसमुद्भवः ।
जयध्वज इति ख्यातो नारायणपरायणः ॥५३॥
विष्णोर्देवालये नित्यं सम्मार्जपरायणः ।
उपलेपरतश्चैव दीपदाने समुद्यतः ॥५४॥
वीतिहोत्र इति ख्यात आसीत् साधुपुरोहितः ।
मम तच्चरितं दृष्ट्वा विप्रो विस्मयमागतः ॥५५॥
मार्कण्डेय उवाच
कदाचिदुपविष्टं तं राजानं विष्णुतत्परम् ।
अपृच्छद्वीतिहोत्रस्तं वेदवेदाङ्गपारगः ॥५६॥
राजन् परमधर्मज्ञ हरिभक्तिपरायण ।
विष्णुभक्तिमतां पुंसां श्रेष्ठोऽसि पुरुषर्षभ ॥५७॥
सम्मार्जनपरो नित्यं उपलेपरतस्तथा ।
तन्मे वद महाभाग त्वया किं विदितं फलम् ॥५८॥
कर्माण्यन्यानि सन्त्येव विष्णोः प्रियतराणि वै ।
तथापि त्वं महाभाग एतयोः सततोद्यतः ॥५९॥
सर्वात्मना महापुण्यं जनेश विदितं तव ।
तदब्रूहि यद्यगुह्यं च प्रीतिर्मयि तवास्ति चेत् ॥६०॥
जयध्वज उवाच
श्रृणुष्व विप्रशार्दूल ममैव चरितं पुरा ॥६१॥
जातिस्मरत्वाज्जानामि श्रोतृणां विस्मयावहम् ।
पूर्वजन्मनि विप्रेन्द्र रैवतो नाम वाडवः ॥६२॥
अयाज्ययाजकोऽहं वै सदैव ग्रामयाजकः ।
पिशुनो निष्ठुरश्चैव अपण्यानां च विक्रयी ॥६३॥
निषिद्धकर्माचरणात् परित्यक्तः स्वबन्धुभिः ।
महापापरतो नित्यं ब्रह्मद्वेषरतस्तथा ॥६४॥
परदारपर द्रव्यलोलुपो जन्तुहिंसकः ।
मद्यपानरतो नित्यं ब्रह्मद्वेषरतस्तथा ॥६५॥
एवं पापरतो नित्यं बहुशो मार्गरोधकृत् ।
कदाचित् कामचारोऽहं गृहीत्वा ब्राह्मणस्त्रियः ॥६६॥
शून्यं पूजादिभिर्विष्णोर्मन्दिरं प्राप्तवान्निशि ।
स्ववस्त्रप्रानतो ब्रह्मन् कियदंशः स मार्जितः ॥६७॥
प्रदीपः स्थापितस्तत्र सुरतार्थाद् द्विजोत्तम् ।
तेनापि मम दुष्कर्म निः शेषं क्षयमागतम् ॥६८॥
एवं स्थितं विष्णुगृहे मया भोगेच्छया द्विज ।
तदैव दीपकं दृष्ट्वा आगताः पुरपालकाः ॥६९॥
चौर्यार्थं परदूतोऽयमित्युक्त्वा मामपातयन् ।
खङ्गेन तीक्ष्णधारेण शिरश्छित्त्वा च ते गताः ॥७०॥
दिव्यं विमानमारुह्य प्रभुदाससमन्वितम् ।
गन्धर्वेर्गीयमानोऽहं स्वर्गलोकं तदा गतः ॥७१॥
चतुर्भूज उवाच
तत्र स्थित्वा ब्रह्मकल्पं शतं साग्रं द्विजोत्तमाः ।
दिव्यभोगसमायुक्तो दिव्यरुपसमन्वितः ॥७२॥
जातोऽहं पुण्ययोगाद्धि सोमवंशसमुद्भवः ।
जयध्वज इति ख्यातो राजा राजीवलोचनः ॥७३॥
तत्रापि कालवशतो मृतः स्वर्गमवाप्तवान् ।
इन्द्रलोकमनुप्राप्य रुद्रलोकं ततो गतः ॥७४॥
रुद्रलोकादब्रह्मलोकं गच्छता नारदो मुनिः ।
दृष्टश्च नमितो नैव गर्वान्मे हसितश्च सः ॥७५॥
कुपितः शप्तवान् मां स राक्षसो भव भूपते ।
इति शापं समाकर्ण्य दत्तं तेन द्विजन्मना ॥७६॥
प्रसादितो मया भूप प्रसादं कृतवान् मुनिः ।
यदा रेवामठे राजन् धर्मपुत्रस्य धीमतः ॥७७॥
भार्यापहारं नयतः शापमोक्षो भविष्यति ।
सोऽहमर्जुन भूपाल धर्मपुत्र युधिष्ठिर ॥७८॥
विष्णोः सारुप्यमगमं यामि वैकुण्ठमद्य वै ।
मार्कण्डेय उवाच
इत्युक्त्वा गरुडारुढो धर्मपुत्रस्य पश्यतः ॥७९॥
गतवान् विष्णुभवनं यत्र विष्णुः श्रिया सह ।
सम्मार्जनोपलेपाभ्यां महिमा तेन वर्णितः ॥८०॥
अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः ।
भक्तिमद्धिः प्रशान्तैश्च किं पुनः सम्यगर्चनात् ॥८१॥
सूत उवाच
मार्कण्डेयवचः श्रुत्वा पाण्डुवंशसमुद्भवः ।
सहस्त्रानीकभूपालो हरिपूजारतोऽभवत् ॥८२॥
तस्माच्छृणुत विप्रेन्द्रा देवो नारायणोऽव्ययः ।
ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥८३॥
अर्चयध्वं जगन्नाथं भूयो भूयो वदाम्यहम् ।
तर्तुं यदीच्छथ द्विजा दुस्तरं भवसागरम् ॥८४॥
येऽर्चयन्ति हरिं भक्ताः प्रणतार्तिहरं हरिम् ।
ते वन्द्यास्ते प्रपूज्याश्च नमस्याश्च विशेषतः ॥८५॥
इति श्रीनरसिंहपुराणे सहस्त्रानीकचरिते मार्कण्डेयेनोपदिष्टसम्मार्जनोपफलं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥