करुणाक्रन्दनं दशमं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
जयति चित्तचकोरकचन्द्रिका
सुकृतिनां वदनाब्जरविच्छविः ।
श्रवणबर्हिणवर्षणवर्तनी
हरिणकेतुकलामुकुटस्तुतिः ॥१॥
जयति भक्तिलतानवमाधवः
सुकृतपादपपक्वफलोद्भवः ।
विपदुपद्रवविक्लवबान्धवः
सुकविसूक्तिवधूवदनासवः ॥२॥
भवमहार्णवनिस्तरणप्लवः
प्रवरसूरिमयूरघनारवः ।
हृदयदाहहृतावमृतद्रवः
कुमुदिनीरमणाभरणस्तवः ॥३॥
मधुरमिन्दुमुखीवदनादपि
क्लमहरं सुरसिन्धुजलादपि ।
त्रिभुवनाधिपतिस्तुतिपावनं
जयति सत्कविसूक्तिरसायनम् ॥४॥
नवनवभ्रमरस्वनशोभिनी
भवमरुभ्रमघर्मशमक्षमा ।
हृदयनन्दनचन्दनकन्दली
जयति शङ्करभक्तिरभङ्गुरा ॥५॥
अथ कथञ्चन रूढमपि क्षणं
मनसि वीक्ष्य विवेकनवाङ्कुरम् ।
बहुविधव्यसनौघविघट्टितं
सपदि विज्ञपयामि जगद्गुरुम् ॥६॥
अपि जगद्विदितः करुणापरः
परहिताऽऽहितमूर्त्तिपरिग्रहः ।
किमिति हंसि न हंस हृदम्बुजे
कृतपदो विपदः शरणार्थिनाम् ॥७॥
यदि भवान् विदधीत हृदि स्थितिं
व्यसनसम्पदसौ प्रसरेत्कथम् ।
यदि न सा प्रसरेत्प्रसजेत्कथं
बुधजनोऽप्यसमञ्जसकर्म्मसु ॥८॥
इह बृहद्भिरुदग्रपरिग्रह-
ग्रहगृहीतमतिर्व्यसनोद्गमैः ।
यदि न कातरतां परतन्त्रता-
मफलतां खलतां च भजेज्जनः ॥९॥
यदि भजेत न सज्जनसङ्गम-
व्यसनसर्पदनल्पकृपास्पदम् ।
हृदयमिन्दुमयूखसुखाहति-
व्यतिकरद्रुतचन्द्रमणिश्रियम् ॥१०॥
अभिलषेयुरनर्गलदुर्गति-
प्रसरदीर्घनिदाघनिपीडिताः ।
यदि घनागमवन्न धनागमं
प्रणयिनस्तृषिता हरिणा इव ॥११॥
यदि न पीनघनस्तनभङ्गुर-
त्रिवलिभङ्गितरङ्गितमध्यमाः ।
इह हरेयुरपाङ्गविलोकितैर्धृत-
रतिप्रमदाः प्रमदा मनः ॥१२॥
बलवदिन्द्रियतस्करसङ्कुले
विषयभीमभुजङ्गमभीषणे ।
दुरितदीर्घदवानलदुःसहे
बहलमोहतमोहतसंविदि ॥१३॥
कृतधियोऽपि भवाध्वनि धावतः
प्रबलकर्मरयापहृतात्मनः ।
अवसरे प्रहरेयुरमी न चे-
न्मदन मानमुखाः परिपन्थिनः ॥१४॥
उपचितोऽभिनवाम्रदलावली
कवलनाकुलकोकिलकूजितैः ।
यदि न तर्जयितुं प्रभवेन्मधौ
मदनदिग्विजयोद्यमडिण्डिमः ॥१५॥
यदि मधौ मधुपानमदोन्मद
भ्रमरगायनगुञ्जितगीतयः ।
सुखलवानुभवाय कृतस्पृहं
हर हरेयुरिमं न मनोमृगम् ॥१६॥
अभिनवस्तवकस्तनसन्नताः
पवननर्तितपल्लवपाणयः ।
यदि न बन्धनिबन्धनमृध्नुयु-
र्मधुपगुञ्जितमञ्जुगिरो लताः ॥१७॥
यदि शुचौ मनसीव न मानिनां
घनमनेहसि तापमुपावहेत् ।
सरजसो हरितस्तरुणैः करै-
रविरलं परिरिप्सुरहर्पतिः ॥१८॥
पृथुलसज्जघनोरुपयोधरा
गुरुमरुच्चपलाकुलिताम्बराः ।
यदि भवेयुरिमा न घनागमे
मृगदृशश्च दिशश्च धृतिच्छिदः ॥१९॥
सुरभिगन्धिसहासमुखाम्बुजा
धृतमनोहरहंसकविभ्रमाः ।
यदि न मज्जनधाम नतभ्रुवः
शरदि संस्मरयेयुरगापगाः ॥२०॥
यदि न दीर्घतमाः समवाप्नुयुः
सहसि दुर्विषहोल्बणवायवः ।
धृतघनोष्मबृहत्तरुणीस्तन-
स्मरणकारणतामपि रात्रयः ॥२१॥
यदि भवेन्न घनावरणोद्गम-
ग्लपितधामनि घमनिधौ बहिः ।
तपसि चेतसि च व्यसनाकुले
तपसि रूढरसोऽप्यलसो जनः ॥२२॥
तदखिलापदुपोद्धरणक्षमं
समधिगम्य दुरापमिदं पुनः ।
पवनवेल्लितबालमृणालिनी-
दलचलज्जलबिन्दुनिभं वपुः ॥२३॥
भव भवत्पदपङ्कजपूजन-
व्यसनसौमनसीमपहाय कः ।
इह सहेत विभूतिलवोन्मिष-
न्मदकदर्यविकारकदर्थनाम् ॥२४॥
इदमुदञ्चति मेघमयं महत्
पिहितभास्वदमन्दमहस्तमः ।
घनबलोऽपि स काल उपस्थित-
स्तदिह हंस पदं कुरु मानसे ॥२५॥
इति यदन्तरनन्त तिरोदधन्
मुदमुदञ्चति मोहमहातमः ।
तव रवीन्दुहुताशनचक्षुषो
हृदि निवेदयतीदमसन्निधिम् ॥२६॥
न हि महेश मनस्त्वदधिष्ठितं
भ्रमयितुं प्रभवन्ति भवोर्मयः ।
न हि वनं हरिणाधिपरक्षितं
क्षपयितुं कपयः क्वचन क्षमाः ॥२७॥
वरमरण्यसरित्पुलिनस्थली-
तरुतले फलमूलजलाशिनः ।
स्थितिरनर्गलवल्कलवाससो
न शिवभक्तिमृते त्रिदशेन्द्रता ॥
भवति पश्यति नश्यति दुर्गतिः
स्फुरति शक्तिरुपैति धृतिं मतिः ।
स्तुतिकृति प्रतिपत्तिमति श्रुतिस्मृति-
भृति स्थितिमेति च निर्वृतिः ॥२८॥
कति न बुद्बुदवद्भववारिधा-
विह लसन्ति गलन्ति च जन्तवः ।
समजनि स्पृहणीयजनिः पुन-
र्जगति कश्चन यः शिवसेवकः ॥२९॥
सपदि पीठविलोठितमूर्तिभि-
र्भगवतः शुचिभिर्धृतभक्तिभिः ।
चरणरेणुकणैरिव मादृशै-
र्दिविषदामपि मूर्ध्नि पदं कृतम् ॥३०॥
निपततां विषमे विपदम्बुधौ
यदवलम्बनमस्तविडम्बनम् ।
जगदमङ्गलभङ्गविधायि त-
ज्जयति रत्नमहो शिवसेवनम् ॥३१॥
जयति जन्मजरामरणव्यथा-
शमसमर्थमनर्थ निवर्हणम् ।
सकलमङ्गलधाम सुधामयं
भगवदर्चननाम महौषधम् ॥३२॥
इदमसाधितमेव रसायनं
निरुपभोगमिदं सुखमक्षयम् ।
अमृतमेतदनम्बुधिमन्थनं
यदविनश्वरमीश्वरसेवनम् ॥३३॥
किमफलैरपरैर्भवशम्बरैः
करितुरङ्गरथाम्बरडम्बरैः ।
भगवदङ्घ्रिसरोरुहसेवन-
व्यसनमस्तु ममानिधनं धनम् ॥३४॥
वहतु सा रमणी रमणीयता-
ममृतमस्त्वमृतं मधु वा मधु ।
भवतु निर्वृतिधम तु यामिनी-
रमणमण्डनसेवनमेव नः ॥३५॥
अहमहर्निशमेकमना मना-
गुपरमन्मदमन्मथमत्सरः ।
भगवतीरवगत्य दुरत्ययाः
शरधराभरणं शरणं श्रये ॥३६॥
इदमह करुणामृतसागरं
शशिकिशोरशिरोमणिमर्थये ।
व्रजतु जन्मनि जन्मनि मे वपु-
र्भवदुपासनसाधनतामिति ॥३७॥
कमपि नाम निकाममनोहरं
वहति टङ्कमनङ्कुशमेव यत् ।
तदकलङ्कमलङ्करणं मुखे
भवतु मे शिवनाम निरामयम् ॥३८॥
हृदय भावय भावमनाविलं
निरवधान बधान दृढां धृतिम् ।
त्वमसमर्थ समर्थयसे सुखं
किमविनाशि विना शिवसेवनम् ॥३९॥
भवरसं प्रति सम्प्रति तृष्णया
त्यजसि मानस मानसमुन्नतिम् ।
मदनशासनशासनतः परं
कमनपायमुपायमुदीक्षसे ॥४०॥
उपवने पवनेरितमाधवी-
धवलिते वलिते तरुपङ्क्तिभिः ।
अमलकोमलकोषनिषण्णषट्-
चरणपारणपावनपङ्कजे ॥४१॥
समदने मदनेन वशीकृता
वरवधूरवधूय भज प्रभुम् ।
अशरणोद्धरणोद्धतधीः शुचा-
मुपरमं परमं स करोति ते ॥४२॥
जहिहि मोहमुपेहि निजां स्थितिं
त्यज शुचं भज मानपरिग्रहम् ।
अहरहर्हरपादसरोरुह-
स्मृतिरसायनपानपरं भव ॥४३॥
तदसमञ्जसमङ्ग यदङ्गना-
नयनचापलशापमुपेयताम् ।
नयसि नित्यबहिर्मुख शङ्कर-
स्मरणसौमनसीमपि हेयताम् ॥४४॥
यदि समर्थयसे दुरतिक्रमं
कुपितकालभटभ्रुकुटीभयम् ।
तदचिकित्स्यभवामयभेषजं
भज भुजङ्गमभूषणतोषणम् ॥४५॥
यदि चिकीर्षसि सौहृदमात्मनः
परिजिहीर्षसि यद्यघबन्धनम् ।
यदि तितीर्षसि संसृतिसागरं
श्रयमयस्करमीश्वरसेवनम् ॥४६॥
यदि वराक सुकर्मविपाकतः
करतले पतितस्तव शेवधिः ।
तमखिलापदपाकरणक्षमं
नयसि मूढ निरर्थकतां कथम् ॥४७॥
अमलशीलकुलश्रुतविश्रुतं
सदसदर्थविचारविशारदम् ।
पुरजिदर्चनसौख्यपराङ्मुखं
नयसि मानस मानुषजन्म यत् ॥४८॥
भ्रमदमन्थरमन्थरयाहति-
ध्वनदमुद्रसमुद्रसमानया ।
शमितशापदशापदमेहि मे
हर गिरा वितरावितथं वरम् ॥४९॥
अनुगृहाण गृहाण घृणार्णव
प्रणयिनः प्रणयानुगुणं वचः ।
उपकुरुष्व कुरुष्व दृढं मना-
गशरणोद्धरणप्रवणं मनः ॥५०॥
पृथुशिरस्त्रिदशापगया श्रितं
करुणया हृदयं शिवया वपुः ।
कथमतिप्रमिते भगवन् धृतिः
श्रवणरन्ध्रपदेऽपि न मे गिरः ॥५१॥
त्वदनुरागभरेण कदर्थिता
त्वदनुरञ्जनकर्मणि चाक्षमा ।
इति मतिर्मम चाटुपराङ्मुखी
हर करोति निजार्तिनिवेदनम् ॥५२॥
प्रियतमोऽसि मतेर्मम सा पुन-
र्न गुणवत्यपि ते हृदयङ्गमा ।
इति महेश भवद्विरहातुरा
भजति कामपि कामकदर्थनाम् ॥५३॥
भव भवत्परिरम्भसुखोऽस्तु मा
त्वदुपभोगविधौ तु कथैव का ।
तव तु दर्शनमात्रककाङ्क्षिणीं
मम मतिं कथमित्थमुपेक्षसे ॥५४॥
कुटिलतां न जगाम निकामतो
न सहजं मलिनत्वमुपेयुषी ।
वहसि किं घनरागकदर्थितां
मम मतिं प्रति कर्कशमाशयम् ॥५५॥
अथ गता परिणामदशामिति
त्यजसि चेन्मम मुग्धतमां मतिम् ।
किमपरं घनमोहविमूर्छिता
प्रथयतां तव निर्दयतामियम् ॥५६॥
इदमनङ्गजनङ्गमसङ्गम-
भ्रमदमन्दमलं चपलं मनः ।
अमृतकुम्भकर द्युतरङ्गिणी-
धर सुधाकरशेखर शोधय ॥५७॥
भव मरुभ्रमखेदकदर्थितं
सुविषमैस्तृषितं विषयोष्मभिः ।
मदयते हृदयं मम निर्भरं
भव भवच्चरणस्मरणामृतम् ॥५८॥
विषयपन्नगपाशवशीकृतं
भवमहार्णवमग्नमनीश्वरम् ।
बहलमोहमहोपलपीडितं
हर समुद्धर मां शरणागतम् ॥५९॥
यमभटैर्ह्वियमाणमयन्त्रणै-
रशरणं शरणं चरणौ श्रितम् ।
घनघृणामृतनिर्भरया दृशा
मदनमर्दन मामवलोकय ॥६०॥
अभयघोषमिषोन्मिषिताऽमृत-
द्रवमबन्ध्यधृतस्मितचन्द्रकम् ।
वदनचन्द्रमसं तव पश्यतो
मम कदा नु तमः शममेष्यति ॥६१॥
प्रबलतापकदर्थितविग्रहं
द्विजपतिं परिपालयितुं शिशुम् ।
वहसि किं न विभो हृदये दयां
शिरसि निर्जरनिर्झरिणीमिव ॥६२॥
प्रणततापविपत्क्षपणक्षमां
दलितसन्ततसन्तमसस्थितिम् ।
हृदि निधेहि दयाममृतस्रुतं
हरिणकेतुकलामिव मूर्धनि ॥६३॥
अभिमताधिकसिद्धिविधायिनीं
भवदवच्छिदमव्यभिचारिणीम् ।
वह विभो हृदये दयितां दयां
वपुषि भूधरराजसुतामिव ॥६४॥
चिन्तामणिः स्फटिकजातिरचेतनोऽपि
कल्पद्रुमः कठिनकाष्ठविनिर्मितोऽपि ।
तिर्यग्दशामपि गता किल कामधेनु-
र्भाग्यैरभीष्टफलदा कृतिनां भवन्ति ॥६५॥
त्वं तु प्रभो त्रिभुवनैकमहेश्वरोऽपि
पर्याप्तशक्तिरपि पूर्णकृपार्णवोऽपि ।
आक्रन्दतोऽपि करुणं विधिवञ्चितस्य
त्यक्तादरोसि मम दर्शनमात्रकेऽपि ॥६६॥
चिरं द्वारोपान्ते स्थितमवसरोद्वीक्षणधिया
तिरस्कारः सोढः कुपितमुखरद्वाःस्थविहितः ।
मुखं दीनं कृत्वा विभवलवगर्वान्धितदृशां
कदीशानामग्रे क इव न विसोढः परिभवः ॥६७॥
परिम्लानो मानस्तनुरपि तनुस्ताम्यतितमां
मनो मोहावर्ते भ्रमति धृतिरस्तं व्रजति च ।
कथापि क्लेशानामवतरति नोच्छेदपदवीं
दवीयस्यामस्यां भवभुवि मुधा धावति मतिः ॥६८॥
तदेवं दुर्वारव्यसनशतसम्पातविषमं
विशन्नेष स्वामिन्नहह सुमहन्मोहगहनम् ।
अविन्दन्नाश्वासक्षममपरमापन्नसुहृदं
जनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥६९॥
कदर्याणामग्रे तरलनलिनीपल्लवतल-
प्रलीनप्रालेयप्रचलकमलामूढमनसाम् ।
अदभ्रभ्रूभङ्गप्रभवमवमानं हतधियः
सहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥७०॥
अहं तु प्रत्यग्रप्रभुचरणराजीवरजसा
पवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् ।
भ्रुकुंसत्वं बिभ्रत्प्रमदभरसन्दर्भरभसा-
द्भजेयं भूतेशभ्रुकुटिघटनाभाजनभुवम् ॥७१॥
सुरस्रोतःस्वत्यास्तटविटपिपुष्पौघसुरभौ
गिरिग्रावग्रामस्खलनमुखरस्रोतसि जले ।
श्रमक्षामैरङ्गैरगणितभवक्लेशविपदां
कदा स्यान्नस्तृप्तिर्हरचरणसेवासुखरसैः ॥७२॥
अमन्दानन्दानां दलदलघुसन्तापविपदां
पदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः ।
कदा नः कालिन्दीसलिलशबलैरम्बरसरि-
त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥७३॥
सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी
भागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः ।
सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नः
स्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥७४॥
अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरां
क इव सदसि प्रह्वीकर्त्तुं क्षमेत (सहेत)शिरोधराम् ।
विदधति मुहुर्हेलाखेलं भवत्यवधीरणं
भ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥७५॥
मानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिः
कस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो रोचते ।
किन्तु स्वामिनि साऽवलेपहृदये दासीकृताः शत्रुभिः
क्षुद्रानद्यतनेश्वरान्धनमदक्षीवान्निषेवामहे ॥७६॥
स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भर्त्सिता वेत्रिभि-
र्यद्गर्वान्धनरेन्द्रवल्लभदुरुद्गारैर्विदह्यामहे ।
यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महे
तत्सर्वं तव वक्रवक्त्रवलनामात्रस्य विस्फूर्जितम् ॥७७॥
दृष्ट्वा पाटलगण्डलेखमरुणोद्वाष्पेक्षणं प्रस्फुरद्-
बिम्बोष्ठं प्रथमापराधकुपितं वक्त्रं कुरङ्गीदृशः ।
यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्पृहं
सत्रासं च मनोऽभवत्तदधुना श्रान्तं च शान्तं च नः ॥७८॥
यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मना
ह्लादेन क्षणिकं स्थिरेण महता स्वल्पं किमत्राद्भुतम् ।
तच्चित्रं भवदुःखजं भवदनुध्यानप्रमोदाश्रुणा
वाष्पाम्बु ध्रुवमध्रुवेण सुमहत्सूक्ष्मेण यद्भिद्यते ॥७९॥
अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः
क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्यन्तरैः ।
क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं
मा मा मुञ्च महेश पेशलदृशा सत्रासप्राश्वासय ॥८०॥
यद्विश्वोद्धरणक्षमाऽप्यशरणत्राणैकशीलापि ते
मामार्त्तं दृगुपेक्षते स महिमा दुष्टस्य मे कर्म्मणः ।
देव्यां दिव्यमृतैः पयोधरधृतैः पृथ्वीं पृणत्यां (स्तृणन्त्याम्)कणा
द्वित्राश्चेन्न मुखे पतन्ति शिखिनः किं वाच्यमेतद्दिवः ॥८१॥
शुभ्रं बिभ्रत्तरुणकरुणाऽऽक्रान्तमश्रान्तमन्तः
स्वान्तं शान्तप्रणतजनताक्लेशलेशप्रवेशम् ।
प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्ग-
व्यापत्तापक्षपणनिपुणां मुञ्च चण्डीश वाणीम् ॥८२॥
अदभ्रश्वभ्रेयं भवसरणिरातङ्कबहुला
गलद्बोधज्योत्स्ना निरवधिरसौ मोहरजनी (मोहजननी)।
नयन्त्येते शान्तिं विषमविषयोत्पातमरुतः
प्रदीपं प्रज्ञाख्यं प्रतिदिश दृशं क्लेशशमनीम् ॥८३॥
शरीरं नीरोगं नवमपि वयः संस्कृतिमती
मतिर्वन्द्या जातिः प्रभुरपि भवान् भक्तिसुलभः ।
इतीयं सामग्री सुकृतशतलभ्या विघटते न
यावत्तावन्मे शृणु करुणमाक्रन्दितमिदम् ॥८४॥
जयन्ति कृतिनः कवेरमृतसारसिक्ताक्षरा
विकस्वरशरत्सुधाकरकरानुकारित्विषः ।
पुरारिपदपङ्कजस्तवपवित्रचित्रक्रमाः
समुन्मिषितमालतीमुकुलकोमलाः सूक्तयः ॥८५॥
शिवस्तवकृतो मधौ मलयवायुवेल्लल्लता-
गलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् ।
नदन्मदनशिञ्जिनीझणितभीतसीमन्तिनी-
भुजाकलितकन्धरा अधिवसन्ति लीलावनम् ॥८६॥
अदूरबहिरङ्गनोपवनजातचूतावली-
विलीनकलकोकिलाकलितकाकलीकूजितैः ।
वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका-
विकासिकुसुमस्खलद्भ्रमरमण्डलीगुञ्जितैः ॥८७॥
निगूढतिमिघट्टनस्फुरितदीर्घिकासम्भ्रम-
त्रसत्कमलकोटरस्थितमरालबालस्वनैः ।
रटत्पटहझल्लरीमुरजतूर्यभेरीगण-
प्रणादमुखरीभवद्भवनबर्हिकेकारवैः ॥८८॥
सुधामधुरवारुणीरसकषायकण्ठोद्भव-
न्नवश्रुतिरसायनप्रगुणगायनीगीतकैः ।
प्रवीणपरिवादकोदितविभासरागस्वर-
क्रमानुगतवल्लकीविकचकीचकप्रक्वणैः ॥८९॥
प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति-
प्रबुद्धशुकसारिकाकलहकेलिकोलाहलैः ।
बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण-
क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥९०॥
खुरक्षतवसुन्धरोद्धुरतुरङ्गहेषोन्मिष-
त्प्रबोधधुतकन्धरद्विरदकण्ठघण्टारवैः ।
स्मराऽलसविलासिनीस्तनभरोपरुद्धोरस-
स्त्यजन्ति शयनं शनैरुषसि शम्भुशंसाजुषः ॥९१॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``करुणाक्रन्दनं'' नामकं दशमं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP