संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| करुणाक्रन्दनं दशमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् करुणाक्रन्दनं दशमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति करुणाक्रन्दनं दशमं स्तोत्रम् Translation - भाषांतर जयति चित्तचकोरकचन्द्रिकासुकृतिनां वदनाब्जरविच्छविः ।श्रवणबर्हिणवर्षणवर्तनीहरिणकेतुकलामुकुटस्तुतिः ॥१॥जयति भक्तिलतानवमाधवःसुकृतपादपपक्वफलोद्भवः ।विपदुपद्रवविक्लवबान्धवःसुकविसूक्तिवधूवदनासवः ॥२॥भवमहार्णवनिस्तरणप्लवःप्रवरसूरिमयूरघनारवः ।हृदयदाहहृतावमृतद्रवःकुमुदिनीरमणाभरणस्तवः ॥३॥मधुरमिन्दुमुखीवदनादपिक्लमहरं सुरसिन्धुजलादपि ।त्रिभुवनाधिपतिस्तुतिपावनंजयति सत्कविसूक्तिरसायनम् ॥४॥नवनवभ्रमरस्वनशोभिनीभवमरुभ्रमघर्मशमक्षमा ।हृदयनन्दनचन्दनकन्दलीजयति शङ्करभक्तिरभङ्गुरा ॥५॥अथ कथञ्चन रूढमपि क्षणंमनसि वीक्ष्य विवेकनवाङ्कुरम् ।बहुविधव्यसनौघविघट्टितंसपदि विज्ञपयामि जगद्गुरुम् ॥६॥अपि जगद्विदितः करुणापरःपरहिताऽऽहितमूर्त्तिपरिग्रहः ।किमिति हंसि न हंस हृदम्बुजेकृतपदो विपदः शरणार्थिनाम् ॥७॥यदि भवान् विदधीत हृदि स्थितिंव्यसनसम्पदसौ प्रसरेत्कथम् ।यदि न सा प्रसरेत्प्रसजेत्कथंबुधजनोऽप्यसमञ्जसकर्म्मसु ॥८॥इह बृहद्भिरुदग्रपरिग्रह-ग्रहगृहीतमतिर्व्यसनोद्गमैः ।यदि न कातरतां परतन्त्रता-मफलतां खलतां च भजेज्जनः ॥९॥यदि भजेत न सज्जनसङ्गम-व्यसनसर्पदनल्पकृपास्पदम् ।हृदयमिन्दुमयूखसुखाहति-व्यतिकरद्रुतचन्द्रमणिश्रियम् ॥१०॥अभिलषेयुरनर्गलदुर्गति-प्रसरदीर्घनिदाघनिपीडिताः ।यदि घनागमवन्न धनागमंप्रणयिनस्तृषिता हरिणा इव ॥११॥यदि न पीनघनस्तनभङ्गुर-त्रिवलिभङ्गितरङ्गितमध्यमाः ।इह हरेयुरपाङ्गविलोकितैर्धृत-रतिप्रमदाः प्रमदा मनः ॥१२॥बलवदिन्द्रियतस्करसङ्कुलेविषयभीमभुजङ्गमभीषणे ।दुरितदीर्घदवानलदुःसहेबहलमोहतमोहतसंविदि ॥१३॥कृतधियोऽपि भवाध्वनि धावतःप्रबलकर्मरयापहृतात्मनः ।अवसरे प्रहरेयुरमी न चे-न्मदन मानमुखाः परिपन्थिनः ॥१४॥उपचितोऽभिनवाम्रदलावलीकवलनाकुलकोकिलकूजितैः ।यदि न तर्जयितुं प्रभवेन्मधौमदनदिग्विजयोद्यमडिण्डिमः ॥१५॥यदि मधौ मधुपानमदोन्मदभ्रमरगायनगुञ्जितगीतयः ।सुखलवानुभवाय कृतस्पृहंहर हरेयुरिमं न मनोमृगम् ॥१६॥अभिनवस्तवकस्तनसन्नताःपवननर्तितपल्लवपाणयः ।यदि न बन्धनिबन्धनमृध्नुयु-र्मधुपगुञ्जितमञ्जुगिरो लताः ॥१७॥यदि शुचौ मनसीव न मानिनांघनमनेहसि तापमुपावहेत् ।सरजसो हरितस्तरुणैः करै-रविरलं परिरिप्सुरहर्पतिः ॥१८॥पृथुलसज्जघनोरुपयोधरागुरुमरुच्चपलाकुलिताम्बराः ।यदि भवेयुरिमा न घनागमेमृगदृशश्च दिशश्च धृतिच्छिदः ॥१९॥सुरभिगन्धिसहासमुखाम्बुजाधृतमनोहरहंसकविभ्रमाः ।यदि न मज्जनधाम नतभ्रुवःशरदि संस्मरयेयुरगापगाः ॥२०॥यदि न दीर्घतमाः समवाप्नुयुःसहसि दुर्विषहोल्बणवायवः ।धृतघनोष्मबृहत्तरुणीस्तन-स्मरणकारणतामपि रात्रयः ॥२१॥यदि भवेन्न घनावरणोद्गम-ग्लपितधामनि घमनिधौ बहिः ।तपसि चेतसि च व्यसनाकुलेतपसि रूढरसोऽप्यलसो जनः ॥२२॥तदखिलापदुपोद्धरणक्षमंसमधिगम्य दुरापमिदं पुनः ।पवनवेल्लितबालमृणालिनी-दलचलज्जलबिन्दुनिभं वपुः ॥२३॥भव भवत्पदपङ्कजपूजन-व्यसनसौमनसीमपहाय कः ।इह सहेत विभूतिलवोन्मिष-न्मदकदर्यविकारकदर्थनाम् ॥२४॥इदमुदञ्चति मेघमयं महत्पिहितभास्वदमन्दमहस्तमः ।घनबलोऽपि स काल उपस्थित-स्तदिह हंस पदं कुरु मानसे ॥२५॥इति यदन्तरनन्त तिरोदधन्मुदमुदञ्चति मोहमहातमः ।तव रवीन्दुहुताशनचक्षुषोहृदि निवेदयतीदमसन्निधिम् ॥२६॥न हि महेश मनस्त्वदधिष्ठितंभ्रमयितुं प्रभवन्ति भवोर्मयः ।न हि वनं हरिणाधिपरक्षितंक्षपयितुं कपयः क्वचन क्षमाः ॥२७॥वरमरण्यसरित्पुलिनस्थली-तरुतले फलमूलजलाशिनः ।स्थितिरनर्गलवल्कलवाससोन शिवभक्तिमृते त्रिदशेन्द्रता ॥भवति पश्यति नश्यति दुर्गतिःस्फुरति शक्तिरुपैति धृतिं मतिः ।स्तुतिकृति प्रतिपत्तिमति श्रुतिस्मृति-भृति स्थितिमेति च निर्वृतिः ॥२८॥कति न बुद्बुदवद्भववारिधा-विह लसन्ति गलन्ति च जन्तवः ।समजनि स्पृहणीयजनिः पुन-र्जगति कश्चन यः शिवसेवकः ॥२९॥सपदि पीठविलोठितमूर्तिभि-र्भगवतः शुचिभिर्धृतभक्तिभिः ।चरणरेणुकणैरिव मादृशै-र्दिविषदामपि मूर्ध्नि पदं कृतम् ॥३०॥निपततां विषमे विपदम्बुधौयदवलम्बनमस्तविडम्बनम् ।जगदमङ्गलभङ्गविधायि त-ज्जयति रत्नमहो शिवसेवनम् ॥३१॥जयति जन्मजरामरणव्यथा-शमसमर्थमनर्थ निवर्हणम् ।सकलमङ्गलधाम सुधामयंभगवदर्चननाम महौषधम् ॥३२॥इदमसाधितमेव रसायनंनिरुपभोगमिदं सुखमक्षयम् ।अमृतमेतदनम्बुधिमन्थनंयदविनश्वरमीश्वरसेवनम् ॥३३॥किमफलैरपरैर्भवशम्बरैःकरितुरङ्गरथाम्बरडम्बरैः ।भगवदङ्घ्रिसरोरुहसेवन-व्यसनमस्तु ममानिधनं धनम् ॥३४॥वहतु सा रमणी रमणीयता-ममृतमस्त्वमृतं मधु वा मधु ।भवतु निर्वृतिधम तु यामिनी-रमणमण्डनसेवनमेव नः ॥३५॥अहमहर्निशमेकमना मना-गुपरमन्मदमन्मथमत्सरः ।भगवतीरवगत्य दुरत्ययाःशरधराभरणं शरणं श्रये ॥३६॥इदमह करुणामृतसागरंशशिकिशोरशिरोमणिमर्थये ।व्रजतु जन्मनि जन्मनि मे वपु-र्भवदुपासनसाधनतामिति ॥३७॥कमपि नाम निकाममनोहरंवहति टङ्कमनङ्कुशमेव यत् ।तदकलङ्कमलङ्करणं मुखेभवतु मे शिवनाम निरामयम् ॥३८॥हृदय भावय भावमनाविलंनिरवधान बधान दृढां धृतिम् ।त्वमसमर्थ समर्थयसे सुखंकिमविनाशि विना शिवसेवनम् ॥३९॥भवरसं प्रति सम्प्रति तृष्णयात्यजसि मानस मानसमुन्नतिम् ।मदनशासनशासनतः परंकमनपायमुपायमुदीक्षसे ॥४०॥उपवने पवनेरितमाधवी-धवलिते वलिते तरुपङ्क्तिभिः ।अमलकोमलकोषनिषण्णषट्-चरणपारणपावनपङ्कजे ॥४१॥समदने मदनेन वशीकृतावरवधूरवधूय भज प्रभुम् ।अशरणोद्धरणोद्धतधीः शुचा-मुपरमं परमं स करोति ते ॥४२॥जहिहि मोहमुपेहि निजां स्थितिंत्यज शुचं भज मानपरिग्रहम् ।अहरहर्हरपादसरोरुह-स्मृतिरसायनपानपरं भव ॥४३॥तदसमञ्जसमङ्ग यदङ्गना-नयनचापलशापमुपेयताम् ।नयसि नित्यबहिर्मुख शङ्कर-स्मरणसौमनसीमपि हेयताम् ॥४४॥यदि समर्थयसे दुरतिक्रमंकुपितकालभटभ्रुकुटीभयम् ।तदचिकित्स्यभवामयभेषजंभज भुजङ्गमभूषणतोषणम् ॥४५॥यदि चिकीर्षसि सौहृदमात्मनःपरिजिहीर्षसि यद्यघबन्धनम् ।यदि तितीर्षसि संसृतिसागरंश्रयमयस्करमीश्वरसेवनम् ॥४६॥यदि वराक सुकर्मविपाकतःकरतले पतितस्तव शेवधिः ।तमखिलापदपाकरणक्षमंनयसि मूढ निरर्थकतां कथम् ॥४७॥अमलशीलकुलश्रुतविश्रुतंसदसदर्थविचारविशारदम् ।पुरजिदर्चनसौख्यपराङ्मुखंनयसि मानस मानुषजन्म यत् ॥४८॥भ्रमदमन्थरमन्थरयाहति-ध्वनदमुद्रसमुद्रसमानया ।शमितशापदशापदमेहि मेहर गिरा वितरावितथं वरम् ॥४९॥अनुगृहाण गृहाण घृणार्णवप्रणयिनः प्रणयानुगुणं वचः ।उपकुरुष्व कुरुष्व दृढं मना-गशरणोद्धरणप्रवणं मनः ॥५०॥पृथुशिरस्त्रिदशापगया श्रितंकरुणया हृदयं शिवया वपुः ।कथमतिप्रमिते भगवन् धृतिःश्रवणरन्ध्रपदेऽपि न मे गिरः ॥५१॥त्वदनुरागभरेण कदर्थितात्वदनुरञ्जनकर्मणि चाक्षमा ।इति मतिर्मम चाटुपराङ्मुखीहर करोति निजार्तिनिवेदनम् ॥५२॥प्रियतमोऽसि मतेर्मम सा पुन-र्न गुणवत्यपि ते हृदयङ्गमा ।इति महेश भवद्विरहातुराभजति कामपि कामकदर्थनाम् ॥५३॥भव भवत्परिरम्भसुखोऽस्तु मात्वदुपभोगविधौ तु कथैव का ।तव तु दर्शनमात्रककाङ्क्षिणींमम मतिं कथमित्थमुपेक्षसे ॥५४॥कुटिलतां न जगाम निकामतोन सहजं मलिनत्वमुपेयुषी ।वहसि किं घनरागकदर्थितांमम मतिं प्रति कर्कशमाशयम् ॥५५॥अथ गता परिणामदशामितित्यजसि चेन्मम मुग्धतमां मतिम् ।किमपरं घनमोहविमूर्छिताप्रथयतां तव निर्दयतामियम् ॥५६॥इदमनङ्गजनङ्गमसङ्गम-भ्रमदमन्दमलं चपलं मनः ।अमृतकुम्भकर द्युतरङ्गिणी-धर सुधाकरशेखर शोधय ॥५७॥भव मरुभ्रमखेदकदर्थितंसुविषमैस्तृषितं विषयोष्मभिः ।मदयते हृदयं मम निर्भरंभव भवच्चरणस्मरणामृतम् ॥५८॥विषयपन्नगपाशवशीकृतंभवमहार्णवमग्नमनीश्वरम् ।बहलमोहमहोपलपीडितंहर समुद्धर मां शरणागतम् ॥५९॥यमभटैर्ह्वियमाणमयन्त्रणै-रशरणं शरणं चरणौ श्रितम् ।घनघृणामृतनिर्भरया दृशामदनमर्दन मामवलोकय ॥६०॥अभयघोषमिषोन्मिषिताऽमृत-द्रवमबन्ध्यधृतस्मितचन्द्रकम् ।वदनचन्द्रमसं तव पश्यतोमम कदा नु तमः शममेष्यति ॥६१॥प्रबलतापकदर्थितविग्रहंद्विजपतिं परिपालयितुं शिशुम् ।वहसि किं न विभो हृदये दयांशिरसि निर्जरनिर्झरिणीमिव ॥६२॥प्रणततापविपत्क्षपणक्षमांदलितसन्ततसन्तमसस्थितिम् ।हृदि निधेहि दयाममृतस्रुतंहरिणकेतुकलामिव मूर्धनि ॥६३॥अभिमताधिकसिद्धिविधायिनींभवदवच्छिदमव्यभिचारिणीम् ।वह विभो हृदये दयितां दयांवपुषि भूधरराजसुतामिव ॥६४॥चिन्तामणिः स्फटिकजातिरचेतनोऽपिकल्पद्रुमः कठिनकाष्ठविनिर्मितोऽपि ।तिर्यग्दशामपि गता किल कामधेनु-र्भाग्यैरभीष्टफलदा कृतिनां भवन्ति ॥६५॥त्वं तु प्रभो त्रिभुवनैकमहेश्वरोऽपिपर्याप्तशक्तिरपि पूर्णकृपार्णवोऽपि ।आक्रन्दतोऽपि करुणं विधिवञ्चितस्यत्यक्तादरोसि मम दर्शनमात्रकेऽपि ॥६६॥चिरं द्वारोपान्ते स्थितमवसरोद्वीक्षणधियातिरस्कारः सोढः कुपितमुखरद्वाःस्थविहितः ।मुखं दीनं कृत्वा विभवलवगर्वान्धितदृशांकदीशानामग्रे क इव न विसोढः परिभवः ॥६७॥परिम्लानो मानस्तनुरपि तनुस्ताम्यतितमांमनो मोहावर्ते भ्रमति धृतिरस्तं व्रजति च ।कथापि क्लेशानामवतरति नोच्छेदपदवींदवीयस्यामस्यां भवभुवि मुधा धावति मतिः ॥६८॥तदेवं दुर्वारव्यसनशतसम्पातविषमंविशन्नेष स्वामिन्नहह सुमहन्मोहगहनम् ।अविन्दन्नाश्वासक्षममपरमापन्नसुहृदंजनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥६९॥कदर्याणामग्रे तरलनलिनीपल्लवतल-प्रलीनप्रालेयप्रचलकमलामूढमनसाम् ।अदभ्रभ्रूभङ्गप्रभवमवमानं हतधियःसहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥७०॥अहं तु प्रत्यग्रप्रभुचरणराजीवरजसापवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् ।भ्रुकुंसत्वं बिभ्रत्प्रमदभरसन्दर्भरभसा-द्भजेयं भूतेशभ्रुकुटिघटनाभाजनभुवम् ॥७१॥सुरस्रोतःस्वत्यास्तटविटपिपुष्पौघसुरभौगिरिग्रावग्रामस्खलनमुखरस्रोतसि जले ।श्रमक्षामैरङ्गैरगणितभवक्लेशविपदांकदा स्यान्नस्तृप्तिर्हरचरणसेवासुखरसैः ॥७२॥अमन्दानन्दानां दलदलघुसन्तापविपदांपदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः ।कदा नः कालिन्दीसलिलशबलैरम्बरसरि-त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥७३॥सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागीभागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः ।सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नःस्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥७४॥अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरांक इव सदसि प्रह्वीकर्त्तुं क्षमेत (सहेत)शिरोधराम् ।विदधति मुहुर्हेलाखेलं भवत्यवधीरणंभ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥७५॥मानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिःकस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो रोचते ।किन्तु स्वामिनि साऽवलेपहृदये दासीकृताः शत्रुभिःक्षुद्रानद्यतनेश्वरान्धनमदक्षीवान्निषेवामहे ॥७६॥स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भर्त्सिता वेत्रिभि-र्यद्गर्वान्धनरेन्द्रवल्लभदुरुद्गारैर्विदह्यामहे ।यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महेतत्सर्वं तव वक्रवक्त्रवलनामात्रस्य विस्फूर्जितम् ॥७७॥दृष्ट्वा पाटलगण्डलेखमरुणोद्वाष्पेक्षणं प्रस्फुरद्-बिम्बोष्ठं प्रथमापराधकुपितं वक्त्रं कुरङ्गीदृशः ।यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्पृहंसत्रासं च मनोऽभवत्तदधुना श्रान्तं च शान्तं च नः ॥७८॥यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मनाह्लादेन क्षणिकं स्थिरेण महता स्वल्पं किमत्राद्भुतम् ।तच्चित्रं भवदुःखजं भवदनुध्यानप्रमोदाश्रुणावाष्पाम्बु ध्रुवमध्रुवेण सुमहत्सूक्ष्मेण यद्भिद्यते ॥७९॥अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैःक्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्यन्तरैः ।क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदंमा मा मुञ्च महेश पेशलदृशा सत्रासप्राश्वासय ॥८०॥यद्विश्वोद्धरणक्षमाऽप्यशरणत्राणैकशीलापि तेमामार्त्तं दृगुपेक्षते स महिमा दुष्टस्य मे कर्म्मणः ।देव्यां दिव्यमृतैः पयोधरधृतैः पृथ्वीं पृणत्यां (स्तृणन्त्याम्)कणाद्वित्राश्चेन्न मुखे पतन्ति शिखिनः किं वाच्यमेतद्दिवः ॥८१॥शुभ्रं बिभ्रत्तरुणकरुणाऽऽक्रान्तमश्रान्तमन्तःस्वान्तं शान्तप्रणतजनताक्लेशलेशप्रवेशम् ।प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्ग-व्यापत्तापक्षपणनिपुणां मुञ्च चण्डीश वाणीम् ॥८२॥अदभ्रश्वभ्रेयं भवसरणिरातङ्कबहुलागलद्बोधज्योत्स्ना निरवधिरसौ मोहरजनी (मोहजननी)।नयन्त्येते शान्तिं विषमविषयोत्पातमरुतःप्रदीपं प्रज्ञाख्यं प्रतिदिश दृशं क्लेशशमनीम् ॥८३॥शरीरं नीरोगं नवमपि वयः संस्कृतिमतीमतिर्वन्द्या जातिः प्रभुरपि भवान् भक्तिसुलभः ।इतीयं सामग्री सुकृतशतलभ्या विघटते नयावत्तावन्मे शृणु करुणमाक्रन्दितमिदम् ॥८४॥जयन्ति कृतिनः कवेरमृतसारसिक्ताक्षराविकस्वरशरत्सुधाकरकरानुकारित्विषः ।पुरारिपदपङ्कजस्तवपवित्रचित्रक्रमाःसमुन्मिषितमालतीमुकुलकोमलाः सूक्तयः ॥८५॥शिवस्तवकृतो मधौ मलयवायुवेल्लल्लता-गलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् ।नदन्मदनशिञ्जिनीझणितभीतसीमन्तिनी-भुजाकलितकन्धरा अधिवसन्ति लीलावनम् ॥८६॥अदूरबहिरङ्गनोपवनजातचूतावली-विलीनकलकोकिलाकलितकाकलीकूजितैः ।वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका-विकासिकुसुमस्खलद्भ्रमरमण्डलीगुञ्जितैः ॥८७॥निगूढतिमिघट्टनस्फुरितदीर्घिकासम्भ्रम-त्रसत्कमलकोटरस्थितमरालबालस्वनैः ।रटत्पटहझल्लरीमुरजतूर्यभेरीगण-प्रणादमुखरीभवद्भवनबर्हिकेकारवैः ॥८८॥सुधामधुरवारुणीरसकषायकण्ठोद्भव-न्नवश्रुतिरसायनप्रगुणगायनीगीतकैः ।प्रवीणपरिवादकोदितविभासरागस्वर-क्रमानुगतवल्लकीविकचकीचकप्रक्वणैः ॥८९॥प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति-प्रबुद्धशुकसारिकाकलहकेलिकोलाहलैः ।बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण-क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥९०॥खुरक्षतवसुन्धरोद्धुरतुरङ्गहेषोन्मिष-त्प्रबोधधुतकन्धरद्विरदकण्ठघण्टारवैः ।स्मराऽलसविलासिनीस्तनभरोपरुद्धोरस-स्त्यजन्ति शयनं शनैरुषसि शम्भुशंसाजुषः ॥९१॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``करुणाक्रन्दनं'' नामकं दशमं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP