संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| करुणाराधनं पञ्चदशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् करुणाराधनं पञ्चदशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति करुणाराधनं पञ्चदशं स्तोत्रम् Translation - भाषांतर अधुना तपसेव देवतामभि योगेन सरस्वतीमिव ।सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥१॥प्रतिभामिव काव्यकर्म्मणा वसुना कीर्तिमिवार्थिगामिना ।मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र सद्गतिम् ॥२॥करुणां हरिणाङ्कलक्ष्मणः सकलार्थाऽर्पणकल्पवल्लरीम् ।विपदन्तकरीमुपासितुं स्तुतिलेशेन मनः प्रवर्तते ॥३॥करुणां भवतो विकासिनीममलैरीश गुणैरलङ्कृताम् ।नलिनीमलिनीव भारती भजतीयं मम वल्गुवादिनी ॥४॥उपलक्ष्य तवान्धकारितां मयि धत्ते पदमन्धकारिता ।विषमामवलोक्य ते दृशं मम दृष्टिर्विषमत्वमश्नुते ॥५॥तव वीक्ष्य वृषाधरीकृतिं घटते मेऽपि वृषाधरीकृतिः ।धृतवक्रकलत्वमीक्ष्य ते प्रथते वक्रकलत्वमेव मे ॥६॥तव वीक्ष्य च भग्नकामतामुदितेयं मम भग्नकामता ।करुणामपि ते समीक्ष्य मे करुणा गीर्न कथं प्रवर्तताम् ॥७॥ससुरासुरमानुषं जगद्यदधीनं स भवानपीश्वरः ।वशवर्तिपदे ययाऽर्पितो जयतीयं करुणैव तावकी ॥८॥करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि ।उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥९॥करुणा तव शस्यते यया जितकामोऽपि भवान् वशीकृतः ।इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम् ॥१०॥जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभस्वता ।धृतमुष्णरुचात्मना च यत्करुणाया महिमा तवेश सः ॥११॥अहतप्रसरां प्रसादिनीं सहसाऽपोहिततापसम्पदम् ।शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव पावनीम् ॥१२॥प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा ।तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं पदम् ॥१३॥भुजगा इव चन्दनद्रुमं ग्लपयन्तो विषमा नयन्ति माम् ।परिहार्यदशामरातयो मदमानप्रमुखा धृतिच्छिदः ॥१४॥करुणामरुणाऽनुजन्मनस्तनुमुच्चैरिव पक्षपातिनीम् ।समुपैमि धृताच्युतश्रियं शरणं भूधरपुत्रिकापतेः ॥१५॥स्फुरितारुणचारुचक्षुषा वपुषा निर्भरघर्मविप्रुषा ।परुषाशयतामुपेयुषा सरुषा यत्प्रहरन्ति योषितः ॥१६॥भगवन् दृढबद्धमूलयोर्द्विषतोरेष सहस्रशाखयोः ।अविषह्यनिपातपीडयोरनुभावः कुसुमेषुरोषयोः ॥१७॥अनयोः करुणैव तावकी नियतं मूलनिकृन्तनक्षमा ।यमलाऽर्जुनयोरिवोर्जिता शिशुलीला नरकान्तकारिणः ॥१८॥न विधिर्निधिलाभसम्भृतो न विनोदो मृगनाभिसम्भवः ।न च शारदचन्द्रचन्द्रिका न कलं कोकिलकण्ठकूजितम् ॥१९॥न शिशोरसमञ्जसं वचो न मृगाक्षीपरिरम्भविभ्रमः ।मधुरा न कवीन्द्रभारती न च साम्राज्यविभूतिजृम्भितम् ॥२०॥न रसायनपानकौतुकं न च शक्रासनवासवासना ।परिपूरयितुं क्षमेत ते करुणाया हर षोडशीं कलाम् ॥२१॥सुरभिर्न मम स्पृहास्पदं सुरभिर्दक्षिणमारुतोऽपि वा ।सुरभिक्षुवितीर्णवाञ्छिता सुरभिर्नो करुणा यथा तव ॥२२॥समुदेति यदश्रु शोकजं रुचिरानन्दमयं विभाति तत् ।पुलकः प्रथते भयेन यः स चमत्कारकृतः प्रवर्तते ॥२३॥क्लमजं दृशि यन्निमीलनं परमार्थानुभवादुदेति तत् ।शरणं करुणामुपेयुषां कृतिनां चन्द्रकिरीट तावकीम् ॥२४॥भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे ।करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते ॥२५॥भगवन् मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् ।जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥२६॥कुपितान्तककिङ्करेरितः कुटिलां तद्भ्रुकुटिं विडम्बयन् ।न घनाञ्जनपुञ्जसन्निभो भुजगो यावदुपैति कन्धराम् ॥२७॥न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना ।गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥२८॥यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी ।बत दुःसहतापसम्पदामितरा का शरणार्थिनां गतिः ॥२९॥न समानसमागमां तथा प्रमदाय प्रमदा यतात्मनाम् ।शिवदा शिवदास्यकृद्यथा स्वदमानस्वदमाऽनघा मतिः ॥३०॥एकः पुरन्दरपुरं दरवेल्लितभ्रूःकिंस्विज्जनङ्गमजनं गमयेन्महर्षिः ।किं तामसं पदमसम्पदमिन्द्रमन्योधन्योदया भव दया भवतो न चेत्स्यात् ॥३१॥आर्द्रे मनस्युदितमार्तजनोपताप-सम्पर्कतोऽथ दृशि कन्दलितं शुभायाम् ।वाचि क्षणात्कुसुमितं फलितं च कृत्येकारुण्यबीजमजरं जयतीन्दुमौलेः ॥३२॥रोगैरुग्रैरखिलविगलत्सौष्ठवो नष्टचेष्टःपर्यस्ताङ्गोऽशुचिनि शयने भग्नसर्वाभ्युपायः ।यावज्जीवं विहितमहितं कर्म कर्तव्यमूढःस्मृत्वा स्मृत्वा दलितहृदयः कातरः कान्दिशीकः ॥३३॥तर्षोत्कर्षात्कलुषपरुषैः कर्मभिः शर्महृद्भि-र्यत्सम्प्राप्तं कथमपि(कृशमपि)भृशं क्लेशयित्वा शरीरम् ।रिक्थग्राहैर्द्रविणमखिलं लुण्ठ्यमानं तदग्रेपश्यन्नश्यत्सकलकरणो दह्यमानः शुचान्तः(शुचार्त्तः)॥ ३४॥शोकोद्रेकादविरलगलद्बाष्पपूर्णेक्षणाभिःसत्पत्नीभिश्चकितचकितं(चकितैः)लोचनैरीक्ष्यमाणः ।पुत्रैर्मित्रैः सहजसचिवैर्बन्धुभिर्भृत्यवर्गै-राक्रन्दद्भिः करुणकरुणैः पीड्यमानः प्रलापैः ॥३५॥स्वस्थावस्थैर्भृशमशुचिताशङ्किभिर्वेश्मगर्भा-दन्तर्लीनस्मृतिरपि हठान्निष्ठुरैः कृष्यमाणः ।यस्मिन्काले कवलितवपुर्मृत्युनाऽभ्येति भीतिंतत्र त्राता क इव करुणामैश्वरीमन्तरेण ॥३६॥वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुःशिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः ।तथापि प्रत्यग्रं शरणमुपयातं प्रति विभो-रखण्डो व्यापारो जगति करुणाया विजयते ॥३७॥जय जितामय जय सुधामय जय धृतामृतदीधितेजय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते ।जय परापर जय दयापर जय नताऽर्पितसद्गतेजय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥३८॥स्थानाऽस्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितःसत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्चोद्यमः ।तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ-न्मेघः स त्वखिलार्तिहृद्विजयते माहेश्वरोऽनुग्रहः ॥३९॥बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् ।भजताऽनिरुद्धहृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥४०॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``करुणाराधनं'' नामकं पञ्चदशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP