मार्कण्डेय उवाच
पुरा देवासुरे युद्धे देवा दैत्येः पराजिताः ।
सर्वे ते शरणं जग्मुः क्षीराब्धितनयापतिम् ॥१॥
स्तोत्रेण तुष्टुवुः सर्वे समाराध्य जगत्पतिम् ।
कृताञ्जलिपुटा राजन् ब्रह्माद्या देवतागणाः ॥२॥
देवा ऊचुः
नमस्ते पद्मनाभाय लोकनाथाय शार्ङ्गिणे ।
नमस्ते पद्मनाभाय सर्वदुः खापहारिणे ॥३॥
नमस्ते विश्वरुपाय सर्वदेवमयाय च ।
मधुकैटभनाशाय केशवाय नमो नमः ॥४॥
दैत्यैः पराजिता देव वयं युद्धे बलान्वितैः ।
जयोपायं हि नो ब्रूहि करुणाकर ते नमः ॥५॥
मार्कण्डेय उवाच
इति स्तुतो तदा देवैर्देवदेवो जनार्दनः ।
तानब्रवीद्धरिर्देवांस्तेषामेवाग्रतः स्थितः ॥६॥
श्रीभगवानुवाच
गत्वा तत्र सुराः सर्वे संधिं कुरुत दानवैः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥७॥
सर्वोषधीः समानीय प्रक्षिप्याब्धौ त्वरान्विताः ।
दानवैः सहिता भूत्वा मथ्यध्वं क्षीरसागरम् ॥८॥
अहं च तत्र साहाय्यं करिष्यामि दिवौकसः ।
भविष्यत्यमृतं तत्र तत्पानाद्वलवत्तराः ॥९॥
भविष्यन्ति क्षणाद्देवा अमृतस्य प्रभावतः ।
यूयं सर्वे महाभागास्तेजिष्ठा रणविक्रमाः ॥१०॥
इन्द्राद्यास्तु महोत्साहास्तल्लब्धवामृतमुत्तमम् ।
ततो हि दानवाञ्जेतुं समर्था नात्र संशयः ॥११॥
इत्युक्ता देवदेवेन देवाः सर्वे जगत्पतिम् ।
प्रणम्यागत्य निलयं संधिं कृत्वाथ दानवैः ॥१२॥
क्षीराब्धेर्मन्थने सर्वे चक्रुरुद्योगमुत्तमम् ।
बलिना चोद्धतो राजन् मन्दराख्यो महागिरिः ॥१३॥
क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम ।
सर्वोषधींश्च प्रक्षिप्य देवदैत्यैः पयोनिधौ ॥१४॥
वासुकिश्चागतस्तत्र राजन्नारायणाज्ञया ।
सर्वदेवहितार्थाय विष्णुश्च स्वयमागतः ॥१५॥
तत्र विष्णुं समासाद्य ततः सर्वे सुरासुराः ।
सर्वे ते मैत्रभावेन क्षीराब्धेस्तटमाश्रिताः ॥१६॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाथ वासुकिम् ।
ततो मथितुमारब्धं नृपते तरसामृतम् ॥१७॥
विष्णुना मुखभागे तु योजिता दानवास्तदा ।
देवताः पुच्छभागे तु मथनाय नियोजिताः ॥१८॥
एवं च मथनात्तत्र मन्दरोऽधः प्रविश्य च ।
आधारेण विना राजन् तं दृष्ट्वा सहसा हरिः ॥१९॥
सर्वलोकहितार्थाय कूर्मरुपमधारयत् ।
आत्मानं सम्प्रवेश्याथ मन्दरस्य गिरेरधः ॥२०॥
प्रविश्य धृतवान् शैलं मन्दरं मधुसूदनः ।
उपर्याक्रान्तवाञ्शैलं पृथग्रूपेण केशवः ॥२१॥
चकर्ष नागराजं च देवैः सार्धं जनार्दनः ।
ततस्ते त्वरया युक्ता ममन्थुः क्षीरसागरम् ॥२२॥
यावच्छक्त्या नृपश्रेष्ठ बलवन्तः सुरासुराः ।
मथ्यमानात्ततस्तस्मात् क्षीराब्धेरभवन्नृप ॥२३॥
कालकूटमिति ख्यातं विषमत्यन्तदुस्सहम् ।
तं नागा जगृहुः सर्वे तच्छेषं शङ्करोऽग्रहीत् ॥२४॥
नारायणाज्ञया तेन नीलकण्ठत्वमाप्तवान् ।
ऐरावतश्च नागेन्द्रो हरिश्चोच्चैः श्रवाः पुनः ॥२५॥
द्वितीयावर्तनाद्राजन्नुत्पत्रविति नः श्रुतम् ।
तृतीयावर्तनाद राजन्नप्सराश्च सुशोभना ॥२६॥
चतुर्थात् पारिजातश्च उत्पन्नः स महाद्रुमः ।
पञ्चामाद्धि हिमांशुस्तु प्रोत्थितः क्षीरसागरात् ॥२७॥
तं भवः शिरसा धत्ते नारीवत् स्वस्तिकं नृप ।
नानाविधानि दिव्यानि रत्नान्याभरणानि च ॥२८॥
क्षीरोदधेरुत्थिताश्च गन्धर्वाश्च सहस्त्रशः ।
एतान् दृष्ट्वा तथोत्पन्नानत्याश्चर्यसमन्वितान् ॥२९॥
अभवस्रातहर्षास्ते तत्र सर्वे सुरासुराः ।
देवपक्षे ततो मेघाः स्वल्पं वर्षन्ति संस्थिताः ॥३०॥
कृष्णाज्ञया च वायुश्च सुखं वाति सुरान् प्रति ।
विषनिः श्वासवातेन वासुकेश्वापरे हताः ॥३१॥
निस्तेजसोऽभवन् दैत्या निर्वीर्याश्च महामते ।
ततः श्रीरुत्थिता तस्मात् क्षीरोदाद्धतपङ्कजा ॥३२॥
विभ्राजमाना राजेन्द्र दिशः सर्वाः स्वतेजसा ।
ततस्तीर्थोदकैः स्त्राता दिव्यवस्त्रैरलंकृता ॥३३॥
दिव्यगन्धानुलिप्ताङ्गी सुमनोभिः सुभूषणैः ।
देवपक्षं समासाद्य स्थित्वा क्षणमरिंदम ॥३४॥
हरिवक्षः स्थलं प्राप्ता ततः सा कमलालया ।
ततोऽमृतघटं पूर्णं दुग्ध्वा तु पयसो निधेः ॥३५॥
धन्वन्तरिः समुत्तस्थौ ततः प्रीताः सुरा नृप ।
दैत्याः श्रिया परित्यक्ता दुःखितास्तेऽभवन्नृप ॥३६॥
नीत्वामृतघटं पूर्णं ते च जग्मुर्यथासुखम् ।
ततः स्त्रीरुपमकरोद विष्णुर्देवहिताय वै ॥३७॥
आत्मानं नृपशार्दूल सर्वलक्षणसंयुतम् ।
ततो जगाम भगवान् स्त्रीरुपेणासुरान् प्रति ॥३८॥
दिव्यरुपां तु तां दृष्ट्वा मोहितास्ते सुरुद्विषः ।
सुधापूर्णघटं ते तु मोहैः संस्थाप्य सत्तम ॥३९॥
कामेन पीडिता ह्यसन्नसुरास्तत्र तत्क्षणात् ।
मोहयित्वा तु तानेवमसुरानवनीपते ॥४०॥
अमृतं तु समादाय देवेभ्यः प्रददौ हरिः ।
तत्पीत्वा तु ततो देवा देवदेवप्रसादतः ॥४१॥
बलवन्तो महावीर्या रणे जग्मृस्ततोऽसुरान् ।
जित्वा रणेऽसुरान् देवाः स्वानि राज्यानि चक्रिरे ॥४२॥
एतत्ते कथितं राजन् प्रादुर्भावो हरेरयम् ।
कूर्माख्यः पुण्यदो नृणां श्रृण्वतां पठतामपि ॥४३॥
आविष्कृतं कौर्ममनन्तवर्चस्वं नारायणेनाद्भुतकर्मकारिणा ।
दिवौकसानां तु हिताय केवलं रुपं परं पावनमेव कीर्तितम् ॥४४॥
इति श्रीनरसिंहपुराणे कूर्मप्रादुर्भावो नामाष्टत्रिंशोऽध्यायः ॥३८॥