संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् Translation - भाषांतर यत्ते परं वरद रूपमतीतमेवमार्गं गिरां तदिह कः क्षमते गृणातुम् ।अग्राहि यत्तु नतलोकमनुग्रहीतुंबालेन्दुलक्ष्म भवता तदिदं गृणामि ॥१॥आस्तां परं यदपरं तदपि स्वकीयंदिव्यं वपुर्नहि महेश विमर्शयोग्यम् ।यत्किञ्चिदेव तु विकल्पविकल्प्यमान-मानन्दधाम तदपीह भवार्तिभाजाम् (भवार्द्दितानाम्)॥ २॥मूर्त्तिर्ध्रुवं तव शिवामृतवर्तिरेना-मासाद्य यत्कतिचिदश्रुलवाः पतन्ति ।नश्यत्यघौघपटलं तिमिरं व्यपैतिरागः प्रशाम्यति दृशः प्रथते प्रसादः ॥३॥सत्यं महार्घगुणरत्न निधानमेत-दालम्बनं तव वपुर्विपदर्दितानाम् ।नो चेन्नखांशुभरकेसरितं किमत्रपादाभिधं युगपदुद्गतमब्जयुग्मम् ॥४॥पादद्वयं तव भव प्रणतिप्रकर्ष-हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् ।नीहारशीकरपरिष्कृतपत्रपङ्क्ति-पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥५॥भस्मोज्ज्वलं त्रिदशशेखरपद्मराग-दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् ।वन्दामहे घुसृणरेणुपरागगर्भ-कर्पूरपांसुभिरिवच्छुरितं स्मरारेः ॥६॥जङ्घालतायुगलमाश्रितगुल्फमूल-भोगीन्द्रभोगसुभगाभिनवालवालम् ।शम्भोरभीष्टफलदं भवतापतान्ति-शान्तिक्षमं शमयितुं विपदं श्रयामि ॥७॥वन्दे युगान्तसमयोषितसप्तलोकंलोकोत्तरं जठरमीश्वरभैरवस्य ।यत्रैति नाभिकुहरं जगदादिसर्ग-निर्यज्जनौघनवनिर्गममार्गभङ्गिम् ॥८॥सिन्दूरिताऽमरमतङ्गजकुम्भशोभिसन्ध्याभिताम्रशरदम्बुधरानुकारि ।वन्दे फणीन्द्रफणरत्नरुचारुणाभंभस्मौघभास्वरमुरः पुर(स्मर)शासनस्य ॥९॥स्वामिन्नमी तव भुजा भुजगाधिराज-भोगोपगूढवपुषो हृदयं मदीयम् ।आनन्दयन्ति बत भीमभवोपताप-निर्वापणेन विटपा इव चन्दनस्य ॥१०॥मध्यस्थितेरुभयपार्श्वगता चकास्तिहस्तस्य मेरुपरिमर्शविनाकृतेयम् ।अव्याहतग्रहवशाहितयोगसिद्धि-र्नक्षत्रपङ्क्तिरिव देव तवाऽक्षमाला ॥११॥त्वं कालभैरववपुर्ज्वलिताऽनलाश्रिलोलाङ्गुलीवलनमण्डलितं दधानः ।संहाररात्रिषु निनर्तिषुरीश शूलंबालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥१२॥शाणोपलोत्कषणशुद्धनवेन्द्रनील-नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः ।यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द-कन्याहृदान्तरितकालियभङ्गिमेति ॥१३॥कण्ठो वहन्नपि विषं विषमं तवैषःसद्यः श्रियं सृजति यद्वचसाश्रितेषु ।स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठंश्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥१४॥अन्तर्विमृश्य गरलेन गले सलील-मालिङ्गितं विमलमाननमिन्दुमौलेः ।हृष्यामि हन्त मुहुरम्बुरुहभ्रमाप्त-रोलम्बडम्बरविडम्बनपण्डितेन ॥१५॥यद्वद्विषं सदमृतं शिरसि प्रसिद्ध-मम्भस्तवेश विशदं सुमनःस्रवन्त्याः ।मन्ये तथैव भगवन् भवतो गलस्थंसम्पद्यतेऽमृतमिदं नतसान्त्वनेषु ॥१६॥तद्युक्तमीश वदनाद्भवतः सुधाच्छ-कान्तेर्यदग्निरपतद्वपुषि स्मरस्य ।यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु-रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥१७॥दिष्ट्या विरुद्धजनता दमयन्त्यपीयंदृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् ।दिष्ट्या वनैकरतिरप्यवनैकसक्ति-रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥१८॥धन्यस्य यस्य वपुषि ग्लपिते तपोभिःस्वामिन् पतन्ति विषमाणि तवेक्षणानि ।मुष्णन्ति मुग्धमृगशावदृशां न धैर्य-सर्वस्वमस्य विषमाणि विलोचनानि ॥१९॥सत्येव दृग्विलसिते करुणामृतौघ-शीते जरामरणहारिणि तावकीने ।नाथ व्यधायि विबुधैरबुधैर्मुधैवदुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥२०॥श्वेतेऽमृतं यदसृजद्रविजे च वह्नि-मेकैव दृक्तव तयोः स निजः प्रभावः ।इक्षौ सुधा विषमुषाणफले च सार्धंयद्वर्धते किमपराध्यति तत्र वृष्टिः ॥२१॥नूनं पयोधिमथनावसरे परेशपीतं त्वया तदमृतं न तु कालकूटम् ।अद्यापि यद्वसति ते वचनक्रमे चदृग्विभ्रमे च तरुणे करुणारसे च ॥२२॥सत्यं प्रसादसमये चपलत्वमेतिधत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः ।एतां विना पुनरनर्गलकालपाश-पाते परास्ति न गतिर्भयविह्वलानाम् ॥२३॥आपूरितः सुरसरित्पयसाऽमृतायजूटः प्रतप्ततपनीयपिशङ्गकान्तिः ।स्वामिन्नसौ तव नवातपताम्रवेला-शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥२४॥स्वामिन्सुधावदवदातरुचिस्तवेय-माभाति हन्त मुकुटे नृकपालमाला ।जूटान्तरालविलसत्सुरसिन्धुतीर-लीलाविहाररसिकेव मरालमाला ॥२५॥ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसियान्यर्पितानि परमेश्वर पादपीठे ।तान्येव मूर्धनि यदाभरणीकरोषिस प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥२६॥निर्वाणमेति न जलैरपि यत्र वह्नि-र्यत्रैष नो पचति तानि महाशिखोऽपि ।मान्द्यं न विन्दति तमीरमणः कृशोऽपिताभ्यामसौ विजयते शितिकण्ठ जूटः ॥२७॥भालस्थले हुतवहं वहतो जलं चचन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् ।एकत्र मुण्डमपरत्र सुधाघटं चहस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥२८॥दाने नदीनमुपकल्पयतः सहर्ष-माक्रम्य गामनुपमां गतिमास्थितस्य ।नागेन्द्रसम्भृतमहाकटकस्य कस्यशस्यं विना त्वदिह राजशिरोमणित्वम् ॥२९॥कण्ठे विषं विषभृतोऽपि विभूषणानिगात्रेषु मूर्धनि विषं विबुधस्रवन्त्याः ।इत्थं विषैकवसतेरपि ते चकास्तिकर्णामृतं सुकृतिनाममृतेशनाम ॥३०॥क्षतविभवविशेषाः प्राणमात्रावशेषाविपदमनुभवामः कर्मपाको हि वामः ।तदिह भुजगहारः कॢप्तमोहापहारःस भवति गतिरेकः कृत्तशोकातिरेकः ॥३१॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``भगवद्रूपवर्णनं'' नामैकोनविंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP