प्रभुप्रसादनं त्रयोदशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः ।
विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥१॥
सुरमुकुटविटङ्करत्नरोचिःखचितनखाङ्कुरकेसराभिरामम् ।
पुरहरचरणारविन्दयुग्मं शिरसि विधत्त किरीटवाञ्च्छया किम् ॥२॥
कलयतु भवतामभग्नवृत्तिर्हरहरशङ्करशङ्करेति सूक्तिः ।
अविरलगलमण्डनप्रतिष्ठां किममलमौक्तिकदामकामनाभिः ॥३॥
कलयत मणिकुण्डलेऽवलेपं श्लथयत निर्म्मलमल्लिकाभिलाषम् ।
हरचरितनुतिक्रमैरजस्रं कुरुत नवश्रवणावतंसलीलाम् ॥४॥
इह विहतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् ।
नमति न मतिमानमानवीयप्रमदविधानपरं परं हरं कः ॥५॥
त्रिजगति भजति स्थितिं बुधानां धुरि दुरितक्षतिशिक्षितः स एकः ।
शशिशकलशिखामणिप्रणामप्रणयि बिभर्ती शिरश्चिरस्थिरं यः ॥६॥
स जयति जगदीशशक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी ।
रसमसमचमत्कृतिप्रसूतिं वितरति काञ्चनसिद्धिमेति येन ॥७॥
इह विदधतु नाम पामराणां प्रणतिकृतामपरे प्रभुप्रतीतिम् ।
प्रभवति न तु मृत्युभीतिभङ्गे जगति भवन्तमृतेऽमृतेश कश्चित् ॥८॥
वियदियति महस्विमण्डले कः श्रितवति कर्तुमनष्टचेष्टमीष्टे ।
विषमतमतमः प्रबन्धमन्धं जगदगदं घृणिमन्तमन्तरेण ॥९॥
शकलितकलितर्ष सप्रकर्ष प्रकटितहर्ष महर्षभाधिरूढ ।
दिश विशदमदभ्रमभ्रसिन्धुद्रवधवलं भवलङ्घनं प्रसादम् ॥१०॥
प्रभवति भवति प्रसादरम्यां दिशति दृशं न विभा विभावरीणाम् ।
सवितरि वितरिष्यति प्रकाशं नहि महिमप्रभवो विभावरीणाम् ॥११॥
समुचितसदसद्विचारचर्याचतुरतरः कतरः कलौ मदन्यः ।
इह परमशिवं भवं विजेतुं परमशिवं भवमेव सेवते यः ॥१२॥
शमयितुमलमग्निमग्निरेव ग्लयपति हन्त हिमं हिमं विवृद्धम् ।
जरयति च पयः पयः किमन्यद्धरति भवं भव एव भक्तिभाजाम् ॥१३॥
वरमजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः ।
स्मरहरचरणारविन्दसेवाविरहवती न तु चक्रवर्तिमूर्तिः ॥१४॥
मरुभुवि वरमुष्णरश्मिरश्मिप्रकरकदर्थितमूर्तिरेकभेकः ।
न तु भवदनुरागभागधेयग्लपनविपद्विकलीकृतो मनुष्यः ॥१५॥
कलिमलपटली मलीमसत्वं नयति मतिं हतदर्प दर्पणाभाम् ।
इति शितिगल शीतरश्मिप्रसरसितं रसितं तवाऽर्थयामः ॥१६॥
नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते कृतान्तः ।
अपि कवलितसप्तलोकलोकः प्रभवति नैव तदैष मे कृतान्तः ॥१७॥
तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः ।
परिचरणपरः पुराविरासीत् स जयति दैवतमुत्तमं कृशानुः ॥१८॥
समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः ।
उपकरणपदं जगाम कृत्तिस्तव चरणास्तरणक्रमेण यस्य ॥१९॥
जनिरपि जयति विनीतरीतिर्जगति भुजङ्गमपुङ्गवस्य तस्य ।
मणिकटकमुदस्य यस्य शस्यं भव भवदङ्गदभङ्गिमेति भोगः ॥२०॥
अलभत भगवन्नबन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुङ्गवेन्द्रः ।
तव भव शवभस्मरूषितोंऽघ्रिः शिरसि धृतो विनयानतेन येन ॥२१॥
जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य ।
त्रिभुवनमहितस्य यस्य कृत्तिर्भव भवदम्बरडम्बरं बिभर्ति ॥२२॥
स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः ।
तव कवलभुवं जवादवाप्तः कलयति यःशितिकण्ठ कण्ठपीठम् ॥२३॥
परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः ।
इति शुभमुभयं विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दो ॥२४॥
हिमहिमकरहारि वारि गाङ्गं कुवलयकान्तिकलिन्दकन्यकाम्भः ।
इति शुभमुभयं प्रभुप्रसादाद्वपुरिव हारिहरं वरं प्रपद्ये ॥२५॥
धृतकुटिलकलः किलान्धकारी रुचितमलीमसभोगिभोगयोगः ।
त्वयि सपदि पराङ्मुखे यथाऽहं त्वमिव महाकलिकालभग्नशक्तिः ॥२६॥
कवलितविषमक्लमं दधानः सततसमाश्रिततारकारिरूपम् ।
द्विजपतिमुकुटस्तथैव जातु त्वमिव शिव त्वयि सम्मुखे भवेयम् ॥२७॥
जय जयद वचो विमुञ्च मुञ्चन्मधु मधुरं जनरञ्जनप्रगल्भम् ।
हर हर दुरितं ममाऽद्य माद्यद्भव भव भीमदभीमदर्शनस्त्वम् ॥२८॥
निजवृजिनविजृम्भितं ममैतत्त्रिजगदनुग्रहनित्यदीक्षितस्त्वम् ।
क्वचिदपि भगवन्नदृष्टपूर्वं प्रथयसि यन्मयि विह्वलेऽवलेपम् ॥२९॥
प्रणमति विधुरे पुरोऽवलग्ने दधति मयि प्रसभं गदाभियोगम् ।
किमिति परिजने दयामृतार्द्रां दृशमपकारवतीव नो दधासि ॥३०॥
स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार चक्षुः ।
बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥३१॥
हिमकरमकरध्वजौ न रूपं कविधिषणौ धिषणौचितीं न तीव्राम् ।
रणमरुणमरुत्सखौ जिगीषोरनुहरतो हरतोषिणो न तेजः ॥३२॥
रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी श्रीः ।
भव न भवनमुज्झति क्षणं यत्सुकृतवतां तव तां प्रणौमि शक्तिम् (भक्तिम्)॥ ३३॥
यदभयद भवत्यवस्थितेऽन्तः समहिम नो हि मनो विशोकमासीत् ।
विशदविशदकर्मकर्दमे तत्सपदि विषादि विषाद केन जातम् ॥३४॥
नयविनयविशुद्धमन्तरुद्यद्दहनसमानसमाप्तरोषदोषम् ।
यमनियमनियन्त्रितं मनो मे कुरु सविलासविलासिनीविरक्तम् ॥३५॥
अवसरसरसालसालघूद्यन्मधुरवधूरवधूतचित्तचिन्तः ।
स सकलकलधौतधौत मूर्तिस्तव नतिमानतिमात्रचित्रचिद्यः ॥३६॥
मलमलमलघुं विहन्तुमाप्तुं मुदमुदयं समयं समर्थ्य चान्तः ।
महमहमहहेश्वरप्रशंसामयमयमाश्रयमाश्रयं सुखानाम् (गुणानाम्)॥ ३७॥
गुणिभिर्विबुधैर्हरीन्द्रमुख्यैर्भव संसाररिपोर्द्विषः स्तुतस्य ।
हितमातनुते तव प्रसादादसुहृत्प्राणहरोऽपि पुण्यभाजाम् ॥३८॥
अपि नाथ जनार्दनस्य विष्णोरपि वैकुण्ठ इति प्रसिद्धिभाजः ।
अधिकंसरुषोऽपि चेद्भवत्तो झगितिप्रागभवत्सुदर्शनाप्तिः ॥३९॥
अपि सर्वजनाऽविरुद्धबुद्धेरपि तीक्ष्णस्य परं जितक्रुधोऽपि ।
न कथं मम साधुनाऽपि यद्वा जगदीशोऽसि विभुः किमुच्यते ते ॥४०॥
सुमनःसुलभे तथा न नाके सुमनःसुन्दरसौरभे न चास्थाम् ।
सुमनःसु च नाश्नुते सुधार्द्रासु मनः सुष्ठु यथा भवत्कथासु ॥४१॥
श्रीर्देवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः ।
सा यस्मादजनि तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥४२॥
नार्हत्यमन्दरयमन्दरयत्नलब्धा
स्पर्धां सुधा न वसुधाऽनवधिश्च यस्य ।
सोऽयं नवः शिवनवः शिवतातयेऽस्तु
विद्वत्सभाजनसभाजनभाजनं वः ॥४३॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``प्रभुप्रसादनं'' नाम त्रयोदशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP