श्रीशुक उवाच
श्रोतुमिच्छाम्यहं तात साम्प्रतं मुनिभिः सह ।
संसारवृक्षं सकलं येनेदं परिवर्तते ॥१॥
वक्तुमर्हसि मे तात त्वयैतत् सूचितं पुरा ।
नान्यो वेत्ति महाभाग संसारोच्चारलक्षणम् ॥२॥
सूत उवाच
स पुत्रेणैवमुक्तस्तु शिष्याणां मध्यगेन च ।
कृष्णद्वैपायनः प्राह संसारतरुलक्षणम् ॥३॥
व्यास उवाच
श्रृण्वन्तु शिष्याः सकला वत्स त्वं श्रृणु भावितः ।
संसारवृक्षं वक्ष्यामि येन चेदं समावृत्तम् ॥४॥
अव्यक्तमूलप्रभवस्तस्मादग्रे तथोत्थितः ।
बुद्धिस्कन्धमयश्चैव इन्द्रियाङ्कुरकोटरः ॥५॥
महाभूतविशाखश्च विशेषैः पत्रशाखवान् ।
धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः ॥६॥
आजीव्यः सर्वभूतानां ब्रह्म वृक्षः सनातनः ।
एतद् ब्रह्म परं चैव ब्रह्म वृक्षस्य तस्य तत् ॥७॥
इत्येवं कथितं वत्स संसारवृक्षलक्षणम् ।
वृक्षमेनं समारुढा मोहमायान्ति देहिनः ॥८॥
संसरन्तीह सततं सुखदुःखसमन्विताः ।
प्रायेण प्राकृता मर्त्या ब्रह्मज्ञानपराङ्मुखाः ॥९॥
छित्त्वैनं कृतिनो यान्ति नो यान्ति ब्रह्मज्ञानिनः ।
कर्मक्रिये महाप्राज्ञ नैनं छिन्दन्ति दुष्कृताः ॥१०॥
एनं छित्त्वा च भित्त्वा च ज्ञानेन परमासिना ।
ततोऽमरत्वं ते यान्ति यस्मान्नावर्तते पुनः ॥११॥
देहदारमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ।
ज्ञानमेव परं पुंसां श्रेयसामाभिवाञ्छितम् ॥१२॥
आहारनिद्राभयमैथुनानि समानमेतत्पशुभिर्नराणाम् ।
ज्ञानं नराणामधिकं हि लोके
ज्ञानेन हीनाः पशुभिः समानाः ॥१३॥
इस प्रकार श्रीनरसिंहपुराणमें पन्द्रहवाँ अध्याय पूरा हुआ ॥१५॥