संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| कृपणाक्रन्दनं नवमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् कृपणाक्रन्दनं नवमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति कृपणाक्रन्दनं नवमं स्तोत्रम् Translation - भाषांतर दीपोत्करैरविरुचां परिपूरणेयंनीहारवारिभिरिदं भरणं पयोधेः ।अस्मादृशां मितदृशां नियतैर्वचोभिःप्रस्तूयते भव तव (तव भव)स्तवचापलं यत् ॥१॥अत्राऽपराध्यति गिरो हर धृष्टतेय-मेषा निसर्गमुखरा मुखरागिणी यत् ।प्रौढिं परामनुपयत्यपि वाञ्छति त्वांस्वामिन् हठादिव परं पुरुषं गृहीतुम् ॥२॥यद्वा भवत्यसुलभो भवदाश्रितस्यशस्यः स कोऽपि महिमा न हि मादृशोऽपि ।स्वच्छन्दमन्दमपि यत्र पदं त्वदुक्षाधत्ते मही भवति हेममयी हि तत्र ॥३॥भीष्मो विषादपि विषादपिनद्धमेत-च्चेतश्चकार सविकारमकारणारिः ।मोहामयस्तमयमस्तमयं नयामिस्वामिँस्तव स्तवरसायनसेवनेन ॥४॥एषः स्तवस्तव नवप्रमदोपदेश-मादेशयञ्जयति कोऽपि गुरुर्गिरीश ।सद्यः पुरः स्फुरति मे दुरतिक्रमेणयत्सङ्कमक्रमवशेन वचोधिदेवी ॥५॥नास्य स्पृहाऽस्ति सरसाय रसायनायनाऽयन्त्रितेन्दुवदनावदनाऽमृताय ।निर्बन्धमेति तु भवत्सविधे विधेहिनिर्बन्धमन्धकरिपो तदिदं मनो मे ॥६॥आभाति शक्रनगरी न गरीयसी मेप्रीतिं च सिञ्चति न काञ्चन काञ्चनाद्रिः ।जाने परं हर शरण्यमरण्यमेवयत्र त्वदङ्घ्रिनलिनार्चननिर्वृतिः स्यात् ॥७॥पुष्पेषु दोहदवशादवशा(शं)भृशं याबभ्राम वामनयनाभुजमञ्जरीषु ।सा साम्प्रतं दृगलिनी वलिनी(नीं)व्यनक्तित्वद्भक्तिकल्पलतिकाफलभोगतृष्णम् ॥८॥किं निर्मिता मुकुटचन्द्रकलां निपीड्यकिं वा शिरःशरणनिर्झरिणीजलेन ।किं वा करस्थकलशामृतसम्प्लवेनभक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥९॥स्वामिन्विचित्रचरितस्य तवाऽपदान-गीतामृतेषु दृढरूढरतिर्ममेयम् ।दूरीकृताऽन्यसरणिर्हरिणीव वाणीसत्यं पदात्पदमपि क्षमते न गन्तुम् ॥१०॥आश्वासनं यमभयाकुलतामृतानांसञ्जीवनं भवदवव्यथया मृतानाम् ।आलम्बनं सुकविराजगिरामृतानांसङ्कीर्तनं जयति ते चरितामृतानाम् ॥११॥दानं तरङ्गतरलः किल दुग्धसिन्धु-र्मुक्तिः करालतरकालभयात्प्रसादः ।त्यागोऽपि सप्तदिवसानि सुवर्णवृष्टिःकिं किं न चारुचरितं भवतः प्रशस्यम् ॥१२॥स्वामिन् रजःपरिचितं चपलस्वभावंजात्या मलीमसमिदं हृदयं मदीयम् ।त्वत्पादपद्मविषये कृतपक्षपातंधत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥१३॥त्वां वामदेवमपि दक्षिणमाश्रितेषुसर्वत्र शङ्कर वसन्तमपि स्मरारिम् ।अप्यन्तकोपशमहेतुमनन्तकोप-शान्त्येककारणमचिन्त्यगतिं श्रयामि ॥१४॥क्वापि प्रसीदसि दिशन्विशदं प्रकाशंक्वापि प्रयच्छसि घनावरणोपरोधम् ।कुर्मः किमत्र महनीयमहामहिम्नोनास्त्येव नाम नियतिर्नभसः प्रभोश्च ॥१५॥चित्तं नतापदुपतापहृतिप्रवृत्तिंभीताऽभयार्पणपणप्रवणां च वाणीम् ।लोकोपकारपरतन्त्रमिदं वपुश्चकस्त्वत्परः परमकारुणिको बिभर्ति ॥१६॥चित्तं विषादमगमन्न परं प्रसाद-मौज्झद्विचारमुचितं न बहिः प्रचारम् ।लेभे न कुत्र विवरं प्रवरं न बोध-मेतत्त्वयैव भगवन्धृतविप्रयोगम् ॥१७॥अश्रान्तमान्तरमशान्तरजोविकारंसारङ्गकेतुमुकुटस्फुटमन्धकारम् ।युक्तं यदन्धयति यद्बधिरीकरोतिकोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥१८॥लीलाविलोलललनानयनान्तवास-मासाद्य यः क्व न भनक्ति मनस्विनोऽपि ।सोऽयं निविश्य विमले हृदये मदीयेधिङ्मर्ममर्म न भिनत्ति कथं मनोभूः ॥१९॥स्वामिन्नसन्तमिव तत्र वसन्तमेवसत्वामवैति किमिदं यदि वा किमन्यत् ।दग्धोऽपि यं पुनरवाप्य बिभर्ति गर्वंसर्वङ्कषो विजयते स तव प्रसादः ॥२०॥श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि-कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् ।उद्यन्नवीनकदलीदलसौकुमार्यंबिभ्रत्यनङ्गनटमङ्गलरङ्गमङ्गम् ॥२१॥फुल्लारविन्दवदना विकसच्छिरीष-मालाभुजाभिनवनीलसरोजनेत्रा ।ब्रह्मास्त्रमप्रतिहतं विहिता हितायपुष्पायुधस्य कुसुमैरिव माधवेन ॥२२॥नाथेति जीवितहरेति दयापरेतिसप्रेमकोपमतिकोमलमालपन्ती ।गाढानुरागविवृताखिलगूढभाव-मावर्जयन्त्यविषयैर्वचसां विलासैः ॥२३॥किंवा परं कुपितनिर्घृणपञ्चबाण-बाणौघभिन्नहृदया परिरभ्य गाढम् ।मुग्धाजनस्य सहजामवजित्य लज्जा-मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥२४॥आक्षिप्तसिन्धुमथनोत्थमहामृतौघ-भावत्कभक्तिरसपारणनित्यतृप्तम् ।प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यंन त्वत्परं हरति सा हरिणेक्षणाऽपि ॥२५॥हेलावलन्मलयमारुतकम्पितानांशीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् ।वृत्तिर्हरस्मरणघूर्णितचेतसः क्वदीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥२६॥नेत्रत्वमीश तव मूर्तिविलोकनेषुवाक्त्वं भवच्चरितचर्वणविभ्रमेषु ।त्वत्सङ्कथाश्रवणकर्मणि कर्णभाव-मिच्छन्ति गन्तुमपराणि (इतराणि)ममेन्द्रियाणि ॥२७॥यच्छत्रचामरसिता कृतिनां विभूतिःसः स्वल्प एव भगवन् भवतः प्रसादः ।त्वत्साम्यमेव (तत्साम्यं)तु सतामधिकस्ततोऽपियद्वल्कलं च वसनं विपिनं च वासः ॥२८॥त्वत्पादपङ्कजरजश्छुरितौ च पाणीवाणी भवच्चरितचर्वणगर्विता च ।चित्तं भवद्गुणगणस्मरणव्रतं चभूयो भवन्ति मम चेदहहास्मि धन्यः ॥२९॥भिक्षाशनोऽपि भगवंस्त्वमकिञ्चनोऽपिजीर्णश्मशाननिलयोऽपि दिगम्बरोऽपि ।किं वा परं वरद घस्मर भस्मरूक्ष-गात्रोऽपि सन्मम विभुः प्रतिजन्म भूयाः ॥३०॥याचे न किञ्चिदपरं वसतिर्गिरीन्द्रेकैलासनाम्नि भवदध्युषिते ममास्तु ।किं वा न तत्र भगवन् मम ये सखाय-स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गाः ॥३१॥वाचाममी न विषये विषयेषु येषुतृष्णाऽन्वभावि विषमा विषमाकिरन्ती ।तन्मां भजोज्ज्वलविलोलविलोचनान्त-विन्यासभासुरसुधारसुधारसेन ॥३२॥नानुग्रहस्तव विना त्वयि भक्तियोगंनानुग्रहं तव विना त्वयि भक्तियोगः ।बीजप्ररोहवदसावनयोर्न कस्यभूत्यै परस्परनिमित्तनिमित्तिभावः ॥३३॥शान्तं मनो यदि यमैर्नियमैः किमन्यै-र्वाणी यदि प्रियहिता स्तुतिचाटुभिः किम् ।कारुण्यमस्ति यदि किं व्रतहोमदानै-र्भक्तिर्भवे यदि किमन्यसुखाभिलाषैः ॥३४॥भुक्तं विकल्पकवलैः सुरलोकसौख्य-मालोकिता विविधशास्त्रदृशैव मुक्तिः ।पीता सुधा श्रवणशुक्तिपुटैः समक्ष-मास्वादिता पुनरियं शिवभक्तिरेव ॥३५॥दीर्घाण्यघान्यधिशुचीव भवन्त्यहानिहानिर्बलस्य शरदीव नदीजलस्य ।दुःखान्यसत्परिभवा इव दुःसहानिहा निःसहोऽस्मि कुरु निःशरणेऽनुकम्पाम् ॥३६॥निर्भर्त्सितो विपदि बन्धुरिवाऽभिमानीमा नीरसं स्पृशतु नाम मनो विवेकः ।विद्यां निदाघ इव घर्मरुचिर्हिमानी-मानीयनाशमुपतापयते तु मोहः ॥३७॥तस्मादुपैति न तनुस्तरसाऽवसायंसायन्तनी प्रतिपदिन्दुकलेव यावत् ।तावत्कृपां कुरु हतोऽस्म्यहमंहसाऽयंसा यन्त्रिता मयि तवास्तनयेन येन ॥३८॥अभ्येति मृत्युभटसंहतिरस्तकम्पाकम्पामहे मनसि यां विनिवेशयन्तः ।एका गतिर्गिरिश तत्र तवानुकम्पाकम्पात्रतां नयति या न शुभोदयानाम् ॥३९॥यन्निःस्पृहोप्यजनयस्तनयं कुमारंमारं विधाय शलभं नयनानलस्य ।तत्ते परार्थमिति विश्रुतमाकुमारंमा रंहसा जहिहि देहि तदेहि वाचम् ॥४०॥सर्वस्वमेव मम दत्तमहाप्रहाराहारामलं हर हरन्त्यरयो विवेकम् ।रक्षाकरी तव कृपाऽत्र कृताऽवहाराहा राजशेखरमणेः पुरतो हतोऽहम् ॥४१॥देवालये वसतिमर्थयते कपोतःसिन्धौ वणिग्भजति वृत्तिमशङ्कपोतः ।पृष्ठे श्रियं वहति नित्यमनेकपोऽत-स्त्वद्भक्तिमेमि सरसीमिव भेकपोतः ॥४२॥लब्धा धृतिर्दिवि कदाचन वासवेनसैन्येन सा परिवृतेन न वासवेन ।नो वा बलेन भुवि पीतनवासवेनत्वां भेजुषो भवति याऽभिनवा सवेन ॥४३॥या दुर्लभा दिवि महर्षभयान कस्यकालस्य या निधनधाम भयानकस्य ।वाचा तया कृतनतेरभयानकस्यतुल्यश्रियाऽर्पयसि शं शुभया न कस्य ॥४४॥यं वीक्षसे क्षतमहाकलिकाल सन्तंक्लिष्टं कृतीकृतबृहत्कलिकाल सन्तम् ।इन्दोरिवाऽमृतमयी कलिका लसन्तंबालाऽवलोकयति सोत्कलिकालसं तम् ॥४५॥मुक्तावलीव रहिता शिव नायकेनमुक्ता भवद्गणसभेव विनायकेन ।वाणी त्वया परिहृताऽखिलनायकेनसम्भाव्यते हृदयसंवननाय केन ॥४६॥यस्योचितः प्रथितमान समाधिनान्त-स्तेनार्तिमुद्वहति मानसमाधिनान्तः ।शुद्धां मतिं स्पृशति पांसुलभावलेप-स्तत्राप्युपैषि न कृपां सुलभावलेपः ॥४७॥कामं भवेऽत्र बहवः सुभगस्वभावाभावा भवन्तु मम तु द्वितयं स्पृहायै ।शब्दार्थपाकरुचिरा कविराजगीर्वागीर्वाणसिन्धुधरभक्तिरभङ्गुरा वा ॥४८॥ज्योत्स्नाछटाभिरिव देव चकोरकस्यभास्वत्प्रभाभिरिव पङ्कजकोरकस्य ।दैवीभिरद्भिरिव बर्हिकिशोरकस्यप्रीतिर्न ते नुतिकथाभिरघोर कस्य ॥४९॥वृत्तं क्व ते सकलवाङ्मनसातिवृत्तंचेतः स्खलद्गति भवावरणात्क्व चेतः ।वित्रासवन्तमिति मामनुदत्पवित्राभक्तिः स्तुतिस्तव कृतेयमतः सुभक्तिः ॥५०॥वन्दामहे च विविधं विवदामहे चलज्जामहे च कलुषाणि भजामहे च ।ईहामहे च कुवचांसि सहामहे चदह्यामहे च दुरितैर्जठरस्य हेतोः ॥५१॥लब्धं चिरेण सुकृतैरचिरस्थिरं चमानुष्यकं पुनरिदं सुलभं च चेति ।जानीम एव च न च स्वहितं विधातु-मीहामहे वयमहो बत यद्भविष्याः ॥५२॥तस्मादवश्यमवशानविशङ्कमेवभोगोपभोगरसिकानसमाप्तकृत्यान् ।यावन्न धीवर इवैत्य तिमीनकस्मा-न्मृत्युः क्षणादशरणान् हरते हठेन ॥५३॥तावत्प्रसीद कुरु नः करुणाममन्द-माक्रन्दमिन्दुधर मर्षय मा विहासीः ।ब्रूहि त्वमेव भगवन् करुणार्णवेनत्यक्तास्त्वया कमपरं शरणं व्रजामः ॥५४॥जातस्य मृत्युरिति चेत्स न लङ्घितः किंश्वेतेन शीतकरशेखरनन्दिना च ।ताभ्यामसौ यदि जितो विपुलैस्तपोभि-रस्माकमल्पतपसां त्वनिवार्य एव ॥५५॥तर्ह्यर्चनान्तसमये तव पादपीठ-मालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः ।निद्रानिभेन विनिमीलितलोचनस्यप्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥५६॥एतेन किं निविडबन्धभृतो भुजङ्गाःकिं वा न वक्रिमविलासविकासभाजः ।किन्तु क्रमादपचिताः पदगुम्फहीनाःसूक्तामृतानुकरणे कथमुत्सहन्ते ॥५७॥तस्माद्भयङ्करमदः फणिकर्णपूर-हेवाकदुर्ललितमस्तनयं विहाय ।स्वामिन्निमाः श्रवणयोः प्रणयोपचार-गर्भा गिरश्चतुरमाभरणीकुरुष्व ॥५८॥स्वामिन्नबन्धवतया वत या तवेयंवाणी मया निजगदे जगदेकबन्धोः ।तामन्तकान्तकर शङ्कर शंसतो मेकर्णे कुरुष्व करुणां करुणाम्बुराशे ॥५९॥पश्यन्तमन्धमभिमानिनमस्तमानंविस्तीर्णकर्णमपि या बधिरं करोति ।साऽऽर्त्तिर्न नर्तयति किं कुनृणामिव श्रीःतस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥६०॥उच्छृङ्खलं खलमलङ्घ्यबलं ज्वलन्त-मन्तः कृतान्तमविकल्पमनल्पदर्पम् ।आशङ्क्य शङ्करचरित्रपवित्रचित्र-सूक्तिष्वपि स्थिररुषं प्रतिबोधयामः ॥६१॥प्रत्यग्रकर्कशमशल्कमुदर्कपथ्यंतथ्यं सतोषमपदोषमरोषपोषम् ।सन्धित्सवस्तव कृतान्तहितं मितं चयद्ब्रूमहे तदवधारय सावधानः ॥६२॥अन्यत्र दर्शय निरङ्कुश हुङ्कृतानिकीनाश नाशय दुराशय माऽभिमानम् ।नाथीकृतेन्दुमुकुटानपि नाम मन्येनिर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥६३॥येनेश्वरेण महता विहितागसस्तेकृत्वाऽपि शासनमकारि पुनः प्रसादः ।तत्सेवका वयमतस्तव विद्विषोऽपियद्ब्रूमहे हितमदो मनुषे रुषेति ॥६४॥रे दुर्विनीत खल काल पुरा पुरारे-र्यामाप्तवानसि निजाविनयप्रशास्तिम् ।श्रुत्वैव तां धृतिमतामपि कम्पमेतिचेतः कथं पुनरुपक्रमसे तदेव ॥६५॥पाणौ निधेहि पवनाशनपाशमाशुनास्तीह ते पुरुषपाश रुषोऽवकाशः ।निःसङ्करेषु शरणीकृतशङ्करेषुरे काल कातरभयङ्कर किं करोषि ॥६६॥व्यापारय स्वपुरुषं पुरुषं परेषुमा रोषमङ्कुरय शङ्करकिङ्कराणाम् ।किं विस्मृतं विषधरायुध निर्निरोध-क्रोधप्रबोधपटहं हरहुङ्कृतं ते (तत्)॥ ६७॥कीनाश बालिश निरङ्कुश निर्विमर्शनिस्त्रिंश निष्करुण निःशरणेषु चेत्त्वम् ।निष्कारणं निरनुरोध करोषि रोषंतत्किं चिकीर्षसि महेश्वरसंश्रितेषु ॥६८॥कुर्वन् विरोधमनिरोधमबान्धवेषुधत्से मुधा यम समुद्धतकन्धरत्वम् ।तीव्राऽपराधविधुरेष्वपि साधवो हिबाधां विधातुमधमेष्वपि न क्षमन्ते ॥६९॥यत्प्राणिषु प्रभवसि प्रसभं प्रहर्तुंप्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् ।तत्प्राक्कृतस्य दुरितस्य दुरुत्तरस्यतेषां फलं तव किमन्तक पौरुषं तत् ॥७०॥तत्तथ्यमेव किमकारणकण्टकं त्वांयद्धर्मराज इति काल जनाः स्तुवन्ति ।लोका न किं जगदमङ्गलमूलकोषंशंसन्ति मङ्गलविहङ्गम इत्युलूकम् ॥७१॥त्वां जीवितेश इति यत्स्तुवते रुदत्यःकापालिकाः शवदहो गुरवो द्विजाश्च ।तद्युक्तमन्तक यतः परमः सुहृत्त्वंतेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥७२॥क्लिश्यन्त्यवश्यमपमार्जनभूतयाग-निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः ।ये दैशिकाः परमकारुणिकाः परार्थेत्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥७३॥देशं न यत्त्यजति सन्तमसन्तमन्तंध्वान्तं नयंस्तव पिता समवर्त्यतोऽर्कः ।त्वं सत्स्वसत्स्वपि समं प्रहरस्यतोऽपिसद्यः स्तुवन्ति समवर्त्तिनमन्तक त्वाम् ॥७४॥कोपं विधाय तव येन कृतः प्रसाद-स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् ।किं तत्र वर्तयसि मां समवर्त्यतोऽपित्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥७५॥भालस्थलानि कलयस्यमलेन्दुमौलि-पादारविन्दमकरन्दसितानि येषाम् ।त्वं मानवानसि विमानय मा नयज्ञतन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥७६॥दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वंयद्वा यमोऽस्यधमसंयमनात्तदन्यत् ।मन्ये मदं शमयितुं प्रभवस्तवैवत्वामेव वा यमयितुं भवभक्तिभाजः ॥७७॥उद्वृत्तमन्तक नृशंस भृशं सगर्वशर्वस्तवव्यवसितेष्वपि चेष्टसे यत् ।तद्भावि भाविभवभैरवभैरवोग्र-भालानलोद्भवपराभवकृत्पुनस्ते ॥७८॥किं वाऽन्यदर्कज विशङ्क विशङ्कटास्यहास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् ।तन्मा कृथा न हि तवाश्रितवत्सलोऽसौसानुग्रहोप्यनुचितं क्षमते महेशः ॥७९॥भालस्थलीव तिलकेन वधूकटाक्ष-विक्षोभितेन तिलकेन वनावलीव ।विज्ञप्तिरेणतिलकेन विभावरीवशोभां वसन्ततिलकेन बिभर्त्ति शम्भोः ॥८०॥वासः क्षीणदशं वयश्च करणग्रामं मनश्चाऽक्षमंनिःसारेषु दुरीश्वरेष्वपचितेरुद्वेगमङ्गेष्वपि ।व्यर्थं वेश्म नृजन्म चाखिलमिदं कल्याणशून्यं वपुःकोषं चोद्वहतः कुरुष्व करुणां चित्ते गिरं च श्रुतौ ॥८१॥अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणी-श्चाटूक्तीः प्रभवामि यामि भवतो याभिः कृपापात्रताम् ।आर्तेनाऽशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोःकृत्वा सत्वरमेहि देहि चरणं मूर्धन्यधन्यस्य मे ॥८२॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``कृपणाक्रन्दनं'' नाम नवमं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP