मार्कण्डेय उवाच
सोऽप्याशु नीतो गुरुवेश्म दैत्यैर्दैत्येन्द्रसूनुर्हरिभक्तिभूषणः ।
अशेषविद्यानिवहेन साकं कालेन कौमारमवाप योगी ॥१॥
प्रायेण कौमारमवाप्य लोकः पुष्णाति नास्तिक्यमसद्गतिं च ।
तस्मिन् वयः स्थस्य बहिर्विरक्तिर्भवत्यभूच्चित्रमजे च भक्तिः ॥२॥
अथ सम्पूर्णविद्यं तं कदाचिद्दितिजेश्वरः ।
आनाय्य प्रणतं प्राह प्रह्लादं विदितेश्वरम् ॥३॥
साध्वज्ञाननिधेर्बाल्यान्मुक्तोऽसि सुरसूदन ।
इदानीं भ्राजसे भास्वान् नीहारादिव निर्गतः ॥४॥
बाल्ये वयं च त्वामिव द्विजैर्जाड्याय मोहिताः ।
वयसा वर्धमानेन पुत्रकैवं सुशिक्षिताः ॥५॥
तदद्य त्वयि धुर्यऽहं संसकण्टकताधुरम् ।
विन्यस्य स्वां चिरधृतां सुखी पश्यन् श्रियं तव ॥६॥
यदा यदा हि नैपुण्यं पिता पुत्रस्य पश्यति ।
तदा तदाऽऽधिं त्यक्त्वा नु महत्सौख्यमवाप्नुयात् ॥७॥
गुरुश्चातीव नैपुण्यं ममाग्रेऽवर्णयत्तव ।
न चित्रं पुत्र तच्छ्रोतुं किं नु मे वाज्छतः श्रुती ॥८॥
नेत्रयोः शत्रुदारिद्र्यं श्रोतयोः सुतसूक्तयः ।
युद्धव्रणं च गात्रेषु मायिनां च महोत्सवः ॥९॥
श्रुत्वेति निकृतिप्रज्ञं दैत्याधिपवचस्ततः ।
जगाद योगी निश्शङ्कं प्रह्लादः प्रणतो गुरुम् ॥१०॥
सूक्तयः श्रोतयोः सत्यं महाराज महोत्सवः ।
किंतु ता वैष्णवीर्वाचो मुक्त्वा नान्या विचारयेत् ॥११॥
नीतिः सूक्तिः कथाः श्राव्याः श्राव्यं काव्यं च तद्वचः ।
यत्र संसृतिदुः खौघकक्षाग्रिर्गीयते हरिः ॥१२॥
अचिन्त्यः स्तूयते यत्र भक्त्या भक्तेप्सितप्रदः ।
अर्थशास्त्रेण किं तात यत्र संसृतिसंततिः ॥१३॥
शास्त्रश्रमेण किं तात येनात्मैव विहंस्यते ।
वैष्णवं वाड्मयं तस्माच्छ्राव्यं सेव्यं च सर्वदा ॥१४॥
मुमुक्षुभिर्भवक्लेशान्नो चेन्नैव सुखी भवेत् ।
इति तस्य वचः श्रृण्वन् हिरण्यकशिपुस्तदा ॥१५॥
जज्वाल दैत्यराट् तप्तसर्पिरद्भिरिवाधिकम् ।
प्रह्लादस्य गिरं पुण्यां जनसंसृतिनाशिनीम् ॥१६॥
नामृष्यतासुरः क्षुद्रो घूको भानुप्रभामिव ।
परितो वीक्ष्य सम्प्राह कुद्धो दैत्यभटानिदम् ॥१७॥
हन्यतामेष कुटिलः शस्त्रपातैः सुभीषणैः ।
उत्कृत्त्योत्कृत्त्य मर्माणि रक्षितास्तु हरिः स्वयम् ॥१८॥
पश्यत्विदानीमेवैष हरिसंस्तवजं फलम् ।
काकोलकङ्कगृध्रेभ्यो ह्यस्याङ्गं संविभज्यताम् ॥१९॥
अथोद्धतास्त्रा दैतेयास्तर्जयन्तः प्रजर्जितैः ।
अच्युतस्य प्रियं भक्तं तं जघ्नुः पतिनोदिताः ॥२०॥
प्रह्लादोऽपि प्रभुं नत्वा ध्यानवज्रं समाददे ।
अकृत्रिमरसं भक्तं तमित्थं ध्याननिश्चलम् ॥२१॥
ररक्ष भगवान् विष्णुः प्रह्लादं भक्तदुःखहत ।
अथालब्धपदान्यस्य गात्रे शस्त्राणि रक्षसाम् ॥२२॥
नीलाब्जशकलानीव पेतुश्छिन्नान्यनेकधा ।
किं प्राकृतानि शस्त्राणि करिष्यन्ति हरिप्रिये ॥२३॥
तापत्रयमहास्त्रौघः सर्वोऽप्यस्माद् बिभेति वै ।
पीडयन्ति जनांस्तावाद् व्याधयो राक्षसा ग्रहाः ॥२४॥
यावद् गुहाशयं विष्णुं सूक्ष्मं चेतो न विन्दति ।
ते तु भग्नास्त्रशकलैः प्रतीपोत्थैरितस्ततः ॥२५॥
हन्यमाना न्यवर्तन्त सद्यः फलददैरिव ।
न चित्रं विबुधानां तदज्ञानां विस्मयावहम् ॥२६॥
वैष्णवं बलमालोक्य राजा नूनं भयं दधौ ।
पुनस्तस्य वधोपायं चिन्तयन् स सुदुर्मतिः ॥२७॥
समादिशत् समाहूय दंदशूकान् सुदुर्विषान् ।
अशस्त्रवधयोग्योऽयमस्मयो हरितोषकृत् ॥२८॥
तस्माद् भवद्भिरचिराद हन्यतां गरलायुधाः ।
हिरण्यकशिपोः श्रुत्वा वचनं ते भुजंगमाः ।
तस्याज्ञां जगृहुर्मूर्ध्ना प्रहर्षाद्देशवर्तिनः ॥२९॥
अथ ज्वलद्दशनकरालदंष्ट्रिण स्फुटस्फुरद शनसहस्त्रभीषणाः ।
अकर्षका हरिमहिस्वकर्षका हरिप्रियं द्रुततरमापतन्रुषा ॥३०॥
गरायुधास्त्वचमपि भेत्तुमल्पिकां वपुष्यजस्मृतिबलदुर्भिदाकृतेः ।
अलं न ते हरिवपुषं तु केवलं विदश्य तं निजदशनैर्विना कृताः ॥३१॥
ततः स्त्रवत्क्षतजविषण्णमूर्तयो द्विधाकृताद्भुततदशनां भुजंगमाः ।
समेत्य ते दितिजपतिं व्यजिज्ञपन् विनिः श्वसत्प्रचलफणा भुजंगमाः ॥३२॥
प्रभो महीधानपि भस्मशेषांस्तस्मिन्नशक्तास्तु तदैव वध्याः ।
महानुभावस्य तवात्मजस्य वधे नियुक्त्वा दशनैर्विना कृताः ॥३३॥
इत्थं द्विजिह्वाः कठिनं निवेद्य ययुर्विसृष्टाः प्रभुणाकृतार्थः ।
विचिन्तयन्तः पृथुविस्मयेन प्रह्लादसामर्थ्यनिदानमेव ॥३४॥
मार्कण्डेय उवाच
अथासुरेशः सचिवैर्विचार्य निश्चित्य सूनुं तमदण्डसाध्यम् ।
आहूय साम्ना प्रणतं जगाद वाक्यं सदा निर्मलपुण्यचित्तम् ।
प्रह्लाद दुष्टोऽपि निजाङ्गजातो न वध्य इत्यद्य कृपा ममाभृत् ॥३५॥
ततस्तूर्ण समागत्य दैत्यराजपुरोहिताः ।
मूढाः प्राञ्जलयः प्राहुर्द्विजाः शास्त्रविशारदाः ॥३६॥
त्रैलोक्यं कम्पते देव भृशं त्वय्यभिकाइक्षिणी ।
प्रह्लादस्त्वां न जानाति कुद्धं स्वल्पो महाबलम् ॥३७॥
तदलं देव रोषेण दयां कर्तुं त्वमर्हसि ।
पुत्रः कुपुत्रतामेति न मातापितरौ कदा ॥३८॥
उक्त्वेति कुटिलप्रज्ञं दैत्यं दैत्यपुरोहिताः ।
आदाय तदनुज्ञातं प्रह्लादं धीधनं ययुः ॥३९॥
इति श्रीनरसिंहपुराणे नरसिंहप्रादुर्भावे द्विचत्वारिंशोऽध्यायः ॥४२॥