स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
इह हि स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः ।
कमलदलानि जलैरिव बहिरावरणैर्न लिप्यन्ते ॥१॥
कविमुखकमलोपवने कृतवसतिर्जयति सूक्तिकल्पलता ।
या फलति भुक्तिमुक्ती शिवभक्तिसुधारसासेकैः ॥२॥
जय जय हर रक्ष भयादेवं देवं शिवं शिवं लब्धुम् ।
यः स्तौति तस्य सफलः सारः सारस्वतः स्वतः स्फारः ॥३॥
शिव शिव शङ्कर शङ्कर भवगतिरिति यः प्रलापमुखरमुखः ।
तस्य हि सफला दिवसाः शिवसायुज्यं च हस्तगतम् ॥४॥
इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् ।
सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं बहुना ॥५॥
उपचितकुशलश्रेणिः परमपदारोहणैकनिश्रेणिः ।
जयति महामृतवेणिर्विबुधजनाह्लादिनी नुतिः शम्भोः ॥६॥
किमियं सद्गुरुदृष्टिर्ह्लादैकमयी नु किं जगत्सृष्टिः ।
किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥७॥
अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः ।
यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥८॥
क्षेत्रं तदिह पवित्रं तत्तीर्थं पावनं तदायतनम् ।
तदिह तपोवनमनघं यत्र नुतिः शाम्भवी श्रुतिं विशति ॥९॥
सा क्रीडा सा गोष्ठी सा विश्रान्तिः स भूमिकालाभः ।
साऽखिलदुःखनिवृत्तिर्यत्र नुतिः शाम्भवी श्रुतिं विशति ॥१०॥
तद्ध्यानं स समाधिः स महायागस्तदर्चनं सकलम् ।
सा खलु परमा दीक्षा यत्र नुतिः शाम्भवी श्रुतिं विशति ॥११॥
यदि पारिजातकुसुमस्तवकस्तव कर्णयोरलङ्करणम् ।
भवितुं भवति न सुलभः श्रुतिपथमेता नय स्तुतीः शम्भोः ॥१२॥
अभिलषसि यदि निरोद्धुं पवनादपि दुर्ग्रहं मनोहरिणम् ।
तदिमा गृहाण निभृतं दृढगुणगुणगुम्फिताः स्तुतीः शम्भोः ॥१३॥
यदमृतमम्बुधिमन्थनसमुत्थितं तस्य कः स्विदास्वादः ।
इति यदि हृदि तव कौतुकमाकर्णय तत्स्तुतीरिमाः शम्भोः ॥१४॥
विषयोपभोगरहितः सहजो ह्लादः सतां मतो मोक्षः ।
तमपि यदीच्छसि वेदितुमवहितहृदयः शृणु स्तुतीः शम्भोः ॥१५॥
अशुचि शुचामायतनं मलकलिलमिदं कलेवरं सत्यम् ।
भगवदुपासनसाधनमिति भवति न कस्य कमनीयम् ॥१६॥
यदि मनुषे यमनियमप्राणायामादि दुर्घटं कर्त्तुम् ।
तदिमं सुगममुपायं श्रय परमपदाप्तये नुतिं शम्भोः ॥१७॥
सिद्धं सम्यगभीष्टं सत्यगिरामाशिषः सतां फलिताः ।
लब्धं सुकृतस्य फलं निर्व्यूढेयं यतः स्तुतिः शम्भोः ॥१८॥
मम सारः संसारः सकलमिदं मर्त्यजन्म मम सफलम् ।
मम सदृशोऽस्ति न कश्चन यदहं स्तोता शिवस्य संवृत्तः ॥१९॥
प्रणमामि प्रणमामि स्तौमि स्तौमि प्रभुं जगन्नाथम् ।
ध्यायामि ध्यायामि च यामि च विमलं परं धाम ॥२०॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``स्तुतिप्रशंसा'' नामकं सप्तत्रिंशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP