संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १०

श्रीनरसिंहपुराण - अध्याय १०

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीव्यास उवाच

जित्वैवमात्मनो मृत्युं तपसा शंसितव्रतः ।

स जगाम पितुर्गेहं मार्कण्डेयो महामतिः ॥१॥

कृत्वा विवाहं धर्मेण भृगोर्वाक्यविशेषतः ।

स वेदशिरसं पुत्रमुत्पाद्य च विधानतः ॥२॥

इष्ट्वा यज्ञैस्तु देवेशं नारायणमनायम् ।

श्राद्धेन तु पितृनिष्टवा अन्नदानेन चातिथीन् ॥३॥

प्रयागमासाद्य पुनः स्नात्वा तीर्थे गरीयसि ।

मार्कण्डेयो महातेजास्तेपे वटतले तपः ॥४॥

यस्य प्रसादेन पुरा जितवान् मृत्युमात्मनः ।

तं देवं द्रष्टुमिच्छन् यः स तेपे परमं तपः ॥५॥

वायुभक्षश्चिरं कालं तपसा शोषयंस्तनुम् ।

एकदा तु महातेजा मार्कण्डेयो महामतिः ॥६॥

आराध्य माधवं देव गन्धपुष्पादिभिः शुभैः ।

अग्रे व्यग्रमनाः स्थित्वा हदये तमनुस्मरन् ।

शङ्खचक्रगदापाणिं तुष्टाव गरुडध्वजम् ॥७॥

मार्कण्डेय उवाच

नरं नृसिंहं नरनाथमच्युतं प्रलम्बबाहुं कमलायतेक्षणम् ।

क्षितीश्वरैरर्चितपादपङ्कजं नमामि विष्णुं पुरुषं पुरातनम् ॥८॥

जगत्पतिं क्षीरसमुद्रमन्दिरं तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम् ।

श्रियः पति श्रीधरमीशमीश्वरं नमामि गोविन्दमनन्तवर्चसम् ॥९॥

अजं वरेण्यं जनदुःखनाशनं गुरुं पुराणं पुरुषोत्तमं प्रभुम् ।

सहस्त्रसूर्यद्युतिमन्तमच्युतं नमामि भक्त्या हरिमाद्यमाधवम् ॥१०॥

पुरस्कृतं पुण्यवतां परां गतिं क्षितीश्वरं लोकपतिं प्रजापतिम् ।

परं पराणामपि कारणं हरिं नमामि लोकत्रयकर्मसाक्षिणम् ॥११॥

भोगे त्वनन्तस्य पयोदधौ सुरः पुरा हि शेते भगवाननादिकृत् ।

क्षीरोदवीचीकणिकाम्बुनोक्षितं तं श्रीनिवासं प्रणतोऽस्मि केशवम् ॥१२॥

यो नारसिंहं वपुरास्थितो महान् सुरो मुरारिर्मधुकैटभान्तकृत् ।

समस्तलोकार्तिहरं हिरण्यकं नमामि विष्णुं सततं नमामि तम् ॥१३॥

अनन्तमव्यक्तमतीन्द्रियं विभुं स्वे स्वे हि रुपे स्वयमेव संस्थितम् ।

योगेश्वरैरेव सदा नमस्कृतं नमामि भक्त्या सततं जनार्दनम् ॥१४॥

आनन्दमेकं विरजं विदात्मकं वृन्दालयं योगिभिरेव पूजितम् ।

अणोरणीयांसमवृद्धिमक्षयं नमामि भक्तप्रियमीश्वरं हरिम् ॥१५॥

श्रीव्यास उवाच

इति स्तोत्रावसाने तं वागुवाचाशरीरिणी ।

मार्कण्डेयं महाभागं तीर्थेऽनु तपसि स्थितम् ॥१६॥

किमर्थं क्लिश्यते ब्रह्मंस्त्वया यो नैव दृश्यते ।

माधवः सर्वतीर्थेषु यावन्न स्नानमाचरेः ॥१७॥

इत्युक्तः सर्वतीर्थेषु स्नात्वोवाच महामतिः ।

कृत्वा कृत्वा सर्वतीर्थे स्नानं चैव कृतं भवेत् ।

तद्वद त्वं मम प्रीत्या योऽसि सोऽसि नमोऽस्तु ते ॥१८॥

वागुवाच

स्तोत्रेणानेन विप्रेन्द्र स्तुहि नारायणं प्रभुम् ।

नान्यथा सर्वतीर्थानां फलं प्राप्स्यासि सुव्रत ॥१९॥

मार्कण्डेय उवाच

तदेवाख्याहि भगवन् स्तोत्रं तीर्थफलप्रदम् ।

येन जप्तेन सकलं तीर्थस्नानफलं लभेत् ॥२०॥

वागुवाच

जय जय देवदेव जय माधव केशव ।

जय पद्मपलाशाक्ष जय गोविन्द गोपते ॥२१॥

जय जय पद्मनाभ जय वैकुण्ठ वामन ।

जय पद्म हषीकेश जय दामोदराच्युत ॥२२॥

जय पद्मेश्वरानन्त जय लोकगुरो जय ।

जय शङ्खगदापाणे जय भूधरसूकर ॥२३॥

जय यज्ञेश वाराह जय भूधर भूमिप ।

जय योगेश योगज्ञ जय योगप्रवर्त्तक ॥२४॥

जय योगप्रवर्तक जय धर्मप्रवर्त्तक ।

कृतप्रिय जय जय यज्ञेश यज्ञाङ्ग जय ॥२५॥

जय वन्दितसदद्विज जय नारदसिद्धिद ।

जय पुण्यवतां गेह जय वैदिकभाजन ॥२६॥

जय जय चतुर्भुज ( श्री ) जयदेव जय दैत्यभयावह ।

जय सर्वज्ञ सर्वात्मन् जय शंकर शाश्वत ॥२७॥

जय विष्णो महादेव जय नित्यमधोक्षज ।

प्रसादं कुरु देवेश दर्शयाद्य स्वकां तनुम् ॥२८॥

व्यास उवाच

इत्येवं कीर्तिते तेन मार्कण्डेयेन धीमता ।

प्रादुर्बभूव भगवान् पीतवासा जनार्दनः ॥२९॥

शङ्खचक्रगदापाणिः सर्वाभरणभूषितः ।

तेजसा द्योतयन् सर्वा दिशो विष्णुः सनातनः ॥३०॥

तं दृष्ट्वा सहसा भूमौ चिरप्रार्थितदर्शनम् ।

प्रयातः शिरसा वश्यो भक्त्या स भृगुन्दनः ॥३१॥

निपत्योत्पत्य च पुनः पुनः साङ्गं महामनाः ।

प्रबद्धसम्पुटकरो गोविन्दं पुरतः स्तुवन् ॥३२॥

मार्कण्डेय उवाच

नमोऽस्तु ते देवदेव महाचित्त महाकाय महाप्राज्ञ महादेव महाकीर्ते ब्रह्मेन्द्रचन्द्ररुद्रार्चिंत पादयुगल श्रीपद्महस्त सम्पर्दितदैत्यदेह ॥३३॥

अनन्ज्तभोगशयनार्पितसर्वाङ्ग सनकसनन्दनसनत्कुमाराद्यैर्योगिभिर्नासाग्रन्यस्तलोचनैरनवरतमभिचिन्तितमोक्षतत्त्व ।

गन्धर्वविद्याधरयक्षकिंनरकिम्पुरुषैरहरहोगीयमानदिव्ययशः ॥३४॥

नृसिंह नारायण पद्मनाभ गोविन्द गोवर्द्धनगुहानिवास योगीश्वर देवेश्वर जलेश्वर महेश्वर ॥३५॥

योगधर देवेश्वर जलेश्वर महेश्वर ॥३५॥

योगधर महामायाधर विद्याक्षर यशोधर कीर्तिधर त्रिगुणनिवास त्रितत्त्वधर त्रेताग्निधर ॥३६॥

त्रिवेदभाक् त्रिनिकेत त्रिसुपर्ण त्रिदण्डधर ॥३७॥

स्निग्धमेघाभार्चितद्युतिविराजित पीताम्बरधर किरीटकटककेयूरहारमणिरत्नांशुदीप्तिविद्योतितसर्वदिश ॥३८॥

कनकमणिकुण्डलमण्डितगण्डस्थल मधुसूदन विश्वमूर्ते ॥३९॥

लोकनाथ यज्ञेश्वर यज्ञप्रिय तेजोमय भक्तिप्रिय वासुदेव दुरितापहाराराध्य पुरुषोत्तम नमोऽस्तु ते ॥४०॥

व्यास उवाच

इत्युदीरितमाकर्ण्य भगवांस्तु जनार्दनः ।

देवदेवः प्रसन्नात्मा मार्कण्ड्येयमुवाच ह ॥४१॥

श्रीभगवानुवाच

तुष्टोऽस्मि भवतो वत्स तपसा महता पुनः ।

स्तोत्रैरपि महाबुद्धे नष्टपापोऽसि साम्प्रतम् ॥४२॥

वरं वरय विप्रेन्द्र वरदोऽहं तवाग्रतः ।

नाताप्ततपसा ब्रह्मन् द्रष्टुं साध्योऽहमञ्जसा ॥४३॥

मार्कण्डेय उवाच

कृतकृत्योऽस्मि देवेश साम्प्रतं तव दर्शनात् ।

त्वद्भक्तिमचलामेकां मम देहि जगत्पते ॥४४॥

यदि प्रसन्नो भगवन् मम माधव श्रीपते ।

चिरायुष्यं हषीकेश येन त्वां चिरमर्चये ॥४५॥

श्रीभगवानुवाच

मृत्युस्ते निर्जितः पूर्वे चिरायुस्त्वं च लब्धवान् ।

भक्तिरस्त्वचल ते मे वैष्णवी मुक्तिदायिनी ॥४६॥

इदं तीर्थ महाभाग त्वन्नाम्ना ख्यातिमेष्यति ।

पुनस्त्वं द्रक्षसे मां वै क्षीराब्धौ योगशायिनम् ॥४७॥

व्यास उवाच

इत्युक्त्वा पुण्डरीकाक्षस्तत्रैवान्तरधीयत ।

मार्कण्डेयोऽपि धर्मात्मा चिन्तयन्मधुसूदनम् ॥४८॥

अर्चयन् देवदेवेशं जपन् शुद्धं नमन्नपि ।

वेदशास्त्राणि पुण्यानि पुराणान्यखिलानि च ॥४९॥

मुनीनां श्रावयामास गाथाश्चैव तपोधनः ।

इतिहासानि पुण्यानि पितृतत्त्वं च सत्तमः ॥५०॥

ततः कदाचित् पुरुषोत्तमोक्तं वचः स्मरन् शास्त्रविदां वरिष्ठः ।

भ्रमन् समुद्रं स जगाम द्रष्टुं हरिं सुरेशं मुनिरुग्रतेजाः ॥५१॥

श्रमेण युक्तश्चिरकालसम्भ्रमाद भृगोः स पौत्रो हरिभक्तिमुद्वहन् ।

क्षीराब्धिमासाद्य हरिं सुरेशं नागेन्द्रभोगे कृतनिद्रमैक्षत ॥५२॥

इति श्रीनरसिंहपुराणे मार्कण्डेयचरित्रे दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP