संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम्

स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


ते नाथ जन्म सकलं न कलङ्कयन्ति
न द्रोहकर्मरसिकानपि शङ्कयन्ति ।
तान्सस्पृहं मृगदृशः प्रविलोकयन्ति
ये त्वत्पदाब्जरजसाऽलिकमङ्कयन्ति ॥१॥

ते विद्विषामभिमतं हृदि मोघयन्ति
ज्ञानामृतं च कृपणेषु समर्पयन्ति ।
तेषां वचः क्षितिभुजोऽपि न लङ्घयन्ति
ये त्वां स्तवोक्तिकुसुमर्द्धिभिरर्चयन्ति ॥२॥

ते जन्मनः फलमनल्पमुदञ्चयन्ति
क्लेशापदः स्वमपरं च विमोचयन्ति ।
तान्वैरिणः सहभुवोऽपि न वञ्चयन्ति
ये त्वामनाथजनबान्धवमर्चयन्ति ॥३॥

ते धर्ममिन्दुकरसुन्दरमर्जयन्ति
गीर्भिर्विदग्धहृदयान्यपि रञ्जयन्ति ।
तानन्तकभ्रुकुटयोऽपि न तर्जयन्ति
ये त्वां भवामयहरं हर पूजयन्ति ॥४॥

ते त्वत्स्तुतिं हृदयधाम्नि कवाटयन्ति
दुःखद्रुमं च दृढमापदि पाटयन्ति ।
भावं तवैव भुवि बालमिवाटयन्ति
ये वाङ्नटीमभिमुखं तव नाटयन्ति ॥५॥

ते कर्मरज्जुनिगडं ह्यतिखण्डयन्ति
सूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति ।
त्वद्भक्तिमप्यधिभवाब्धि तरण्डयन्ति
ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥६॥

पापानि तेऽश्मशकलानि व चूर्णयन्ति
गीर्भिर्ब्रुवः सुमनसामपि घूर्णयन्ति ।
लोके निजानि च यशांस्युपकर्णयन्ति
ये धीमतां नुतिकथास्तव वर्णयन्ति ॥७॥

ते मारकानपि न संयति घातयन्ति
कारुण्यतः कृतरुषोपि न यातयन्ति ।
लोकस्य शोकमभयेन च शातयन्ति
ये शेखरं चरणयोस्तव पातयन्ति ॥८॥

ते पापपाश(कर्मबन्ध)मधिकं हृदि कर्तयन्ति
भोगस्पृहां च विषयेषु निवर्तयन्ति ।
सूक्तैः सचेतनमनांस्यपि नर्तयन्ति
ये चन्द्रचूडचरितं तव कीर्तयन्ति ॥९॥

ते जान्मिकानि दुरितान्यवसादयन्ति
सूक्तानि निर्मलमतीननुवादयन्ति ।
गीतानि वैणिकनटानपि नादयन्ति
ये भक्तितस्तव नुतीः प्रतिपादयन्ति ॥१०॥

ते सत्सु कर्मसु रिपूनपि चोदयन्ति
गीर्भिः सतां च हृदयानि विनोदयन्ति ।
तेषां शुचः क्वचन चेतसि नोदयन्ति
ये तावकानि चरितान्यनुमोदयन्ति ॥११॥

ते विग्रहोग्रमनसोपि न खेदयन्ति
मोहं दृढार्गलनिभं हृदि भेदयन्ति ।
स्वं कौशलं मृदुमतीनपि वेदयन्ति
सूक्तानि ये तव निजानि निवेदयन्ति ॥१२॥

ते भेजुषां भवति भक्तिममन्दयन्ति
वाग्वीरुधस्त्वयि रतिं हृदि कन्दयन्ति ।
त्वामन्यदर्शनगतानपि वन्दयन्ति
ये वाग्भरेण हृदयं तव नन्दयन्ति ॥१३॥

ते भुक्तिमुक्तिसफलर्द्धि विवर्द्धयन्ति
सत्कर्म शर्म शमिताधि च साधयन्ति ।
ये त्वां नवैरभिनवैरभिराधयन्ति
यानिक्षुसारमधुरान् सुधियो धयन्ति ॥१४॥

ते सङ्गरे गुरुरुषोऽपि न योधयन्ति
ज्ञानामृतेन हृदयं च विशोधयन्ति ।
रोषोद्भवं हृदि रिपोरपि रोधयन्ति
ये त्वां निजा नुतिकथाः प्रतिबोधयन्ति ॥१५॥

ते दुर्मदान्बुधसदस्यवमानयन्ति
प्रौढान्प्रणम्य विनयेन च मानयन्ति ।
तान्भूतयः स्वयमनन्यसमानयन्ति
ये वासरांस्तव नवैः सशमा नयन्ति ॥१६॥

ते निर्भये नतिमतः पथि यापयन्ति
नोत्कम्पदानपि रिपूनुपतापयन्ति ।
क्लेशापदं पशुसमानपि हापयन्ति
ये त्वां प्रसाद्य दृशमीश्वर दापयन्ति ॥१७॥

ते दुर्मदं शमनमुग्रमदर्पयन्ति
गर्धं च साधुसदनादपसर्पयन्ति ।
दानादिनार्थिनिवहानपि तर्पयन्ति
ये तावके मुकुटमङ्घ्रितलेऽर्पयन्ति ॥१८॥

ते सद्गृहेषु गुरुमापदमल्पयन्ति
स्वं चाशयं शिशयिषोस्तव तल्पयन्ति ।
आर्तिस्पृशामुपकृतीरपि कल्पयन्ति
ये बालकानपि नवं तव जल्पयन्ति ॥१९॥

ते सापराधमनसोऽपि न कोपयन्ति
तापं ह्विया विपुलमापदि गोपयन्ति ।
त्वद्धाम चामलमतीनधिरोपयन्ति
ये नार्चनं तव कदाचन लोपयन्ति ॥२०॥

ते शक्तिमप्रतिहतां भुवि जृम्भयन्ति
प्रीतिं परां कृतमतीनुपलम्भयन्ति ।
वंशत्रयीमपि निजामभिशोभयन्ति
ये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥२१॥

ते मग्नमार्त्तजनमापदि तारयन्ति
बुद्ध्या विमृश्य सदसच्च विचारयन्ति ।
अज्ञानमानतिमतां च निवारयन्ति
त्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥२२॥

ते विद्विषः स्थिररुषोऽप्यनुकूलयन्ति
मोहं महीरुहमिव प्रविमूलयन्ति ।
आज्ञां च मूर्ध्नि महतामवचूलयन्ति
ये भालमङ्घ्रिरजसा तव धूलयन्ति ॥२३॥

ते पङ्कमङ्कगतमात्मनि धावयन्ति
दिङ्मण्डलं च परितः परिपावयन्ति ।
क्लेशान् क्षणात्तृणगणानिव लावयन्ति
ये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥२४॥

ते पीवरीं विपदमोकसि कर्शयन्ति
स्वं कौशलं सुमनसश्च विमर्शयन्ति ।
प्रीतिं सतां च हृदयेषु निवेशयन्ति
ये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥२५॥

ते निर्मलं सुकृतमात्मनि पोषयन्ति
दुष्कर्मकर्दममलं हृदि शोषयन्ति ।
क्रूरान् विरोधबिधुरानपि तोषयन्ति
ये नाम ते शिवशिवेत्यभिघोषयन्ति ॥२६॥

ते विश्वमेव चरितैरभिभूषयन्ति
क्रुद्धान् विरुद्धहृदयाँश्च न दूषयन्ति ।
नात्युद्भटान्यमभटानपि रोषयन्ति
रागेण ये शिव मनस्तव तोषयन्ति ॥२७॥

ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्ति
स्वान्तौकसोऽघभुजगानपि कर्षयन्ति ।
कम्पं विधाय च यमं भ्रुवि धर्षयन्ति
ये त्वां निजै(नवै)र्नुतिपदैर्हर हर्षयन्ति ॥२८॥

ते मौनमुद्रि तगिरोऽप्युपहासयन्ति
गीर्भिर्मुखानि सुधियामधिवासयन्ति ।
विश्वं यशोभिरमलैरभिभासयन्ति
ये मानसं तव नवैः प्रविकासयन्ति ॥२९॥

ते चित्तभित्तिमसतामपि चित्रयन्ति
रोषोद्धतानरिजनानपि मित्रयन्ति ।
सूक्तामृतैश्च भुवमेव पवित्रयन्ति
वाङ्नावि ये तव चरित्रमरित्रयन्ति ॥३०॥

चेतांसि ते सुकृतिनामुपबृंहयन्ति
बाह्यान्तरानसुहृदश्च निबर्हयन्ति ।
नात्मानमानतमरीनपि गर्हयन्ति
ये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥३१॥

आत्मानं ते कलुषकलिले मग्नमुच्चालयन्ति
ज्ञानाम्भोभिर्मलमलिकुलश्यामलं क्षालयन्ति ।
स्मृत्वा च त्वां प्रमदरभसादंसमास्फालयन्ति
त्वद्भक्त्या ये सकलमलसं चित्तमुत्तालयन्ति ॥३२॥

ते रामाणां मनसि मदनं सुप्तमुन्निद्रयन्ति
श्लाघां लब्धुं सदसि च सतां चित्तमुन्मुद्रयन्ति ।
तानुद्वृत्ताः कुटिलमतयो न क्वचिच्छिद्रयन्ति
त्वच्चित्तं ये वरद करुणाक्रन्दितैरार्द्रयन्ति ॥३३॥

ते सभ्यानां सदसि नयनान्यश्रु विस्रावयन्ति
क्रोधोत्कर्षं गुरुमुरुरुषां दूरमुत्प्रावयन्ति ।
चेतः सूक्तैर्मणिमिव सतामैन्दवं द्रावयन्ति
स्वामिन्ये त्वामभिनवनवव्याहृतीः श्रावयन्ति ॥३४॥

तेषां सूक्तीरमलमतयः पूगवच्चर्वयन्ति
क्रूराणां ते मदमभिमुखं प्रेङ्खितं खर्वयन्ति ।
तान्विद्वांसस्तव नवसुधास्वादनायाह्वयन्ति
त्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥३५॥

ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्ति
ग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति ।
तृष्णार्त्तानप्यमृतमधुराः स्वा गिरः प्राशयन्ति
त्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥३६॥

ते रागादीन्मनसि मिलितानाशु विश्लेषयन्ति
क्रोधान्धानप्यतनुविनया न क्वचिद्द्वेषयन्ति ।
मोहध्वान्तं घनमधिमतिव्योम निःशेषयन्ति
त्वत्पार्श्वं ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥३७॥

ते निर्वेदं मनसि शमिनामह्नु तं ह्रासयन्ति
त्रस्तानस्तङ्गमितविपदः शश्वदाश्वासयन्ति ।
त्वद्भावैकप्रवणभणितैरन्तकं त्रासयन्ति
स्तुत्या ये त्वां नतजनहृतत्रासमुल्लासयन्ति ॥३८॥

ते तज्ज्ञानां परिषदि गुणानात्मनः शंसयन्ति
स्वान्ते चान्तर्यमभुजगजं साध्वसं ध्वंसयन्ति ।
क्लेशान्पाशानिव च निबिडानाशु विस्रंसयन्ति
प्रौढानां ये तव नुतिमधिश्रोत्रमुत्तंसयन्ति ॥३९॥

ते त्वद्भक्तिव्यसनमनघं कर्म निर्वाहयन्ति
त्वत्सेवासु स्थिरमविरतं चित्तमुत्साहयन्ति ।
स्वं चाघौघं यममदनवत्त्वद्दृशा दाहयन्ति
त्वां विज्ञप्तिं स्वयमवहितं येऽन्वहं ग्राहयन्ति ॥४०॥

ते तक्षाणं तरुमिव गुरुं त्वामघं तक्षयन्ति
प्राप्तुं तृप्तिं शुभफलभरं निर्भरं भक्षयन्ति ।
प्रत्यासन्नां श्रियमपि धिया तीक्ष्णया लक्षयन्ति
त्वद्भक्तान्ये श्रुतिमिव नुतिं तावकीं शिक्षयन्ति ॥४१॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``स्तुतिफलप्राप्तिस्तोत्रं'' नामकं षट्त्रिंशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP