संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| सेवाभिनन्दनं सप्तमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् सेवाभिनन्दनं सप्तमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति सेवाभिनन्दनं सप्तमं स्तोत्रम् Translation - भाषांतर निशान्तनिद्रेव दशेव शैशवीनवीनवध्वाश्चकितेव दृक्छटा ।सुरस्रवन्तीव कथेव शाम्भवीकवीन्द्रवाङ्निर्वृतिमातनोतु वः ॥१॥अलौकिकाह्लादनिबन्धनं मनःप्रसादनं स्वानुभवैकसक्षिकम् ।प्रकाशतां वो हृदि पारमेश्वरंमहो रहस्यं सुकवेर्गिरामिव ॥२॥स यस्य चापात्सपदि च्युतोऽच्युतःशिखाभिरुग्रो विशिखः शिखावतः ।पुराण्यकार्षीदपुराणि भैरवोभयानि भिन्द्यादभवो भवः स वः ॥३॥स यस्य पृष्ठे चरणार्पणं वृषावृषाधिरोहे कलयत्यनुग्रहम् ।त्रिलोकनाथः स गिरा सुधावृषावृषाकपिस्तापमपाकरोतु वः ॥४॥स यस्य पादद्वयमिद्धशासनःसदा समभ्यर्चति पाकशासनः ।प्रभुः प्रसादाऽमलया दृशा स नःक्रियाद्विपद्भङ्गमनङ्गशासनः ॥५॥चमूर्जयन्भीजनकानका न काःस यस्य सूनुः क्लमहा महामहाः ।जटाः स बिभ्रत्तरुणारुणारुणाःश्रियः क्रियाद्वः शुभयाभयाऽभया ॥६॥मयि ध्रुवं दृग्भवता वताऽवताकृपामृतार्द्रा महिता हिताऽऽहिता ।अतस्तवास्तप्रमयामया मयाकृता नुतिः सातिशयाशयाऽऽशया ॥७॥अनभ्रवर्षप्रतिमं विमत्सरानरा जरारुङ्मरणार्त्तिभीरवः ।मुधा सुधासूतिवतंसशंसनंविहाय धावन्ति रसायनाय किम् ॥८॥मणिः सुसूक्ष्मोऽपि यथोल्बणं विषंकृशोपि वह्निः सुमहद्यथा तृणम् ।शिशुर्मृगेन्द्रोपि यथा गजव्रजंतनुः प्रदीपोऽपि यथा तमोभरम् ॥९॥यथाल्पमप्यौषधमुन्मदं गदंयथामृतं स्तोकमपि क्षयाद्भयम् ।ध्रुवं तथैवाणुरपि स्तवः प्रभोःक्षणादघं दीर्घमपि व्यपोहति ॥१०॥अमन्दसन्दर्भगभीरविभ्रमःप्रगल्भवैदर्भपरिश्रमः क्रमः ।अवश्यमासाद्य गुणोचितं विभुंबिभर्त्ति सौभाग्यमभङ्गुरं गिरः ॥११॥यथा हि शीलेन विना कुलाङ्गनायथा विवेकेन विना मनीषिता ।सदर्थबोधेन विना यथा श्रुति-र्महीभुजङ्गेन विना यथा मही ॥१२॥यथा विना द्यौररविन्दबन्धुनाविना शशाङ्केन यथा निशीथिनी ।विदग्धवर्गेण विना यथा सभाविना विभूतिर्विनयेन वा यथा ॥१३॥कृपाविपाकेन विना यथा मति-र्यथा सुपुत्रेण विना गृहस्थितिः ।तथैव शोच्या हरिणाङ्कशेखर-स्तवोपयोगेन विना सरस्वती ॥१४॥रमापि देवी मम नो मनोरमाक्षमापि मामभ्यवपत्तुमक्षमा ।मम क्षमैका भगवत्परानुति-र्भवार्त्तिभङ्गे सरसा सरस्वती ॥१५॥अचेतनो यः किल कुस्थितिप्रियःपृथग्विधोपाधिशतक्षताशयः ।निषेव्यते पादतले स यद्गिरि-श्चिरं मुनीन्द्रैरपि शुद्धमानसः ॥१६॥निसर्गतः सत्पथगर्हितस्थिति-र्मलीमसो जिह्मगतिश्च यः फणी ।स कुण्डली यन्मणिमौलिमण्डितोमहाभुजङ्गः पृथुभोगभागपि ॥१७॥यदप्यजस्रं जडसङ्गमोचितःस्वभावतुच्छः शशभृत् कलामयः ।कलङ्कमुक्तं वहते सुधामयंविधूतदोषोदयमुज्ज्वलं वपुः ॥१८॥स एष गौरीश्वरसंश्रयात्मनःफलोद्गमः कल्पमहामहीरुहः ।अमुं समासादयितुं हितायति-र्यतेत को नाम न चेतनो जनः ॥१९॥निदाघनिर्दग्धमहामरुभ्रम-क्लमच्छिदो मार्गमहीरुहादपि ।कलिन्दकन्यासलिलौघसङ्गत-त्रिमार्गगाम्भोभरसम्प्लवादपि ॥२०॥सरस्वतीसौभगसारसम्भृत-प्रसन्नगम्भीरपदक्रमादपि ।कुरङ्गनाभीघनकुङ्कुमाङ्कित-स्तनाङ्गनालिङ्गनविभ्रमादपि ॥२१॥अमन्दमानन्दसुधारसद्रवंस्रवन्नवन्ध्यं भवदुःखिते हृदि ।इयत्यमुष्मिन्भुवनाध्वनि ध्वनि-र्नमः शिवायेति चमत्करोति मे ॥२२॥विचिन्तयञ्जीवनमेव जीवनंसमर्थयन् पार्थिवमेव पार्थिवम् ।विभावयन् वैभवमेव वै भवंकदाऽऽश्रये शङ्करमेव शङ्करम् ॥२३॥वरं भवेदप्यवरं कलेवरंपरं हराराधनसाधनं हि यत् ।न तु क्रतुध्वंसिनिषेवणोत्सवंविनिघ्नती मुक्तिरयुक्तिपातिनी ॥२४॥क्व नीलकण्ठायतनोपसर्पण-स्फुटोपकारौ चरणौ महागुणौ ।क्व चाञ्चनोद्वर्त्तनचर्चनादिभिःपुरारिपूजार्पणतर्पणौ करौ ॥२५॥क्व नाम नामग्रहणोत्सवं विभो-रभिप्रवृत्ता रसना दिने दिने ।क्व चाद्रिपुत्रीपतिपादपङ्कज-स्फुरद्रजोराजिविराजितं शिरः ॥२६॥क्व दृक्चिरं पारितचन्द्रशेखर-स्वरूपसौभाग्यविलोकनस्पृहा ।क्व सन्तताकर्णितदर्पकद्विष-द्विचित्रचारित्रपवित्रिता श्रुतिः ॥२७॥क्व निर्धुताऽनल्पविकल्पविप्लव-त्रिलोचनध्याननिबन्धनं मनः ।क्व चाऽपवर्गोऽयममार्ग एव यःस्मरारिसेवासुखसर्वसम्पदाम् ॥२८॥इदं विदन्तः सुधियो भियोज्झिताःसमाधिमाधिच्छिदमाश्रिता अपि ।प्रभुप्रणामस्तुतिचिन्तनार्चन-स्फुटोपयोगं बहु मन्वते वपुः ॥२९॥किमङ्गमङ्गल्यमनङ्गभङ्गद-प्रसादनादन्यदधन्यमन्यसे ।यदर्थमर्थक्षतिकृत्सुदुष्करप्रयास-साध्येषु मखेषु खिद्यसे ॥३०॥इमा हिमानीविमला हविर्भुजांप्रभुप्रसादप्रभवा विभूतयः ।करोषि यत्तर्पणमात्रकाम्ययादयास्पदप्राण्युपघातपातकम् ॥३१॥सखे ! सखेदस्य धनार्जनं प्रतिप्रतिग्रहाध्यापनयाजनादिभिः ।प्रयाति ते वायुरिवायुरिङ्गितंविहन्ति हन्त क्रतवे तवेहितम् ॥३२॥अतः स्वतः प्रार्थितसम्पदां पदंकदर्थनाहीनमदीनमेनसा ।निदानमानन्दभुवः स्वयम्भुवोभजस्व पादाम्बुजसेवनोत्सवम् ॥३३॥अक्लेशपेशलमलङ्घ्यकृतान्तदूत-हुङ्कारभङ्गभिदुरं दुरितेन्धनाग्निम् ।को नाम नामयहरं हरपादपद्म-सेवासुखं सुमतिरन्वहमाद्रियेत ॥३४॥रोमन्थमन्थरकुरङ्गशताश्रितेषुभागीरथीशिशिरशीकरशीतलेषु ।रोहन्महार्हफलकन्दलसुन्दरेषुबद्धास्पदास्तुहिनभूधरकन्दरेषु ॥३५॥धन्याः समाधिमवधानधना धनादि-सम्बन्धबन्धमवधूय धियाऽधियन्तः ।ज्योतिः परं गलदनल्पविकल्पजाल-मालोकयन्ति भगवन्तमनन्तमन्तः ॥३६॥धन्या भजन्ति नृपवेश्मसु वेत्रिवक्त्र-हुङ्कारकातरधियस्तरुणेन्दुमौलिम् ।वैराग्यनिर्वृतमनस्विजनावकीर्ण-स्वर्गापगापुलिनबाललतालयेषु ॥३७॥सन्तः स्मरन्ति शशिखण्डशिखण्डसेवा-हेवाकिनः सुरसरित्पुलिनस्थलेषु ।लक्ष्मीलवोल्लसदमन्दमदाऽवलेप-भूपालवालिशविलङ्घनविप्लवानाम् ॥३८॥इदं मधुमुखं विषं हरति जीवितं तत्क्षणा-दपथ्यमिदमाशितं व्यथयते विपाके वपुः ।इदं तृणगणावृतं विलमधो विधत्ते क्षणा-द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥३९॥अतः प्रतनुवैभवोद्भवदखर्दगर्वक्षमा-पतिप्रणयसम्भवं भुवि विडम्बनाडम्बरम् ।विहाय सुरवाहिनीपुलिनवासहेवाकिनोभजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥४०॥किं भूयोभिः परुषविषयैः श्रीविकारैरसारैःकिं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः ।मन्ये नाऽन्यद्भवभयविपत्कातराणां नराणांमुक्त्वा भक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥४१॥दूरोदञ्चच्चटुललहरीहारिहस्तव्युदस्त-व्यापत्तापत्रिदशतटिनीमज्जनोन्मज्जनेषु ।श्रद्धाबन्धं शशधरशिरःपादराजीवसेवा-हेवाकैकव्यसनमनसस्तेन तन्वन्ति सन्तः ॥४२॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``सेवाभिनन्दनं'' नामकं सप्तमं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP