तमःशमनं द्वादशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
मखैरुपास्योऽपि नयज्ञसेव्यो निरामयोऽपि प्रथितोग्रशूलः ।
वेदप्रियोऽप्यश्रुतिवल्लभो यः श्रयामि तं देवमचिन्यशक्तिम् ॥१॥
स्तुत्यस्त्वमेव स्तुतिकृत्त्वमेव स्तुतिस्त्वमेव त्वदृतेऽस्ति नान्यत् ।
इयं त्वविद्या यदहं स्तुवे त्वां स्तुत्येति मिथ्या पृथगर्थबुद्धिः ॥२॥
स्तौम्येव तत्रापि पुनः पुनस्त्वां नश्यत्यविद्या यदविद्ययैव ।
रजःप्ररूढं मुकुरे प्रमार्ष्टुं रजो विना न ह्यपरोऽस्त्युपायः ॥३॥
विजृम्भमाणे तमसि प्रगल्-भे यथा भवासक्तमतिः स्थितोऽहम् ।
हतेऽपि तस्मिन्नुदितावबोधस्तथा भवासक्तमतिर्भवेयम् ॥४॥
जगद्विधेयं ससुरासुरं ते भवान् विधेयो भगवन् कृपायाः ।
सा दीनताया नमतां विधेया ममाऽस्त्ययत्नोपनतैव सेति ॥५॥
जाने न शैथिल्यमुपैष्यवश्यं ममार्तिभङ्गे भगवँस्तथापि ।
विज्ञप्यसे कर्म ममैव माभून्मयि प्रसादप्रतिघस्तवेति ॥६॥
पथ्यं च तथ्यं च भरक्षमं च स्निग्धं च मुग्धं च मनोहरं च ।
सलीलमुन्मील्य वचः प्रसन्नं प्रपन्नमाश्वासय चन्द्रमौले ॥७॥
मधुद्रवार्द्रं विषमाहरामः पिण्डीनिगूढं बडिशं गिलामः ।
अन्तर्निविष्टोत्कटकण्टकौघं ग्रसामहे पौण्ड्रक(पुण्ड्रक)पिण्डखण्डम् ॥८॥
यदा मुखे कामधुरानजस्रं विपाकरूक्षान् विषयान् भजामः ।
विभो विदन्तोऽपि किमत्र कुर्मो जहाति सक्तिं न मतिर्वराकी ॥९॥
मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् ।
कथं न हारा इव भक्तिमन्तः पदं हृदीशस्य भजन्ति सन्तः ॥१०॥
गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् ।
सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं भगवन् भवेयम् ॥११॥
यमेकमाराध्य महारिसङ्गमा-
दसंशयं भक्तजनः प्रमुच्यते ।
उपस्थितस्तस्य भवत्प्रसादतः
कथं हरेरुग्र महारिसङ्गमः ॥१२॥
सुदुर्लभोऽयं भवति ग्रहः पुन-
र्मुखेऽप्यसौ सन्निहिता सरस्वती ।
इदं कुरुक्षेत्रमतीवपावनं
किमर्थमर्थिन्युचिते विलम्बसे ॥१३॥
न कस्य सौभाग्यवती चमत्कृतिं
दिशत्यसौ भाग्यवती सरस्वती ।
विभुं जितक्लेशमपि स्थिराजिनं
करोति यत्सम्मुखमस्थिराजिनम् ॥१४॥
अनुज्झितानुत्तमदानसम्पदः
सदाखिलज्ञानविहीनचेतसः ।
अकालभीतिग्लपितान्करोति यः
प्रभुः प्रसन्नः कुपितश्च देहिनः ॥१५॥
पुरा चिरं यो विदधे वनान्तरे
विधुः पदं रूढकुरङ्गसौहृदः ।
सदा परस्वापहरोऽपि यो रवि-
स्तयोः समत्वं दृशि यस्य भासते ॥१६॥
कथं विभो तस्य तव प्रवर्ततां
सतामसेव्ये पथि पातितात्मसु ।
दयाविधेयस्य सदाऽस्मदादिषु
प्रसादपात्रेषु मनागनादरः ॥१७॥
विभो भवद्भालविलोचनाऽनल-
प्रसूतधूमैरिव साश्रुलोचनः ।
सघर्मलेशस्तव दक्षिणेक्षण-
प्ररूढचण्डद्युतिभाभरैरिव ॥१८॥
घनप्ररोहत्पुलकाङ्कुरो भव-
च्छिखण्डखण्डेन्दुकरोत्करैरिव ।
सदन्तवीणस्तुहिनौघशीतल-
त्वदुत्तमाङ्गद्युनदीजलैरिव ॥१९॥
तरङ्गिताङ्गो भवदङ्गदस्फुर-
त्फणीन्द्रफूत्कारसमीरणैरिव ।
भवेयमानन्दसुधापरिप्लुतः
प्रसन्नमालोक्य भवन्तमग्रतः ॥२०॥
यदेष सेहे परशुक्षतव्यथां
प्रभोः प्रियः स्यामिति चन्दनद्रुमः ।
भुजङ्गमालिङ्गितकन्धरो द्रुवं
बिभर्ति साम्यं गिरिजापतेरतः ॥२१॥
यच्चक्रिरे धृतनखान्तनिपातपीडाः
प्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् ।
यत्स्वामिनो न दहनेऽपि निपत्य सेवा-
हेवाकमौज्झदगुरोरपि गौरवं तत् ॥२२॥
आदौ प्रदर्श्य परमामृजुतामथान्त-
राविश्य मर्मणि न यन्निशितास्तुदन्ति ।
स्वामिन् शरा इव खलाः कृतिनो वनेषु
स त्वत्पदाम्बुजरजःकणजः प्रसादः ॥२३॥
त्वन्नाम पामरजनैरपि गीयमान-
मानन्दमर्पयति यं हृदि भक्तिभाजाम् ।
स्वामिन्नमानवयवेष्वखिलेषु नून-
मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥२४॥
घर्मः प्रकम्पपुलकौ गिरि गद्गदत्व-
मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः ।
त्वद्दर्शनात्कृतधियां दधताममन्द-
मानन्दमन्तकभयाद्भगवन् परेषाम् ॥२५॥
अन्त्यक्षणे भव भवच्चरणाब्जसेवा-
हेवाकिनो दधति केचन कण्ठपीठे ।
भोगीन्द्रभोगमधिगम्य भवद्गणत्व-
मन्ये कृतान्तकरकोटरकोटिकृष्टम् ॥२६॥
भीताभयार्पणविधौ किल कालनाशं
कर्तुं न यः क्षणमपि क्षमते कदापि ।
श्वेताभयार्पणपरस्य कथं नु काल-
नाशक्षमत्वमभवत्तव तस्य देव ॥२७॥
भङ्क्तुं न पारयति यः क्वचिदेव देव
कामं कृपामृतमृदुस्तव दृष्टिपातः ।
उद्दामरोषपरुषः किल कामभङ्ग-
मङ्गीचकार कथमेष महेश पूर्वम् ॥२८॥
किं मेरुमन्दरमुखा गिरयः शिरोभि-
रत्युन्नतैर्दधति गर्वमखर्वमेते ।
एतत्तुषारकिरणाभरणप्रणाम-
प्रह्वं जगज्जयति मामकमुत्तमाङ्गम् ॥२९॥
गात्रान्तरातिशयशंसि यदेतदुच्चै-
र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति ।
तद्युज्यते भव भवच्चरणारविन्द-
पीठप्रणामपरमस्य नमस्यमस्य ॥३०॥
किं श्रीघनोऽप्यसुगतः किमुमाधवोऽपि
न त्वं कदाचन जनार्दनतां बिभर्षि ।
स्वामिन् गजारिरपि किं नगजाप्रियस्त्वं
स्वातन्त्र्यमस्ति यदि वा भवतः किमन्यत् ॥३१॥
अरुणद्युतिग्लपितशीतदीधिति-
प्रकटीकृतालिकमलं विलोक्य मे ।
भवतः प्रभातमिव भाललोचनं
भजते कदा नु विषमं शमं तमः ॥३२॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``तमःशमनं'' नामकं द्वादशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP