भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
यत्ते परं वरद रूपमतीतमेव
मार्गं गिरां तदिह कः क्षमते गृणातुम् ।
अग्राहि यत्तु नतलोकमनुग्रहीतुं
बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥१॥
आस्तां परं यदपरं तदपि स्वकीयं
दिव्यं वपुर्नहि महेश विमर्शयोग्यम् ।
यत्किञ्चिदेव तु विकल्पविकल्प्यमान-
मानन्दधाम तदपीह भवार्तिभाजाम् (भवार्द्दितानाम्)॥ २॥
मूर्त्तिर्ध्रुवं तव शिवामृतवर्तिरेना-
मासाद्य यत्कतिचिदश्रुलवाः पतन्ति ।
नश्यत्यघौघपटलं तिमिरं व्यपैति
रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥३॥
सत्यं महार्घगुणरत्न निधानमेत-
दालम्बनं तव वपुर्विपदर्दितानाम् ।
नो चेन्नखांशुभरकेसरितं किमत्र
पादाभिधं युगपदुद्गतमब्जयुग्मम् ॥४॥
पादद्वयं तव भव प्रणतिप्रकर्ष-
हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् ।
नीहारशीकरपरिष्कृतपत्रपङ्क्ति-
पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥५॥
भस्मोज्ज्वलं त्रिदशशेखरपद्मराग-
दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् ।
वन्दामहे घुसृणरेणुपरागगर्भ-
कर्पूरपांसुभिरिवच्छुरितं स्मरारेः ॥६॥
जङ्घालतायुगलमाश्रितगुल्फमूल-
भोगीन्द्रभोगसुभगाभिनवालवालम् ।
शम्भोरभीष्टफलदं भवतापतान्ति-
शान्तिक्षमं शमयितुं विपदं श्रयामि ॥७॥
वन्दे युगान्तसमयोषितसप्तलोकं
लोकोत्तरं जठरमीश्वरभैरवस्य ।
यत्रैति नाभिकुहरं जगदादिसर्ग-
निर्यज्जनौघनवनिर्गममार्गभङ्गिम् ॥८॥
सिन्दूरिताऽमरमतङ्गजकुम्भशोभि
सन्ध्याभिताम्रशरदम्बुधरानुकारि ।
वन्दे फणीन्द्रफणरत्नरुचारुणाभं
भस्मौघभास्वरमुरः पुर(स्मर)शासनस्य ॥९॥
स्वामिन्नमी तव भुजा भुजगाधिराज-
भोगोपगूढवपुषो हृदयं मदीयम् ।
आनन्दयन्ति बत भीमभवोपताप-
निर्वापणेन विटपा इव चन्दनस्य ॥१०॥
मध्यस्थितेरुभयपार्श्वगता चकास्ति
हस्तस्य मेरुपरिमर्शविनाकृतेयम् ।
अव्याहतग्रहवशाहितयोगसिद्धि-
र्नक्षत्रपङ्क्तिरिव देव तवाऽक्षमाला ॥११॥
त्वं कालभैरववपुर्ज्वलिताऽनलाश्रि
लोलाङ्गुलीवलनमण्डलितं दधानः ।
संहाररात्रिषु निनर्तिषुरीश शूलं
बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥१२॥
शाणोपलोत्कषणशुद्धनवेन्द्रनील-
नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः ।
यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द-
कन्याहृदान्तरितकालियभङ्गिमेति ॥१३॥
कण्ठो वहन्नपि विषं विषमं तवैषः
सद्यः श्रियं सृजति यद्वचसाश्रितेषु ।
स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं
श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥१४॥
अन्तर्विमृश्य गरलेन गले सलील-
मालिङ्गितं विमलमाननमिन्दुमौलेः ।
हृष्यामि हन्त मुहुरम्बुरुहभ्रमाप्त-
रोलम्बडम्बरविडम्बनपण्डितेन ॥१५॥
यद्वद्विषं सदमृतं शिरसि प्रसिद्ध-
मम्भस्तवेश विशदं सुमनःस्रवन्त्याः ।
मन्ये तथैव भगवन् भवतो गलस्थं
सम्पद्यतेऽमृतमिदं नतसान्त्वनेषु ॥१६॥
तद्युक्तमीश वदनाद्भवतः सुधाच्छ-
कान्तेर्यदग्निरपतद्वपुषि स्मरस्य ।
यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु-
रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥१७॥
दिष्ट्या विरुद्धजनता दमयन्त्यपीयं
दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् ।
दिष्ट्या वनैकरतिरप्यवनैकसक्ति-
रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥१८॥
धन्यस्य यस्य वपुषि ग्लपिते तपोभिः
स्वामिन् पतन्ति विषमाणि तवेक्षणानि ।
मुष्णन्ति मुग्धमृगशावदृशां न धैर्य-
सर्वस्वमस्य विषमाणि विलोचनानि ॥१९॥
सत्येव दृग्विलसिते करुणामृतौघ-
शीते जरामरणहारिणि तावकीने ।
नाथ व्यधायि विबुधैरबुधैर्मुधैव
दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥२०॥
श्वेतेऽमृतं यदसृजद्रविजे च वह्नि-
मेकैव दृक्तव तयोः स निजः प्रभावः ।
इक्षौ सुधा विषमुषाणफले च सार्धं
यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥२१॥
नूनं पयोधिमथनावसरे परेश
पीतं त्वया तदमृतं न तु कालकूटम् ।
अद्यापि यद्वसति ते वचनक्रमे च
दृग्विभ्रमे च तरुणे करुणारसे च ॥२२॥
सत्यं प्रसादसमये चपलत्वमेति
धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः ।
एतां विना पुनरनर्गलकालपाश-
पाते परास्ति न गतिर्भयविह्वलानाम् ॥२३॥
आपूरितः सुरसरित्पयसाऽमृताय
जूटः प्रतप्ततपनीयपिशङ्गकान्तिः ।
स्वामिन्नसौ तव नवातपताम्रवेला-
शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥२४॥
स्वामिन्सुधावदवदातरुचिस्तवेय-
माभाति हन्त मुकुटे नृकपालमाला ।
जूटान्तरालविलसत्सुरसिन्धुतीर-
लीलाविहाररसिकेव मरालमाला ॥२५॥
ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि
यान्यर्पितानि परमेश्वर पादपीठे ।
तान्येव मूर्धनि यदाभरणीकरोषि
स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥२६॥
निर्वाणमेति न जलैरपि यत्र वह्नि-
र्यत्रैष नो पचति तानि महाशिखोऽपि ।
मान्द्यं न विन्दति तमीरमणः कृशोऽपि
ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥२७॥
भालस्थले हुतवहं वहतो जलं च
चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् ।
एकत्र मुण्डमपरत्र सुधाघटं च
हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥२८॥
दाने नदीनमुपकल्पयतः सहर्ष-
माक्रम्य गामनुपमां गतिमास्थितस्य ।
नागेन्द्रसम्भृतमहाकटकस्य कस्य
शस्यं विना त्वदिह राजशिरोमणित्वम् ॥२९॥
कण्ठे विषं विषभृतोऽपि विभूषणानि
गात्रेषु मूर्धनि विषं विबुधस्रवन्त्याः ।
इत्थं विषैकवसतेरपि ते चकास्ति
कर्णामृतं सुकृतिनाममृतेशनाम ॥३०॥
क्षतविभवविशेषाः प्राणमात्रावशेषा
विपदमनुभवामः कर्मपाको हि वामः ।
तदिह भुजगहारः कॢप्तमोहापहारः
स भवति गतिरेकः कृत्तशोकातिरेकः ॥३१॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``भगवद्रूपवर्णनं'' नामैकोनविंशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP