शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
जगति विबोधितविधुरं विधुरञ्जितचारुशेखरं गिरिशम् ।
गिरि शंसामि ससाध्वससाध्वसमानन्ददानपरम् ॥१॥
न परं शरणं प्रभवति भवति कृतावज्ञमानसे महताम् ।
महतां भजति हि सहसा सहसा तव भारती मधुरा ॥२॥
मधुरागारुणनयना नयनाशविधौ पटीयसी प्रमदा ।
प्रमदार्पणार्थमुदिते मुदिते त्वयि सा तृणं भजताम् ॥३॥
भजतां सरसाममलां मम लाञ्छितशेखरेन्दुना करुणाम् ।
करुणां गिरं नवतया बत याऽर्पयति तव श्रयताम् ॥४॥
श्रयतां नवनविधौ तव धौतवती गीरघं रतिं चतुरम् ।
चतुरन्तमहीपतिता पतिता हेयत्व एव यत्र सताम् ॥५॥
त्रसतां न कदा भवता भवतापहृता विभो शुभाकृतिना ।
कृतिनामुपकारचितं रचितं शुभमेव भाविहितम् ॥६॥
विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् ।
कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥७॥
कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते ।
कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश मे ॥८॥
दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे ।
नलभेकवदतिविलपन् विलपन्नगवद्वृतः सदा तमसा ॥९॥
तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् ।
सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम् ॥१०॥
सदयं यदुदारमते रमते कुर्वंस्तदेव देव जनः ।
वज नः करुणापरतां परतां मा गा नमो भवते ॥११॥
भव तेजःप्रसरसितं रसितं श्रुत्वाऽमृतोपमं भवतः ।
भवतस्त्रासं सकलं सकलङ्कमतिः कदा विमुञ्चामि ॥१२॥
मुञ्चामितभास दृशं सदृशं शशिनः प्रदर्श्य वदनम् ।
वद नन्दयितुं जगतीं जगतीशः कोस्तु नामान्यः ॥१३॥
नामान्यः सुमतिरयं तिरयन्ति यशांसि तस्य वा विपदम् ।
विपदं न विलासमये समये वपुरस्य यात्ययातवयः ॥१४॥
तव यः स्तुतिषु सदा हर दाहरजः क्लेशपाशमयम् ।
शमयन्तीष्वस्तमनास्तमनाहतभाग्यमेव देव नमे ॥१५॥
वनमेव शरणमधुना मधुनाशिनुत प्रसादनाय तव ।
यतवति हृदये शकलितकलितमसो मे नमेरुचितम् ॥१६॥
रुचितं नोरगसदनं सदनन्तमहर्द्धि नन्दनं न वनम् ।
नवनं धृतदीप्रगुणं प्रगुणं तव कर्तुमेव देव रमे ॥१७॥
वरमेनोहरममलं मम लङ्घितविघ्न देहि नाम हितम् ।
महितं पदमपि मा नय मानय विधुरं दृशामलया ॥१८॥
मलयानिलमिव सुरभिं सुरभिं कुसुमैरिवावदातवनम् ।
तव नन्दितहृदनामय नाम यमत्रासहृत्कलये ॥१९॥
कलयेन्दोरभिभूषित भूषितमुकुटैः सुरैर्नतेश न कैः ।
शनकैरघशमनाशय नाशय विपदं पदं नय मा ॥२०॥
न यमाहितभयशमने शमनेकविधं प्रसाददक्षमते ।
क्षमते मुनिभिरुपासित पासितरां चेन्न मामदयम् ॥२१॥
मदयञ्जितविप्रकृतीः प्रकृतीर्वसुधाधिपो महीवलयम् ।
बलयन्त्रितरिपुरक्षति रक्षति तव यः प्रसादमितः ॥२२॥
दमितस्तेन हि शमनः शमनस्तरुचापि तेन जातमुदा ।
तमुदाराहितचरितं चरितं शुभवर्त्मना स्तुवन्त्यमलम् ॥२३॥
त्यमलङ्कृतभूभवनं भव नन्दितलोकमीश भावपुषा ।
वपुषा नौम्यभयस्तव यस्तव नुतिषु प्रियासु कृती ॥२४॥
सुकृती तव भववारणवारणहरिणेन्द्र सिद्धिभाजनताम् ।
जनतां नयदमलसितं लसितं वपुरर्चये नवैरसकृत् ॥२५॥
रसकृद्योऽप्रतिघस्मरघस्मर भवतः स्तवः सदैव सताम् ।
वसतां दिवि भयहृदयं हृदयं कुरुते घनोत्कलिकम् ॥२६॥
कलिकम्पनमघशरणं शरणं चरणद्वयं भजेऽविकलम् ।
विकलङ्कमतिरहं तव हन्त वरद्विरदराजगतिम् ॥२७॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``शृङ्खलाबन्धस्तोत्रं'' नामकं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP