संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् Translation - भाषांतर काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् ।कौमुदीकुमुदकान्तकीर्तिभिः कामितः कुशलकार्यकारिभिः ॥१॥केरलीकचकलिन्दकन्यकाकूलकालियकडारकन्धरः ।किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥२॥केकिकेतनकृशानुकौशिकैः किन्नरैः कविकुबेरकेशवैः ।कालकूटकवलक्रियाक्रमे क्रन्दितः कलुषकर्षणक्षमः ॥३॥कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः ।कालकामकदनः कुमुद्वतीकान्तकर्बुरकपर्दकन्दरः ॥४॥कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् ।क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने ॥५॥कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः ।कर्णिकारकरबीरकोरकैः कैरवैः कुवलयैः कुशेशयैः ॥६॥किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः ।कोविदारकुटजैः कणेरकैः केवलैः कचितकीर्णकुन्तलः ॥७॥कृष्णकुण्डलिकठोरकञ्चुकैः कॢप्तकुब्जकमनीयकङ्कणः ।क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥८॥कान्तया कनककाञ्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः ।कोपयन्कपटतः किरीटिनं क्रीडया कृतकिरातकैतवः ॥९॥काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते ।काङ्क्षितः क्षतकलेवरैः कटुं कर्षयन्करुणया कदर्थनाम् ॥१०॥कोपकर्कशकृतान्तकिङ्करक्लेशकातरकृपाकृतौ कृती ।कल्पतां कलिकलङ्ककन्दलीकन्दकर्त्तनकुठारकर्मणे ॥११॥कल्लोलिनीकुटिलकैरविणीकुटुम्ब-कङ्कालकल्पितकरालकिरीटकोटिः ।कात्यायनीकरकरम्बितकीर्यमाण-कर्पूरकुङ्कुमकणः करुणां करोतु ॥१२॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``कादिपदबन्धस्तोत्रं'' नामकं द्वाविंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP