श्रीभरद्वाज उवाच
सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे ।
सांख्यं केचित्प्रशंसन्ति योगमन्ते प्रचक्षते ॥१॥
ज्ञानं केचित्पशंसन्ति समलोष्टाश्मकाञ्चनाः ।
क्षमां केचित्प्रशंसन्ति तथैव च दयार्जवम् ॥२॥
केचिद्दानं प्रशंसन्ति केचिदाहुः परं शुभम् ।
सम्यग्ज्ञानं परं केचित्केचिद्वैराग्यमुत्तमम् ॥३॥
अग्निष्टोमादिकर्माणि तथा केचित्परं विदुः ।
आत्मध्यानं परं केचित्सांख्यतत्त्वार्थवेदिनः ॥४॥
धर्मार्थकाममोक्षाणां चतुर्णामिह केवलम् ।
उपायः पदभेदेन बहुधैवं प्रचक्ष्यते ॥५॥
एवं चावस्थिते लोके कृत्याकृत्यविधौ नराः ।
व्यामोहमेव गच्छन्ति विमुक्ताः पापकर्मभिः ॥६॥
यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः ।
वक्तुमर्हसि सर्वज्ञ मम सर्वार्थसाधकम् ॥७॥
सूत उवाच
श्रूयतामिदमत्यन्तं गूढं संसारमोचनम् ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥८॥
पुण्डरीकस्य संवादं देवर्षेर्नारदस्य च ।
ब्राह्मणः श्रुतसम्पन्नः पुण्डरीको महामतिः ॥९॥
आश्रमे प्रथमे तिष्ठन् गुरुणां वशगः सदा ।
जितेन्द्रियो जितक्रोधः संध्योपासनधिष्ठितः ॥१०॥
वेदवेदाङ्गनिपुणः शास्त्रेषु च विचक्षणः ।
समिद्भिः साधुयत्नेन सायं प्रातर्हुताशनम् ॥११॥
ध्यात्वां यज्ञपतिं विष्णुं सम्यगाराधयन् विभुम् ।
तपः स्वाध्यायनिरतः साक्षाद्वह्यसुतो यथा ॥१२॥
उदकेन्धनपुष्पार्थैरसकृत्तपर्यन् गुरुन् ।
मातापितृभ्यां शुश्रूषुर्भिक्षाहारी जनप्रियः ॥१३॥
ब्रह्मविद्यामधीयानः प्राणायामपरायणः ।
तस्य सर्वार्थभूतस्य संसारेऽन्त्यन्तनिः स्पृहा ॥१४॥
बुद्धिरासीन्महाराज संसारार्णवतारणी ।
पितरं मातरं चैव भ्रातृनथ पितामहान् ॥१५॥
पितृव्यान्मातुलांश्चैव सखीन् सम्बन्धिबान्धवान् ।
परित्यज्य महोदारस्तृणानीव यथासुखम् ॥१६॥
विचचार महीमेतां शाकमूलफलाशनः ।
अनित्यं यौवनं रुपमायुष्यं द्रव्यसंचयम् ॥१७॥
इति संचिन्तयानेन त्रैलोक्यं लोष्ठवत् स्मृतम् ।
पुराणोदितमार्गेण सर्वतीर्थानि वै मुने ॥१८॥
गमिष्यामि यथाकालमिति निश्चितमानसः ।
गङ्गां च यमुनां चैव गोमतीमथ गण्डकीम् ॥१९॥
शतद्रूं च पयोष्णीं च सरयूं च सरस्वतीम् ।
प्रयागं नर्मदां चैव महानद्यो नदानपि ॥२०॥
गयां च विन्ध्यतीर्थानि हिमवत् प्रभवाणिच ।
अन्यानि च महातेजास्तीर्थानि स महाव्रतः ॥२१॥
संचचार महाबाहुर्यथाकालं यथाविधि ।
कदाचित् प्राप्तवान् वीरः शालग्रामं तपोधनः ॥२२॥
पुण्डरीको महाभागः पुण्यकर्मवशानुगः ।
आसेव्यमानामृषिभिस्तत्त्वविद्भिस्तपोधनैः ॥२३॥
मुनीनामाश्रमं रम्यं पुराणेषु च विश्रुतम् ।
भूषितं चक्रनद्या च चक्राङ्कितशिलातलम् ॥२४॥
रम्यं विविक्तं विस्तीर्णं सदा चित्तप्रसादकम् ।
केचिच्चक्राङ्किन्तास्तस्मिन् प्राणिनः पुण्यदर्शनाः ॥२५॥
विचरन्ति यथाकामं पुण्यतीर्थप्रसङ्गिनः ।
तस्मिन् क्षेत्रे महापुण्ये शालग्रामे महामतिः ॥२६॥
पुण्डरीकः प्रसन्नात्मा तीर्थानि समसेवत ।
स्नात्वा देवह्नदे तीर्थे सरस्वत्यां च सुव्रतः ॥२७॥
जातिस्मर्यां चक्रकुण्डे चक्रनद्यामृतेष्वपि ।
तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः ॥२८॥
ततः क्षेत्रप्रभावेण तीर्थानां चैव तेजसा ।
मनः प्रसादमगमत्तस्य तस्मिन्महात्मनः ॥२९॥
सोऽपि तीर्थे विशुद्धात्मा ध्यानयोगपरायणः ।
तत्रैव सिद्धिमाकाङ्क्षन समाराध्य जगत्पतिम् ॥३०॥
शास्त्रोक्तेन विधानेन भक्त्या परमया युतः ।
उवास चिरमेकाकी निर्द्वद्न्वः संयतेन्द्रियः ॥३१॥
शाकमूलफलाहारः संतुष्टः समदर्शनः ।
यमैश्च नियमैश्चैव तथा चासनबन्धनैः ॥३२॥
प्राणायामैः सुतीक्ष्णैश्च प्रत्याहारैश्च संततैः ।
धारणाभिस्तथा ध्यानैः समाधिभिरतन्द्रितः ॥३३॥
योगाभ्यासं तदा सम्यक् चक्रे विगतकल्मषः ।
आराध्य देवदेवेशं तद्गतेनान्तरात्मना ॥३४॥
पुण्डरीको महाभागः पुरुषार्थविशारदः ।
प्रसादं परमाकाङ्क्षन् विष्णोस्तद्गतमानसः ॥३५॥
तस्य तस्मिन्निवसतः शालग्रामे महात्मनः ।
पुण्डरीकस्य राजेन्द्र कालोऽगच्छन्महांस्ततः ॥३६॥
मुने कदाचित्तं देशं नारदः परमार्थवित् ।
जगाम सुमहातेजाः साक्षादादित्यसंनिभः ॥३७॥
तं द्रष्टुकामो देवर्षिः पुण्डरीकं तपोनिधिम् ।
विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ॥३८॥
स दृष्ट्वा नारदं प्राप्तं सर्वतेजः प्रभान्वितम् ।
महामतिं महाप्राज्ञं सर्वागमविशारदम् ॥३९॥
प्राञ्जलिः प्रणतो भूत्वा प्रह्नष्टेनान्तरात्मना ।
अर्घं दत्त्वा यथायोग्यं प्रणाममकरोत् ततः ॥४०॥
कोऽयमत्यद्भुताकारस्तेजस्वी हद्यवेषधृक् ।
आतोद्यहस्तः सुमुखो जटामण्डलभूषणः ॥४१॥
विवस्थानथ वा वह्निरिन्द्रो वरुण एव वा ।
इति संचिन्तयन् विप्रः पप्रच्छ परमद्युतिः ॥४२॥
पुण्डरीक उवाच
को भवानिह सम्प्राप्तः कुतो वा परमद्युते ।
त्वद्दर्शनं ह्यपुण्यानां प्रायेण भुवि दुर्लभम् ॥४३॥
नारद उवाच
नारदोऽहमनुप्राप्तस्त्वद्दर्शनकुतूहलात् ।
पुण्डरीक हरेर्भक्तस्त्वादृशः सततं द्विज ॥४४॥
स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तम ।
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥४५॥
दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः ।
इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना ॥४६॥
प्रोवाच मधुरं विप्रस्तद्दर्शनसुविस्मितः ।
पुण्डरीक उवाच
धन्योऽहं देहिनामद्य सुपूज्योऽहं सुरैरपि ॥४७॥
कृतार्थाः पितरो मेऽद्य सम्प्राप्तं जन्मनः फलम् ।
अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः ॥४८॥
किं किं करोम्यहं विद्वन् भ्राम्यमाणः स्वकर्मभिः ।
कर्तव्यं परमं गुह्यमुपदेष्टुं त्वमर्हसि ॥४९॥
त्वं गतिः सर्वलोकानां वैष्णवानां विशेषतः ।
नारद उवाच
अनेकानीह शास्त्राणि कर्माणि च तथा द्विज ॥५०॥
धर्ममार्गाश्च बहवस्तथैव प्राणिनः स्मृताः ।
वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम ॥५१॥
अव्यक्ताज्जायते सर्वं सर्वात्मकमिदं जगत् ।
इत्येवं प्राहुरपरे तत्रैव लयमेव च ॥५२॥
आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा ।
अन्यैर्मतिमतां श्रेष्ठ तत्त्वालोकनतत्परैः ॥५३॥
एवमाद्यनुसंचिन्त्य यथामति यथाश्रूतम् ।
वदन्ति ऋषयः सर्वे नानामतविशारदाः ॥५४॥
श्रृणुष्वावहितो ब्रह्मन् कथयामि तवानघ ।
परमार्थमिदं गुह्यं घोरसंसारमोचनम् ॥५५॥
अनागतमतीतं च विप्रकृष्टमतीव यत् ।
न गृह्णाति नृणां दृष्टिर्वर्तमानार्थनिश्चिता ॥५६॥
श्रृणुष्ववहितं तात कथयामि तवानघ ।
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ॥५७॥
कदाचिद्वह्यलोकस्य पद्मयोनिं पितामहम् ।
प्रणिपत्य यथान्यायं पृष्टवानहमव्ययम् ॥५८॥
नारद उवाच
किं तञ्ज्ञानं परं देव कश्चा योगः परस्तथा ।
एतन्मे तत्त्वतः सर्व त्वमाचक्ष्व पितामह ॥५९॥
ब्रह्मोवाच
यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।
स एव सर्वभूतनां नर इत्यभिढीयते ॥६०॥
नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।
तान्येव चायनं तस्यं तेन नारायणः स्मृतः ॥६१॥
नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।
तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥६२॥
नारायणः परं ब्रह्म तत्त्वं नारायणः परम् ।
नारायणः परं ज्योतिरात्मा नारायणः परः ॥६३॥
परादपि परश्चासौ तस्मान्नातिपरं मुने ।
यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ॥६४॥
अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ॥६५॥
नमो नारायणायेति ध्यात्वा चानन्यमानसाः ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥६६॥
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ।
एतञ्ज्ञानं वरं नातो योगश्चैव परस्तथा ॥६७॥
परस्परविरुद्धार्थः किमन्यैः शास्त्रविस्तरैः ।
बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ॥६८॥
तथा ज्ञनानि सर्वाणि प्रविशन्ति तमीश्वरम् ।
स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥६९॥
जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः ।
विष्णुर्विभुरचित्न्यात्मा नित्यः सदसदात्मकः ॥७०॥
वासुदेवो जगद्वासः पुराणः कविरव्ययः ।
यस्मात्प्राप्तं स्थितिं कृत्स्नं त्रैलोक्यं सचराचरम् ॥७१॥
तस्मात् स भगवान्देवो विष्णुरित्यभिधीयते ।
यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥७२॥
तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः ।
तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ॥७३॥
विज्ञानमात्रं केचिच्च केचिव्दह्य परं तथा ।
केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ॥७४॥
केचिच्च परमात्मानं केचिच्चैवमनामयम् ।
केचित्क्षेत्रज्ञमित्याहुः केचित्षडविंशकं तथा ॥७५॥
अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम् ।
एते चान्ये च मुनिभिः संज्ञाभेदाः पृथग्विधाः ॥७६॥
शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः।
एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ॥७७॥
बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥७८॥
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।
त्यक्त्वा व्यामोहकान सर्वान् तस्माच्छास्त्रार्थविस्तरान् ॥७९॥
अनन्यचेता ध्यायस्व नारायणमतन्द्रितः ।
एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ॥८०॥
क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः ।
श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥८१॥
ततोऽहमासं विप्रेन्द्र नारायणपरायणः ।
नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ॥८२॥
अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम् ।
तस्मान्नारायणस्तात परमात्मा सनातनः ॥८३॥
अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः ।
नारायणो जगद्व्यापी परमात्मा सनातनः ॥८४॥
जगतां सृष्टिसंहारपरिपालनतत्परः ।
श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ॥८५॥
आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा ।
निः स्पृहा नित्यसंतुष्टा ज्ञानिनः संयतेन्द्रियाः ॥८६॥
निर्ममा निरहंकारा रागद्वेषविवर्जिताः ।
अपक्षपतिताः शान्ताः सर्वसंकल्पवर्जिताः ॥८७॥
ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम् ।
त्यक्तत्रया महात्मानो वासुदेव हरिं गुरुम् ॥८८॥
कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम् ।
तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ॥८९॥
तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ।
हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥९०॥
अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च ।
तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥९१॥
किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥९२॥
चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा ।
भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥९३॥
ये नृशंसा दुरात्मानः पापाचाररताः सदा ।
तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥९४॥
जन्मान्तरसहस्त्रेषु यस्य स्यादबुद्धिरीदृशी ।
दासोऽहं वासुदेवस्य देवदेवस्य शाङ्गिणः ॥९५॥
प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः ।
किं पुनस्तद्गतप्राणः पुरुषः संयतेन्द्रियः ॥९६॥
सूत उवाच
इत्युक्त्वा देवदेवर्षिस्तत्रैवान्तरधीयत ।
परोपकारनिरतस्त्रैलोक्यस्यैकभूषणः ॥९७॥
पुण्डरीकोऽपि धर्मात्मा नारायणपरायणः ।
नमोऽस्तु केशवायेति पुनः पुनरुदीरयन् ॥९८॥
प्रसीदस्व महायोगिन्निदमुच्चार्य सर्वदा ।
हत्पुण्डरीके गोविन्दं प्रतिष्ठाप्य जनार्दनम् ॥९९॥
तपः सिद्धिकरेऽरण्ये शालग्रामे तपोधनः ।
उवास चिरमेकाकी पुरुषार्थविचक्षणः ॥१००॥
स्वप्नेऽपि केशवादन्यन्न पश्यति महातपाः ।
निद्रापि तस्य नैवासीत्पुरुषार्थविरोधिनी ॥१०१॥
तपसा ब्रह्मचर्येण शौचेन च विशेषतः ।
जन्मजन्मान्तरारुढसंस्कारेण च स द्विजः ॥१०२॥
प्रसादाद्देवदेवस्य सर्वलोकैकसाक्षिणः ।
अवाप परमां सिद्धिं वैष्णवीं वीतकल्पषः ॥१०३॥
सिंहव्याघ्रास्तथान्येपिमृगाः प्राणिविहिंसकाः ।
विरोधं सहजं हित्वा समेतास्तस्य संनिधौ ।
निवसन्ति द्विजश्रेष्ठ प्रशान्तेन्द्रियवृत्तयः ॥१०४॥
ततः कदाचिद्भगवान् पुण्डरीकस्य धीमतः ।
प्रादुरासीज्जगन्नाथः पुण्डरीकायतेक्षणः ॥१०५॥
शङ्खचक्रगदापाणिः पीतवासाः स्त्रगुज्ज्वलः ।
श्रीवत्सवक्षाः श्रीवासः कौस्तुभेन विभूषितः ॥१०६॥
आरुह्य गरुडं श्रीमानञ्जनाचलसंनिभः ।
मेरुश्रृङ्गमिवारुढः कालमेघस्तडिद्युतिः ॥१०७॥
राजतेनातपत्रेण मुक्तादामविलम्बिना ।
विराजमानो देवेशश्चामरव्यजनादिभिः ॥१०८॥
तं दृष्ट्वा देवदेवेशं पुण्डरीकः कृताञ्जलिः ।
पपात शिरसा भूमौ साध्वसावनतो द्विजः ॥१०९॥
पिबन्निव हषीकेशं नयनाभ्यां समाकुलः ।
जगाम महती तृप्तिं पुण्डरीकस्तदानघः ॥११०॥
तमेवालोकयन् वीरश्चिप्रार्थितदर्शनः ।
ततस्तमाह भगवान् पद्मनाभस्त्रिविक्रमः ॥१११॥
प्रीतोऽस्मि वत्स भद्रं ते पुण्डरीक महामते ।
वरं वृणीष्व दास्यामि यत्ते मनसि वर्तते ॥११२॥
सूत उवाच
एतच्छुत्वा तु वचनं देवदेवेन भाषितम् ।
इदं विज्ञापयामास पुण्डरीको महामतिः ॥११३॥
पुण्डरीक उवाच
क्वाहमत्यन्तदुर्बुद्धिः क्व चात्महितवीक्षणम् ।
यद्धितं मम देवेश तदाज्ञापय माधव ॥११४॥
एवमुक्तोऽथ भगवान् सुप्रीतः पुनरब्रवीत् ।
पुण्डरीकं महाभागं कृताञ्जलिमुपस्थितम् ॥११५॥
श्रीभगवानुवाच
आगच्छ कुशलं तेऽस्तु मयैव सह सुव्रत ।
मद्रूपधारी नित्यात्मा ममैव पार्षदो भव ॥११६॥
सूत उवाच
एवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥११७॥
देवाः सेन्द्रास्तथा सिद्धाः साधु साध्वित्यथाब्रुवन् ।
जगुश्च सिद्धगन्धर्वाः किंनराश्च विशेषतः ॥११८॥
अथैनं समुपादाय वासुदेवो जगत्पतिः ।
जगाम गरुडारुढः सर्वदेवनमस्कृतः ॥११९॥
तस्मात्त्वमपि विप्रेन्द्र विष्णुभक्तिसमन्वितः ।
तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः ॥१२०॥
अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम् ।
श्रृणुष्व तत्कथाः पुण्याः सर्वपापप्रणाशिनीः ॥१२१॥
येनोपायेन विप्रेन्द्र विष्णुः सर्वेश्वरेश्वरः ।
प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् ॥१२२॥
अश्वमेधसहस्त्रेण वाजपेयशतैरपि ।
नाप्नुवन्ति गतिं पुण्यां नारायणपराङ्मुखाः ॥१२३॥
अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणविगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् ।
निरुपममुमेयं योगिनां ज्ञानगम्यं त्रिभुवनगुरुमीशं त्वां प्रपन्नोऽस्मि विष्णो ॥१२४॥
इति श्रीनरसिंहपुराणे पुण्डरीकनारसंवादे चतुःषष्टिमतोऽध्यायः ॥६४॥