संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
सिद्धिस्तोत्रं अष्टादशं स्तोत्रम्

सिद्धिस्तोत्रं अष्टादशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


जयति जितविकारः कॢप्तलोकोपकारः
कृतविपदपकारः शान्तमोहान्धकारः ।
अतुलपुरुषकारः प्राप्तविश्वाधिकारः
स्मररचितनिकारः पार्वतीचाटुकारः ॥१॥

अतनुमतनुतामुं प्राणिनां पूर्णशक्ति-
स्तनुभुवनगणं यः शर्मदः कर्मभुक्त्यै ।
दिशमदिशदशङ्कां शास्त्ररूपां च मुक्त्यै
स भवतु भवदोषप्लोषकृद्वो महेशः ॥२॥

अनलसहितवृत्तौ सत्कलाभासशुद्धे
बुधवरमुखपद्मे भारती निर्मलोर्मिः ।
वरद परमतापक्लेशजित्त्वत्प्रसादात्
प्रभवति भवदीये मूर्धनि स्वर्धुनीव ॥३॥

भव भवमरुचारश्रान्तसन्तापतान्ति-
प्रशमनघनवर्षावारिवाहं तवाहम् ।
नमदमरकिरीटप्रोतरत्नांशुपूर-
स्फुरदुरुसुरचापं पादपीठं प्रपद्ये ॥४॥

करकलितकपोला बालशैवालशय्या-
तललुलितमृणालीपेलवम्लानमूर्तिः ।
चिरविरहविनिद्रा रुद्रदृक्पातपात्रं
दिशि दिशि निशि पश्यत्यङ्गनानङ्गभीरुः ॥५॥

हरचरणसरोजद्वन्द्वभक्तिप्रसादा-
दुपरि करिवराणां सञ्चरन्तः सहेलम् ।
घनमदभरनिर्यन्निर्भरामोदलोभ-
स्खलदलिकुलगीतं स्फीतमाकर्णयन्ति ॥६॥

चरणकमलयुग्मं देव निर्दम्भभक्ति-
ग्रहपुलकितदेहस्तावकं यो ननाम ।
अधिवसति स सेवानम्रसामन्तमौलि-
स्खलितबकुलमालालालितं पादपीठम् ॥७॥

शशिशकलशिखण्ड त्वत्प्रसादेन धन्याः
सितकरधवलाभ्यां चामराभ्यां विभान्ति ।
उभयत इव वक्त्रं भाविरुद्रत्वलाभ-
प्रकटनपिशुनाभ्यां स्वर्णदीनिर्झराभ्याम् ॥८॥

क्षितिधरपतिपुत्रीवल्लभ त्वत्प्रसादा-
द्दधति जगति धन्या मूर्ध्नि धौतातपत्रम् ।
घटयितुमधिकत्वं स्वात्मनोऽपि त्वयैत-
त्सकलमिव वितीर्णं मण्डलं शीतरश्मेः ॥९॥

अयि हृदय दयार्द्रः स्वर्धुनीनीरधारी
त्वयि विहरति हस्तन्यस्तपीयूषकुम्भः ।
यदि हिमकरलेखाशेखरः कोऽपरस्ते
भवदवविनिवृत्तौ शंस शीतोपचारः ॥१०॥

सुरवरनुतधैर्या वैरिदुर्वारवीर्या
जगति विविधशास्त्रप्रस्तुताचार्यचर्याः ।
दधति भुवनतन्त्रं कोटिशो रुद्रवर्याः
कृतसततसपर्या ये पुरा शङ्करस्य ॥११॥

गिरि गिरिवरकन्याकान्त शान्तप्रथायां
करचरणगणेऽपि क्षामतामश्नुवाने ।
गलगलदवकाशे वापि कीनाशपाशे
भव भवति विना त्वां प्राणिनां त्राणकृत्कः ॥१२॥

शयशयननिविष्टं वक्त्रमापाण्डुगण्डं
मतिमतिविरहेण ग्लानिभाजं वहन्ती ।
तनुतनुलतिकार्तिं मानिनी व्याहरन्ती
हर हरति न धैर्यं त्वत्समाधौ बुधानाम् ॥१३॥

दलदलघुविवेकं व्यक्तशोकातिरेकं
विश विशदमनन्त स्वान्तमन्तः प्रशान्तम् ।
भव भव भवदाहध्वंसवर्षाम्बुवाहः
कलिकलितरुजानां सप्रजानां प्रजानाम् ॥१४॥

दहदहतममोघं पाप्मनां दीर्घमोघं
रुचिरुचिरममन्दं सुन्दरानन्दकन्दम् ।
दिश दिशदुपदेशं नाशितक्लेशलेशं
मधुमधुरमुदारं वाक्यपीयूषसारम् ॥१५॥

सरति सरतिरन्तर्घस्मरो मारवीर-
श्चलति च लतिकेव स्फीतभीतिर्मनीषा ।
तमहितमहिमानं नाथ निक्षिप्य चक्षुः
शमय शमयमेति प्रीतिमान्येन लोकः ॥१६॥

जघनजघनशोभा स्पर्धमाना सभृङ्गं
कमलकमलकान्तक्रान्तभासा मुखेन ।
मुदितमुदितरागा सेवते देव रामा
मदनमदनवीनैस्त्वत्प्रपन्नं विलासैः ॥१७॥

जनितजनितरङ्गं जृम्भयन्ती भवाब्धिं
कलितकलितमिस्रा नाथ कादम्बिनीव ।
हरति हर तितिक्षोन्माथिनी मोहमूर्च्छा
महितमहितवृद्धिः शुद्धबोधप्रकाशम् ॥१८॥

भजति भज तिरश्चीं दृष्टिमिष्टप्रसादां
कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् ।
तिरयति रयमीश व्यापदां दुःसहानां
शमनशमनदक्षं त्वां विना नाथ कोऽन्यः ॥१९॥

समरसमरजोभिः स्वान्तमन्तर्वहद्भि-
र्हितविहितवियोगं मोहमाहन्तुकामैः ।
भवविभवविमुक्तैर्योगिभिर्योऽभ्युपेत-
स्तमहतमहनीयश्लाघमीशं प्रपद्ये ॥२०॥

अकलितमहिमानं ध्वस्तमिथ्याभिमानं
दददमृतसमानं बोधमाभासमानम् ।
प्रकटितलघिमानं दुर्वहं वर्धमानं
भवभवमवभानं भिन्द्धि मे बाधमानम् ॥२१॥

किमिव मणिभिः किं वा मन्त्रैः किमौषधिसङ्ग्रहै-
रिह बहुविधैः किं वा कार्यं परैरपि भेषजैः ।
अमृतमपि न प्रायः पापोपतापशमक्षमं
व्रजत शरणं तस्मादेकं हरं करुणापरम् ॥२२॥

इह हि गिरिषु प्रालेयाद्रिर्महःसु विभावसु-
र्गुरुषु जननी मन्त्रेष्वेकाक्षरं परमं पदम् ।
सखिषु सुकृतं वैरिष्वंहो नदीषु नभोनदी
प्रभुषु च परः स्वामी देवः शशाङ्कशिखामणिः ॥२३॥

न यावदवहीयते धृतिधुरा जराविप्लवै-
र्न जीर्यति सरस्वती न च विशीर्यते शेमुषी ।
न चामयभुजङ्गमैरवशमङ्गमालिङ्ग्यते
भजध्वमजरं विभुं भवजयाय तावद्बुधाः ॥२४॥

अराणि करुणं मुहुर्मुहुरकारि चाटु प्रभो-
रभावि भवभावनामुदितचेतसान्तर्मुहुः ।
अलोठि मुकुटं मुहुश्चरणपीठिकाविष्टरे
किमन्यदखिलं जितं करतले कृताः सिद्धयः ॥२५॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``सिद्धिस्तोत्रं'' नामाष्टादशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP