संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
पादादियमकस्तोत्रं षड्विंशं स्तोत्रम्

पादादियमकस्तोत्रं षड्विंशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


हन्तापहन्तापदुपद्रवाणां
यस्याऽक्षयस्याक्षणिकः प्रसादः ।
सन्तापसन्तापहरा प्रपेव
कान्तारकान्ता रसना च यस्य ॥१॥

तादृङ्मता दृङ्महतां समन्ता-
दालोकदा लोकहिता च यस्य ।
तं सन्ततं सन्तमसार्त्तलोक-
पालं कृपालङ्कृतमीशमीडे ॥२॥

हृद्यः सुहृद्यः सुकृतोर्जिताना-
मन्यूनमन्यूनपि यः पृणाति ।
योऽनामयो नामगृहीतिमात्रा-
दस्तापदस्तापमपाकरोति ॥३॥

चेतः प्रचेतःप्रमुखा यदेक-
तानन्ततानन्तगुणा वहन्ति ।
योगीति यो गीतिषु गीयमानः
सिद्धैः प्रसिद्धैः प्रभुरभ्युपेतः ॥४॥

मान्योऽधमान्योऽधरयत्युदग्र-
रंहोभिरंहोभिरपास्तवृत्तान् ।
नामापि नामापिदधाति वीता-
लोकस्य लोकस्य तमांसि यस्य ॥५॥

भूतिर्विभूतिर्विपुला दिशश्च
वासो निवासो निलयः पितॄणाम् ।
हीनैरहीनैरपि यस्य भूषाऽ-
राला कराला कलिका च मौलौ ॥६॥

यः खेऽलयः खेलति यः शिखाभिः
सत्यं हसत्यंहतिहारिणीभिः ।
भानां शुभानां शुचिरीश्वरो य-
स्तानक्षतानक्षिषु यो बिभर्ति ॥७॥

सङ्ख्येष्वसङ्ख्येष्वपि यो भटानां
वैरस्य वैरस्यभुवो निदानम् ।
निन्दावनिं दावहुताशवन्तं
रोषं खरोषं खलु यः प्रमार्ष्टि ॥८॥

यज्ञे नयज्ञेन वृतो न पूर्वं
दक्षेण दक्षेण शुभे विधौ यः ।
तस्याऽऽनतस्याऽनघमुज्झिताव-
सादं प्रसादं प्रददौ दयाब्धिः ॥९॥

नीतावनीतावचलैरलभ्यः
साध्यैरसाध्यैरपि यस्तपोभिः ।
सेवालसे बालमुनौ किलोप-
मन्यावमन्यावकरोत्प्रसादः ॥१०॥

नायं विनाऽयं विदधाति लोकः
कर्मण्यकर्मण्यतयाभियोगम् ।
सत्त्वानसत्त्वानपि नेतुमास्था-
मर्थः समर्थः स यतोऽभ्युदेति ॥११॥

धर्मेण धर्मेण निजोचितेन
कामेन कामेन वृताभयेन ।
कालेन काले नतिमागतेन
वातेन वा तेन सुखावहेन ॥१२॥

जीवेन जीवेन तदर्पितेन
काव्येन काव्येन मनोहरेण ।
मित्रेण मित्रेण तमोवृतानां
सौम्येन सौम्येन च सेव्यते यः ॥१३॥

लोकान् सलोकान् सदयोऽसृजद्यो
धाता विधाता विभुरीप्सितानाम् ।
देवः पदे वः परमे नियोक्ता
कामं सकामं सफलीकरोतु ॥१४॥

तं वन्दितं वन्दिभिरर्चयन्ते
सन्तो लसन्तो ललितैर्वचोभिः ।
तस्याऽजितस्याजिषु नौति लीला-
मुत्तालमुत्तालरवेण लोकः ॥१५॥

धीरस्य धीरस्यति तस्यतीक्ष्णा-
बन्धानुबन्धानुगतां प्रवृत्तिम् ।
दानं ददानं दयितेव रागा-
दानन्ददा नन्दयते च तं श्रीः ॥१६॥

सम्पन्नसम्पन्नवसिद्धिहेतुं
धुर्यामधुर्याममरेन्द्रमुख्याः ।
भासा शुभा सा शुचिरीशभक्ति-
र्यस्याऽभयस्याभरणत्वमेति ॥१७॥

शङ्का भृशं का भृतकप्रियश्चे-
दासन्नदासं न जहाति शम्भुः ।
नाराधनाराधयितुश्च मिथ्या
किं चित्त किञ्चित्तरलत्वमेषि ॥१८॥

सानन्द सा नन्दनभूस्तृणं ते
कल्याण कल्याणगिरिः क्व गण्यः ।
सा तेजसा ते जडतामुदस्त-
कम्पाऽनुकम्पा नुदतीन्दुमौलेः ॥१९॥

जम्बालजं बालरवेरिवाभा-
ऽदीनं नदीनं नवचन्द्रिकेव ।
साशङ्क सा शङ्करभक्तिरुच्चै-
रक्षामरक्षा मदयिष्यति त्वाम् ॥२०॥

नो भोगिनो भोगिभिरर्चितो यः
सातङ्क सातं कलयञ्जहाति ।
स त्वाऽलसत्वालयदैन्यहारी
पास्यत्यपासत्यशुभं च शम्भुः ॥२१॥

दोषप्रदोषप्रसृतापि सक्ता
सेवारसे वारविलासिनीव ।
या निर्भया निर्भररागिणी त्वा-
मायाति मायातिमिरेऽभिसर्त्तुम् ॥२२॥

भावानुभावानुगमेन रूढा
बाला नवालानगता वशेव ।
साऽनेहसा नेह विहास्यति त्वां
कण्ठोपकण्ठोपगतैव वाणी ॥२३॥

दिव्या यदि व्यायतकान्तयस्ते
गौरीश गौरी शशिनः कला च ।
विघ्नन्ति विघ्नं तिमिराभिधानं
तेनाऽहतेनाऽहमुपद्रुतः किम् ॥२४॥

मुद्योगमुद्योगभृतो भजन्ते
शंसन्ति शं सन्ति च निर्विकल्पाः ।
भक्ता विभक्ता विपदस्त्वदीयाः
कस्मादकस्मादहमेव मग्नः ॥२५॥

वाचां तवाचान्तशुचां शुभाना
मोघा न मोघा नमतां कदाचित् ।
तैरुद्धतैरुद्धर मामनाथं
लीनं कुलीनं कुदशान्धकारे ॥२६॥

कल्पान्तकल्पान्तकभीतियुक्तं
रक्षामि रक्षामिह योऽर्हतीति ।
यस्ते नयस्तेन दिश प्रसन्ना-
मत्राऽसमत्रासहरां दृशं मे ॥२७॥

कन्दर्प कं दर्पमुपैषि यात-
मस्तं समस्तं सहसा बलं ते ।
भीरो गभीरो गलितः किमुच्चै-
रक्षोभरक्षो भगवत्प्रसादः ॥२८॥

विद्यामविद्यामपि तां यया त्वा-
माराध्यमाराध्य सुखी भवामि ।
मायापि मा यापितभीरुपैतु
याता न या तानवमर्चितुं त्वाम् ॥२९॥

रामाभिरामाभिमता धृतार्धे
भोगोपभोगोपगतेन केन ।
कस्यान्तकस्यान्तकरी च लक्ष्मी-
धामानि धामानि बिभर्ति दृष्टिः ॥३०॥

कः स्तम्भकः स्तम्भनिभस्य जिष्णोः
कस्तापकस्तापकृतः स्मरस्य ।
कारानुकारानुभवे भवेऽस्मिन्
को जीवको जीवभृतां विना त्वाम् ॥३१॥

या शंसया शंसति शम्भुभक्तिं
चेष्टासु चेष्टासु रतिं स्मरस्य ।
तामक्षतामक्षयपुण्यकोषा-
दन्यो वदन्यो वहते तनुं कः ॥३२॥

याहन्तया हन्त नृपेऽप्यवज्ञा-
मानञ्ज मानं जनयन्त्यभङ्गम् ।
हा निःसहा निःसरणेऽपि भक्त्या
सा वागसावागमदन्तिकं ते ॥३३॥

देवं यदेवं यमकैर्महेशं
तुष्टाव तुष्टावसरोचितं गीः ।
शस्यो यशस्योऽयमुपस्थितोऽस्मा-
देनोभिदे नोऽभिमतः प्रसादः ॥३४॥

तरलतरलताग्रस्पर्द्धिनी चञ्चलत्वं
रुचिररुचिरमन्दानन्ददा मुञ्चति श्रीः ।
चरति च रतिकान्तध्वंसिशंसारतानां
मधुरमधुरसार्द्रा भारती वक्त्रपद्मे ॥३५॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``पादादियमकस्तोत्रं'' नाम षड्विंशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP