हितस्तोत्रं चतुर्दशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
येन नेत्रकरशेखरस्पृशा हन्ति सन्तमसमन्तरीश्वरः ।
ऐन्दवं दवथुहारि हारि तद्धाम कामदमदभ्रमस्तु वः ॥१॥
भक्तिनिर्भरगभीरभारतीवैभवो भव भवन्नवेषु यः ।
शुष्कशष्पमिव तस्य भासते वासवासनपरिग्रहग्रहः ॥२॥
उल्लसत्पुलकलाञ्छितं वपुर्बाष्पपूरितपुटे विलोचने ।
गद्गदा हरहरेति भारती सम्भवन्ति भवभक्तिशालिनाम् ॥३॥
नीलकण्ठ तरुणेन्दुशेखर त्र्यम्बक त्रिनयनेति भक्तितः ।
गद्गदं निगदतस्तृणोपमं हेमपूर्णमखिलं महीतलम् ॥४॥
अन्तकभ्रुकुटिभीतिविह्वलश्वेतसान्त्वनविधौ बभूव यत् ।
मां प्रति प्रतिपदं कदर्थितं तत्क्व सम्प्रति कृपामृतं तव ॥५॥
वह्निशीतकरघर्मरश्मयो लोचनत्रितयवर्तिनस्तव ।
शीततापतिमिरार्दितस्य मे नाथ चित्रलिखिता इव स्थिताः ॥६॥
सम्भ्रमभ्रमदमन्दमन्दरक्षीरनीरधिगभीरया गिरा ।
त्रातुमर्हसि कृतान्तकिङ्करैर्मामशर्मभिरभिद्रुतं द्रुतम् ॥७॥
कालकिङ्करकरान्तरस्फुरद्भोगभोगिपरिणद्धकन्धरम् ।
अन्तरेण भवदीयहुङ्कृतिं नाथ मोचयितुमुत्सहेत कः ॥८॥
उत्कटभ्रुकुटिभीमदर्शनद्वाःस्थहुङ्कृतिखलीकृतात्मभिः ।
द्वारि यः क्षितिभुजां पराभवः सह्यते द्रविणलेशतृष्णया ॥९॥
स त्वदायतनदेहलीतले पुष्पपात्रकरपत्रिकाकरम् ।
कञ्चिदेव भवदर्चनोत्सुकं चन्द्रशेखर करोति कातरम् ॥१०॥
अन्तरेण भवदङ्घ्रिसेवनं देव केवलमियं विडम्बना ।
यन्नृणां कमलिनीदलस्खलन्नीरशीकरचला विभूतयः ॥११॥
यत्तु निर्जरतरङ्गिणीतटे सौहृदंहरिणबालकैः समम् ।
भूभृतां च तृणवद्विलोकनं श्रीरियं भव भवत्प्रसादतः ॥१२॥
त्वामुपेत्य शरणं महेश्वरं देव निःशरण एव चेदहम् ।
दोष एष मम जाह्नवीजले तर्षुलो हि शफरः स्वदुष्कृतैः ॥१३॥
गद्गदोद्गतगिरश्चिरस्थिरप्रेमहेमनिकषोपलोपमम् ।
शंसतः शिव शिवेति शाम्भवं नाम कामपि दशां प्रशास्ति मे ॥१४॥
वारि वारितभवार्ति मूर्ध्नि ते भाति भाऽतिधवले हिमत्विषः ।
तेन ते नतिमिमो दवच्छिदे देहि देहिषु करावलम्बनम् ॥१५॥
मूढमूढविपदं पदं शुचामन्धमन्धकरिपोऽरिपोथितम् ।
मोघमोघमितमेतमेनसां मां तमान्तकरतार तारय ॥१६॥
यं स्वयं स्वरसभैरवै रवैरक्षर क्षपितराक्षसेक्षसे ।
मारमार भुवि भासते स ते भानुभानुभरभासुरः सुरः ॥१७॥
बाणबाणकृतपूजनैर्जनैरादरादघटि यैस्तवं स्तवः ।
वास्तवास्तव त एव तावता बन्दिवन्दितयशोगणा गणाः ॥१८॥
त्वां सतामरसवासवाऽऽसवाः ज्ञातदुर्गमगमागमाऽऽगमाः ।
अर्चयन्ति सदिनं दिनन्दिनं गीर्भिरम्बरसदःसदः सदः ॥१९॥
न मे तथा प्रीतिमनेकपाली करोति नो वा दयिताऽङ्कपाली ।
यथोक्तिदेवी स विभुः कपाली ययाऽर्च्यते सेवकलोकपाली ॥२०॥
भवन्तमाराध्य परार्ध्यवैभवं भवं विधाय द्विषतां पराभवम् ।
भवं च जित्वा जहतः पुनर्भवं भवन्ति मुक्ताः पदमाप्य शाम्भवम् ॥२१॥
न वंशवृत्तेर्गणयामि तानवं न बन्धुरं कञ्चन नौमि मानवम् ।
नवं तवानन्दितदेवदानवं न वञ्चितोऽहं रचयन्सदा नवम् ॥२२॥
धनञ्जयाक्षं सकलार्थसाधनं धनञ्जयाराधितमाधिबाधनम् ।
धनं विदित्वा विपदां विशोधनं धनन्ति धन्या विभुमृद्धिवर्धनम् ॥२३॥
कलापिनः प्रावृषि यद्वदम्बुदध्वनिर्घनानन्दविशङ्कलापिनः ।
कलापिनद्धस्फुटजूटधारिणस्तथाऽमृतं वर्षतु गीः कलापि नः ॥२४॥
नृजन्म तस्यैव भवानवद्यं भवानवद्यन्दवमीक्षते यम् ।
त्यजत्यजातोपरमा समानं रमाऽसमानन्दकरी न चैनम् ॥२५॥
अतः परं जगति किमस्ति नीरसं यदुक्तमप्यसकृदुदीर्यते वचः ।
सहस्रशश्चिरमपि चर्विता पुनर्नवन्नवं स्रवति रसं शिवस्तुतिः ॥२६॥
मृत्युं मृत्युञ्जय जय जगद्घस्मरं भस्मभावं
कामं कामं नय नयनजोद्धामधामच्छटाभिः ।
भव्याभ व्याकुलकुलवधूरुत्कयेत्याचरन्तं
सत्रासत्राणचण चरितान्यद्भुतानि स्तुमस्त्वाम् ॥२७॥
यत्तत्सर्गनिसर्गनिर्मितिकरं यद्रावणद्रावण-
व्यापाराऽवसरावसक्तमथ यत्संवर्तसंवर्तकम् ।
स्वाभासं भवसम्भवस्थितिलयस्फारोचितं रोचितं
भासा कारणकारणं दिशतु तद्धामेहितं मे हितम् ॥२८॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``हितस्तोत्रं'' नाम चतुर्दशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP