संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् Translation - भाषांतर सहस्रशीर्षा पुरुषः पुनातु वःसहस्रचक्षुर्भगवान् सहस्रपात् ।गलेऽङ्घ्रिमूले नयने च निश्चला-स्त्रयोऽप्यमी यं पुरुषा उपासते ॥१॥(उपासते यं पुरुषास्त्रयोऽप्यमी)॥ १॥सरस्वतीवेन्दुकलोद्गता करैःसरस्वतीव श्रवणामृतैः स्वरैः ।सरस्वतीवोर्मिभिरीश्वरस्तवैःसरस्वती वर्षतु वः सुधामियम् ॥२॥विमर्शशून्येन मया निरर्थकःखलेन कालः सकलोऽतिवाहितः ।इदं त्वसारादतिसारमुद्धृतंधृतं यदीशस्तुतिवेतनं मनः ॥३॥न हृद्यतामेति परस्य दुर्मुखःशिशुः स्रवत्पीनसदिग्धनासिकः ।पितुः स्वकीयस्य तु जीविताधिक-स्तथोपहास्योऽपि ममाऽयमुद्यमः ॥४॥अवैमि भाग्योपचयः स पुष्कलःसशक्तिपातः खलु पारमेश्वरः ।स वा महार्हो महतामनुग्रहोयदीश्वराराधनसाधनं मनः ॥५॥अहो कृतार्थोऽस्मि मनोभिरामयागिरा गुणालङ्कृतयेह रामया ।तनुः स्थिरेयं ध्रियते निरामयाभवे च यद्भक्तिरभङ्गुरा मया ॥६॥न विद्यया प्रीतिरनर्घमानयातथा श्रिया वाऽन्वहमेधमानया ।शिवस्तवैकव्रतयाऽसमानया (ममानया)यथा गिरा सान्द्रसुधासमानया ॥७॥पुरः स्फुरन्तं विमृशन्महेश्वरंविलीनवेद्यान्तरवेदनो दशाम् ।नवस्तवोल्लेखविधौ स्पृशामि यांममान्तरात्मा विभुरेव वेत्ति ताम् ॥८॥मनुष्यता पूरुषताऽग्र्यवर्णतामनीषिता सत्कविता शिवैकता ।इयं मम क्षेमपरम्परा विभोःस्तुतिप्रसङ्गेन गता कृतार्थताम् ॥९॥ध्रुवं नवानां रसगर्भनिर्भर-ध्वनिर्घनानामनघेयमावलिः ।पृथुप्रभावं शशिखण्डमण्डितंप्रहर्षिणं नीलगलं करिष्यति ॥१०॥यदि ह्ययोग्याश्चरणान्तिके वयंतथापि नः प्राङ्गणसीमसेविनाम् ।चमत्करिष्यन्ति गिरः प्रभोरिमाजनङ्गमानामिव गीतरीतयः ॥११॥परोपकारैरिव राजसेवनंदरिद्रगार्हस्थ्यमिवार्थितर्पणैः ।इदं बहुक्लेशमपीश्वरस्तवै-रवैमि वर्ष्म स्पृहणीयमात्मनः ॥१२॥(वपुर्बहुक्लेशमपीदमीश्वरस्तवै-रवैमि स्पृहणीयमात्मनः)॥ १२॥सहस्रपत्रैरिव पल्वलोदकंशिरः फणीन्द्रस्य मणिव्रजैरिव ।सदोषमप्येतदवैमि मानुषंमनोरमं जन्म महेश्वरस्तवैः ॥१३॥मृगेन्द्रशावा इव कन्दरोदरा-त्करीन्द्रकुम्भादिव मौक्तिकोत्कराः ।विनिःसरन्तः कवितुर्मुखादमीमनोज्ञतां बिभ्रति कस्य न स्तवाः ॥१४॥मरालमाला सरसीव निर्मलेकुचस्थले हारलतेव सुभ्रुवाम् ।इयं भवत्वाभरणं महेश्वर-स्तवावली वक्त्रसरोरुहे सताम् ॥१५॥इमां घनश्रेणिमिवोन्मुखः शिखीचकोरकः कार्तिकचन्द्रिकामिव ।रथाङ्गनामा तरणेरिव त्विषंस्तवावलीं वीक्ष्य न कः प्रमोदते ॥१६॥मधुव्रतः सौमनसीमिव स्रजंसितच्छदः पङ्कजकर्णिकामिव ।पिको विकोषामिव चूतमञ्जरी-मिमां न कश्चर्वयति स्तवावलीम् ॥१७॥मनस्विनीनामिव साचि वीक्षितंस्तनन्धयानामिव मुग्धजल्पितम् ।अवश्यमासां मधु सूक्तिवीरुधांमनीषिणां मानसमार्द्रयिष्यति ॥१८॥इयं मधुश्रीरिव केलिकाननंसरोवरं प्रावृडिवातपक्षतम् ।स्तवावली काव्यकुतूहलं सता-मकालजीर्णं तरुणीकरिष्यति ॥१९॥विमत्सराणां सदसद्विवेकिनांमहात्मनां मूर्ध्नि धृतोऽयमञ्जलिः ।विलोकयन्तु प्रभुगौरवादिमांप्रसादबुद्ध्या मयि वा स्तवावलीम् ॥२०॥स्तवावलीढौकनकार्पणच्छला-दलभ्यमभ्यर्णचरैः सुरैरपि ।प्रभोः पदस्पर्शमशङ्कमीप्सतोविकत्थनत्वेपि न मे विडम्बना ॥२१॥कलिमलमषीकल्माषोऽयं मनोमुकुरः पुरःस्फुरितमपि न व्यक्तं वस्तु ग्रहीतुमभवत्क्षमः ।सपदि विशदैः शब्दब्रह्मोर्मिभिर्विमलीकृतेकरबदरवत्पश्यामोऽस्मिन् समस्तमिदं जगत् ॥२२॥आनन्दिनि स्तुवति नन्दिनि गूढमर्थंदेवश्चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः ।अङ्गस्थितां भगवतीमधिरूढहासा-मासामवश्यमवबोधयति स्तुतीनाम् ॥२३॥मन्ये मनोवचनकर्मभिरद्भुतानियान्यूर्जितानि सुकृतानि पुराकृतानि ।एतानि तानि शिवभक्तिपवित्रितानिकर्णामृतानि फलितानि सुभाषितानि ॥२४॥एते प्रभोः प्रमथभर्त्तुरभीष्टमष्टा-त्रिंशत्स्तवा विमृशतां विदुषां दिशन्तु ।तेनैव दृक्षु धृतघर्मकरामृतांशु-सप्तार्चिषामिव कलाः सकलार्थलाभम् ॥२५॥अयमिह किङ्करेण रचितश्चरणाम्बुजयोः``स्तुतिकुसुमाञ्जलि''र्भगवतस्तरुणेन्दुभृतः ।अविरलभक्तिसिक्तनवसूक्तिलताऽवचितःकलयतु सौरभेण सुकृतां स्पृहयालु मनः ॥२६॥अयि प्रमथनायक त्रिजगतामधिष्ठायकप्रसन्नमुख षण्मुख त्रिदशवन्द्य नन्दीश्वर ।निवेदयत भक्तितश्चरणकिङ्करेणाऽर्पितंपुरः पुररिपोरिमं विकचवाक्यपुष्पाञ्जलिम् ॥२७॥इति परिषदि सिंहस्यन्दनस्कन्दनन्दि-प्रभृतिभिरभिराद्धैर्वन्द्यमावेद्यमानम् ।स्तुतिकुसुमसमूहं प्राभृतीकृत्य शम्भो-र्यदमलमुपलब्धं शर्म तेनेदमस्तु ॥२८॥भुवि भुवि कुविकल्पः स्वल्पतामेतु जेतुंधुरि धुरि दुरितौघं वर्द्धतां शुद्धबोधः ।पथि पथि मथितोग्रव्यापदापन्नतापानरि नरि परिपूर्णा जृम्भतां शम्भुभक्तिः ॥२९॥इति शुभं भगवच्चरितस्तुति-व्यतिकरेण यदर्जितमूर्जितम् ।भवतु तेन मनस्यनपायिनीसुकृतिनां शिवभक्तिचमत्कृतिः ॥३०॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``पुण्यपरिणामस्तोत्रं'' नामष्टात्रिंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP