संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| मङ्गलाष्टकं चतुर्थं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति मङ्गलाष्टकं चतुर्थं स्तोत्रम् Translation - भाषांतर श्रीकम्बुकौस्तुभसुधांशुविषामृतानांसौदर्यसौहृदसुखानुभवैकधाम ।यत्सत्यधर्मकृतनिष्प्रतिघप्रतिष्ठंतन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥१॥आपीडबन्धनविधौ शयने च वर्ष्मपर्याप्तभोगविभवं बहुमन्यमानः ।यत्र प्रहृष्यतितरामुरगाधिराज-स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥२॥अर्धं यदुत्पलदलैरुमयेन्दुगौर-मर्धं श्रियार्चितमलिद्युति मालतीभिः ।विच्छित्तिमेत्यनिमिषेक्षणशुक्तिपेयांतन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥३॥केशाश्रिता नयनवह्निशिखाभ्रसिन्धु-झाङ्कारगर्भवपुषो जलदा वहन्ति ।यत्राद्भुतं स्थिरतडिद्रसितप्रसङ्गंतन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥४॥हीनार्धनाभिनलिनालयसङ्कटत्व-सातङ्कसङ्कुचितवृत्तिकदर्थिताङ्गः ।अर्धीचिकीर्षति तनुं द्रुहिणोऽपि यत्रतन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥५॥दृग्वर्तिनौ रवितमीरमणावखण्ड-मूर्ती निजं च वपुरर्धमवेत्य वह्निः ।यत्राधिकं ज्वलति लाघवमागतोपितन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥६॥यस्मिन् गुणी सहृदयः सफलः समूलःस्वातन्त्र्यधामनि करात् पतितः स पद्मः ।कम्बुः स्थितस्तु धृततद्विपरीतरीति-स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥७॥पादाग्रनिर्गतमवारितमेव वारियत्राधिरोहति शिरस्त्रिदशापगायाः ।अत्यद्भुतं च रुचिरं च निरङ्कुशञ्चतन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥८॥इति काश्मीरकमहाकविश्रीजगद्धरविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``मङ्गलाष्टकं'' नाम चतुर्थं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP