द्विपदयमकं चतुर्विंशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
वचसि सरस्वति मे विभवं प्रकटय जातरसारम् ।
नुतिभिरुपस्तुहि देवि भयं सकलसुरान्तरसारम् ॥१॥
अविरलभस्मरजोधवलं विहितमहाशमलाभम् ।
भज भगवत्यगजाधवलं श्रमशमनं विमलाभम् ॥२॥
दातुमनुत्तमहावपुषं यः प्रबभूव नदीनम् ।
नाथमनुत्तमहावपुषं तं भज देवि न दीनम् ॥३॥
भक्तिरसस्तव देव सतां जयति महामृतहृद्यः ।
चरणतले भवतो वसतां कलिमलपल्वलहृद्यः ॥४॥
नयनमुदीर्य तमो हर मे निहतमहाविषमेषु ।
येन पुनर्हतमोह रमे वैरिषु नो विषमेषु ॥५॥
त्वयि वरदे रुचिरप्रमदाः प्रचलितचामरहस्ताः ।
सदसि भजन्ति जनं प्रमदा रमयति सोऽपि रहस्ताः ॥६॥
हिमकरकिरणसमूहसितं सुरसरिदम्बुविडम्बि ।
वह भगवन् वदने हसितं मा भवतात्र विडम्बि ॥७॥
उपमितमन्मथचापलतां भ्रुवमवधूय सहेलम् ।
रविजदृशां घनचापलतां विघटय ता न सहेऽलम् ॥८॥
रविसुतवर्त्म मम स्मरतः श्रुतयमकिङ्करवाणि ।
दलति विभो हृदयं दरतः पुरहर किं करवाणि ॥९॥
प्रथयति यस्तव हन्त महं नुतिवचसा रुचिरेण ।
शुभशतसिद्धिसहं तमहं शिरसि वहाम्यचिरेण ॥१०॥
भवभयभञ्जनभङ्गिविधौ भक्तिमतां प्रभवन्तम् ।
विहितहितं विधुरेऽपि विधौ भजत जगत्प्रभवं तम् ॥११॥
मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् ।
भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥१२॥
वितर नदीरमणं शमनं शकलय खण्डय कामम् ।
प्रथय धनञ्जयभयशमनं रचय पुरं हतकामम् ॥१३॥
इति सदयेन यदाचरितं भुवनहिताय हरेण ।
भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥१४॥
गतिरशुभं हर का तरतां भवति विनाश भवन्तम् ।
इति चतुरं हर कातरतां रचय च मां शुभवन्तम् ॥१५॥
वरद भवन्तमृते धरते भुवनमिदं सकलं कः ।
इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥१६॥
इयमखिलेतरजातिमतां जयति जनिः प्रथमा नः ।
सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥१७॥
तुभ्यमयं शितिनाल सतां वरद करोमि नमोऽहम् ।
शमय महेश ममालसतां येन भजामि न मोहम् ॥१८॥
भजसि यया किल कामदया नतजनमीश समस्तम् ।
सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥१९॥
येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण ।
तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥२०॥
मदयसि येन जनं सकलं मधुरगिरा वदनेन ।
मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥२१॥
येन सतां विपदानयनं दुरितमदभ्रमहारि ।
दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥२२॥
जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन ।
इममपि किं न जनं दयसे तेन तुषारसितेन ॥२३॥
दुरितहृतौ विषसाद करः क्वापि न ते रमणीयः ।
अपि स भयं विषसादकरः शमयतु घोरमणीयः ॥२४॥
भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् ।
मामपि पाहि महाभयतः पुरहर कातरसत्त्वम् ॥२५॥
भजामि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् ।
विजित्य कृत्यप्रभवं भवं भवं विखण्डितक्लेशपरम्परं परम् ॥२६॥
मलक्षयमलक्षयं भव भवत्प्रसादादहं
शिवस्तव शिव स्तवः प्रविहितस्ततोऽयं मया ।
समुद्धर समुद्धर व्यसनसङ्कटादर्कजः
समक्षमसमक्षमः स्पृशति चेन्न जिह्वेषि किम् ॥२७॥
सन्त्यन्याः कृतिनामनामयगिरः का नाम नामन्थरा
न ज्ञानां हृदि वास्तवास्तव मुदं के वा स्तवास्तन्वते ।
वागेषा त्वतिसाध्वसाध्वपतिता यत्साध्वसाध्वभ्यधा-
त्तन्मन्ये महिमानमानयति ते स्थेमानमानन्दकृत् ॥२८॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वर्स्य स्तुतिकुसुमाञ्जलौ
``द्विपदयमकं'' नाम चतुर्विंशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP