संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् Translation - भाषांतर जयति संयति सङ्गतपाण्डव-प्रहरणाहरणाहितकैतवः ।तरुणदारुणदाशवपुर्धृत-स्थिरयशा रयशालिशरो हरः ॥१॥भुवनपावनपादमधर्षितंमघवताऽघवतामपि सस्पृहम् ।मुनिजनीनिजनीतिपरीक्षणेधवलकेवलकेलिकृतं स्तुमः ॥२॥स्थिरमगारमगात्मजया श्रितंस्मरविकारविकासपराङ्मुखम् ।भुजगराजगराग्निशिखावली-विषमवेषमवेपथुदायिनम् ॥३॥शमिषु कामिषु कारुणिकेषु वावरमघोरमघोपशमक्षमम् ।घनविपन्नविपन्निधने सदापरमधीरमधीशमुपास्महे ॥४॥श्रुतनयास्तनयास्तनुमध्यमायुवतयो बत योगिमनोहृतः ।यदघनामघनामयवैशसंतदमृतेशमृते शमयन्ति किम् ॥५॥न हरिणा हरिणाङ्कशिखामणेन विधिना विधिनाऽपि सपर्यता ।तव पुरा वपुराममृशे वयंक्व नु भवानुभवावृतचेतसः ॥६॥चतुरगास्तुरगा नगजा गजाःस्थिरमुदारमुदात्तबलं बलम् ।प्रभवता भवता विहिते हितेप्रतिदिशन्ति दिशं कमलामलाम् ॥७॥द्विजसमाजसमाधिकदर्थन-प्रवणरावणराज्यहृतौ कृती ।चरणयो रणयोग्यबलोऽभव-न्नवनतो वनतो भरताग्रजः ॥८॥शुभरतो भरतोऽप्यभवद्द्विषद्-गरिमहारिमहाः समवाप्य यम् ।दिश तमीश तमीपतिशेखरस्थिरमनुग्रमनुग्रहमेहि मे ॥९॥भृशमनीशमनीतिपथस्थितंमदवशादवशाक्षमुपप्लुतम् ।अहरहर्हर हर्षयते न किंहितवती तव तीव्रशुचं रुचिः ॥१०॥कुशलपेशलपेलवदृग्वमन्रसनया सनयार्त्तिहृतामृतम् ।मदनसादन सान्त्वय सम्पदा-मपदमापदमाश्रितमेहि माम् ॥११॥कथमनाथमनागसमन्तिकेमदनमर्दन मर्षयसे न माम् ।भुवनभावन भाति विना त्वयाजगति कोऽगतिकोद्धरणक्षमः ॥१२॥यदि कृपापर पापरतस्य मेन कुरुषे परुषे पदमाशये ।हिततमा कतमा कलुषात्मनोमम हराऽमहरा घटते गतिः ॥१३॥स्थिरविभा रविभातिरिवोन्मदंमदमयं दमयन्त्यसमन्तमः ।तव दया वद यात्युदयं न चेद्भवतमी बत मीलति मे कथम् ॥१४॥रजनिराजनिराकरणक्षमःक्षतनिशातनिशातिमिरोत्करः ।कृतविभातविभाभरभास्वरोदिनकरो न करोत्युदयं यदा ॥१५॥दिवि यदा वियदाभरणं कृपा-परमते रमते न सुधाकरः ।न शुचिराशु चिरापतितं यदास्थिरमपारमपाकुरुते तमः ॥१६॥तनुकृशानुकृशां ग्रसते यदामिहिरजाहिरजातघृणस्तनुम् ।शिव तदा बत दास्यति मे धृतिंत्वदितरः कतरः करुणापरः ॥१७॥निधनसाधनसान्द्रलसद्विषा-नलकरालकरात्तमहोरगः ।नियमनाय मनाङ्मम सस्पृहेभवति धावति धाम यमः कथम् ॥१८॥पलितमीलितमीश मम स्मर-श्चतुरमातुरमारचयन्वपुः ।घनबलेऽनवलेपपरे त्वयिप्रभविता भवितापकरः कथम् ॥१९॥किमधुना मधुनापि युतो वहन्रतिमभीतिमभीष्टतमामपि ।श्रितमवन्तमवन्ध्यबलं विभुंजयति मां यतिमानहरः स्मरः ॥२०॥विषमरोषमरोः पथि पातय-न्मतिमनीतिमनीक्षितसत्पथाम् ।भृशमयं शमयन्नियमं कथंतव पुरो वपुरोषति मे मदः ॥२१॥मम निकामनिकारकृतो वृथावपुरवापुरवार्यरुषोऽरयः ।न हि तदाहितदाहमदन्त्यमीतव हितावहिता हि नतेषु धीः ॥२२॥यदि विभा दिवि भाति न तावकीयदि न मे दिनमेति भवन्मयम् ।वद महादमहारि तमः कथंविषमदोषमदो विनिवर्तते ॥२३॥कमलिनी मलिनीक्रियते ययाविहतसन्ततसन्तमसापि या ।स्मरचिता रचितापि च यत्र तांवितर कातरकामदुघां दृशम् ॥२४॥तुहिनवाहिनवानिलजे मनःसहसि रंहसि रञ्जयति प्रिया ।न रसिकोरसि कोष्णकुचा तथातव गुणानुगुणा नुतिगीर्यथा ॥२५॥अयमसौ यमसौष्ठवहृत्पुरःपरुषपौरुषपौष्टिकचेष्टितः ।विधुरबन्धुरवन्ध्यपरिग्रहःस्फुरति मे रतिमेत्य महेश्वरः ॥२६॥अनिधनेन धनेन मनस्विना-मनुगुणेन गुणेन गरीयसा ।अभिजनेन जनेन सुदुष्कृतै-रशबलेन बलेन च वर्धते ॥२७॥अभिनवेन नवेन शिवस्य यःस्तुतिमुदारमुदारभतेऽमुना ।अवहितस्य हि तस्य तनोति शंविभवदो भवदोषहरो हरः ॥२८॥स सकलासु कलासु विचक्षणःस मतिमानतिमानसमुन्नतः ।न शशिखण्डशिखण्डमृते स्तुतिंसुकृतवान् कृतवानपरस्य यः ॥२९॥रविरहो विरहोद्धरणाद्दि-शन्धृतिमुदेति मुदे रथपक्षिणाम् ।यदविषादविषाभिभवं जग-त्कृतमसन्तमसं स्तुतिभिः प्रभोः ॥३०॥विनयशोभिः यशोभिरतं मनःपरहितारहिता विमला मतिः ।विपुलमङ्गलमङ्गमिति प्रभोःप्रतिफलन्ति फलं स्तुतिवीरुधः ॥३१॥जितसुधारसुधारसभारती-विभवसम्भवसम्भृतकीर्तयः ।कविबुधा विबुधाधिपवन्दितंसुकृतिनः कृतिनः स्तुवते शिवम् ॥३२॥न महतामहतामलसंविदांमदयिता दयिताधिगमस्तथा ।मधुरसाधुरसार्द्रपदा यथासयमका यमकामरिपुस्तुतिः ॥३३॥का नाम नामरवधूरवधूतकान्ताकान्ता न का नरजनी रजनीपतिश्रीः ।श्रीमन्तमन्तकरिपुं करिपुङ्गवान्त-हेतुं स्तुवन्तमविरामविरावमेति ॥३४॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``पादमध्ययमकाख्यं'' सप्तविंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP