आशीर्वादाख्यं तृतीयं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
नित्यं निरावृति निजानुभवैकमान-
मानन्दधाम जगदङ्कुरबीजमेकम् ।
दिग्देशकालकलनादिसमस्तहस्त-
मर्दासहं दिशतु शर्म महन्महो नः ॥१॥
व्योम्नीव नीरदभरः सरसीव वीचि-
व्यूहः सहस्रमहसीव सुधांशुधाम ।
यस्मिन्निदं जगदुदेति च लीयते च
तच्छाम्भवं भवतु वैभवमृद्धये नः ॥२॥
लोकत्रयस्थितिलयोदयकेलिकारः
कार्य्येण यो हरिहरद्रुहिणत्वमेति ।
देवः स विश्वजनवाङ्मनसातिवृत्त-
शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥३॥
सर्वः किलायमवशः पुरुषाणुकर्म-
कालादिकारणगणो यदनुग्रहेण ।
विश्वप्रपञ्चरचनाचतुरत्वमेति
स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥४॥
एकस्य यस्य सकलः करणानपेक्ष-
ज्ञानक्रियस्य पुरतः स्फुरति प्रपञ्चः ।
पश्यञ्जगत् करतलाऽमलकीफलाभं
लाभं स पुष्यतु परं परमेश्वरो वः ॥५॥
यः कन्दुकैरिव पुरन्दरपद्मसद्म-
पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।
खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-
कान्तः कृतान्तदलनो लघयत्वघं वः ॥६॥
सेवानमन्निखिलखेचरमौलिरत्न-
रश्मिच्छटापटलपाटलपादपीठः ।
पुष्णातु धाम कपिशीकृतशैलशृङ्ग-
त्वङ्गन्मृगाङ्कमधुराकृतिरीश्वरो वः ॥७॥
अङ्गं भुजङ्गरचिताङ्गदभङ्गि तुङ्गं
त्वङ्गत्तरङ्ग गगनाङ्गनसङ्गि गङ्गम् ।
बिभ्रद्विभुर्विहितरङ्गदनङ्गभङ्ग-
मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥८॥
यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा-
ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या ।
भोगापवर्गदमनुग्रहमानतानां
व्यानञ्ज रञ्जयतु स त्रिजगद्गुरुर्वः ॥९॥
शम्भोरदभ्रशरदभ्रतुषारशुभ्रं
भ्राजिष्णुभूतिभरशीभरभास्वराभम् ।
दिश्याद्वपुर्भसलनीलगलं कलङ्का-
लङ्कारशारदशशाङ्कनिभं शुभं वः ॥१०॥
येनोपदिष्टमनपायमुपायमाप्य
स्वर्गापवर्गविभवैर्विभवो भवन्ति ।
देवः स वः सकलकर्मफलोपलम्भ-
विस्रम्भभूमिरभिवाञ्छितसिद्धयेऽस्तु ॥११॥
मूलोज्झितेन कलिकाकलितेन ताप-
शान्तिक्षमेण नमतामविपल्लवेन ।
सद्यःफलेन सुमनोभिरुपासितेन
स्थाणुः श्रियेऽस्तु भवतां वपुषाऽद्भुतेन ॥१२॥
दिव्यापगाप्लवनपावकसेवनाभ्यां
विभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् ।
दोषानुषङ्गरहितस्तिमिरोष्मशान्त्यै
भूयाद्द्विजाधिपतिरीश्वरवन्दितो वः ॥१३॥
दानाम्बुनिर्भरकरस्तनयः स यस्य
श्रीमान् स यस्य धनदः सविधे विधेयः ।
यः संश्रितः शिरसि मुक्तकरेण राज्ञा
पुष्णातु वः कनकवर्षघनः स देवः ॥१४॥
निर्मत्सरौ निवसतः सममर्कचन्द्रौ
नीरानलावमृतहालहलौ च यत्र ।
राज्ञा नवेन तदधिष्ठितमुज्ज्वलेन
शार्वं वपुर्भवतु वाञ्छितसिद्धये वः ॥१५॥
वक्ता च यः सुखयिता च विभुः श्रुतीनां
वक्षः करं च वहते कमलाङ्कितं यः ।
यो मूर्ध्नि वर्ष्मणि च हैमवतीं बिभर्ति
त्रैधं भवन् भवतु वः स शिवः शिवाय ॥१६॥
तापत्रयाऽपहृतये त्रिशिखं त्रिवर्ग-
सिद्ध्यै त्रिधामलयनं नयनत्रयं च ।
त्रिःस्रोतसोऽपि सलिलं त्रिमलापनुत्यै
भूयात्त्रिलोकमहितं त्रिपुरद्विषो वः ॥१७॥
यद्दर्शनाऽमृतसुखानुभवेन धन्या
नेत्रोत्पलानि चिरमर्धनिमीलितानि ।
दृङ्मार्गगोचररवीन्दुकरप्रसङ्ग-
भङ्ग्येव बिभ्रति शिवः शिवदः स वोऽस्तु ॥१८॥
कालं दृशैव शमयन् सफलप्रयासं
यः श्वेतमुत्तमचमत्कृतिकृच्चकार ।
श्वेतं यशः प्रशमयन्नसतां सतां च
कालं कृतार्थयति यः स शिवोऽवताद्वः ॥१९॥
बभ्रुर्बिभर्त्यलिकपावकसौहृदं यो
यत्राहिरेति शिखिना सह सामरस्यम् ।
जूटः स वः सममरातिभिरप्यमर्ष-
मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥२०॥
अव्यात्स वः शिरसि यस्य विलोचनाग्नि-
ज्वालावलीढसुरसिन्धुजलोपगूढः ।
अद्यापि वाडवशिखापरिणद्धमुग्ध-
दुग्धाब्धिमध्यग इव श्रियमेति चन्द्रः ॥२१॥
अव्यात्स वः सुकृतिनामलिकेषु धूली-
पट्टीकृतेषु पदरेणुभरेण यस्य ।
धाताक्षराणि लिखति क्षितिपालमौलि-
मालार्चिताङ्घ्रिकमलो भविता भुवीति ॥२२॥
शैवी शिवं दिशतु शीतमरीचिलेखा
जूटाहिरत्नकिरणच्छुरणारुणा वः ।
देवी नवीननखलक्ष्मधिया पिधत्ते
यत्सङ्क्रमं कुचतटे पटपल्लवेन ॥२३॥
देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि-
देहार्धबद्धवसतेरमृताप्तये वः ।
अभ्येति यन्मदनपूज्यसुवर्णपीठ-
पृष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥२४॥
याः क्षीरसिन्धुलहरीवृतमन्दराद्रि-
मुद्रामनङ्गदमनस्य नयन्ति जूटम् ।
द्विर्भाविताविरलसिद्धसरित्तरङ्गा-
स्ता लङ्घयन्त्वघमघर्मरुचो रुचो वः ॥२५॥
लोकत्रयाऽभ्युदयजन्ममही महीयः
स्थानाधिरोहणविधावधिरोहिणी या ।
सा चन्द्रचूडमुकुटध्वजवैजयन्ती
जह्नोरनिह्नुतनया तनयाऽवताद्वः ॥२६॥
भालाग्निकीलकलिताखिलरन्ध्रभागं
भर्गस्य वो दिशतु शर्म शिरःकपालम् ।
यत्कालवह्निवपुषः पचतः प्रभूत-
भूतव्रजं व्रजति तस्य महानसत्वम् ॥२७॥
चान्द्रं च धाम सुरनिर्झरिणी जलं च
हस्तस्थहेमकलशाऽमृतजीवनं च ।
स्निग्धं च दृग्विलसितं हसितं सितं च
युष्माकमूष्मशमनाय भवन्तु शम्भोः ॥२८॥
मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखा
कैलासशैलशिखरे धवलश्च वाहः ।
नीहारहारिणि वपुष्यपि भूतिरेषा
पुष्णातु वः सदृशसङ्घटना शिवस्य ॥२९॥
उत्तप्तहेमरुचि चन्द्रकला कलापे
बालप्रवालरुचिरे च करे कपालम् ।
ताम्रेऽधरे च हसितं सितमद्भुतेयं
विच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥३०॥
श्रेयः प्रयच्छतु परं सुविशुद्धवर्णा
पूर्णाभिलाषविबुधाधिपवन्दनीया ।
पुण्या कविप्रवरवागिव बालचन्द्र-
चूडामणेश्चरणरेणुकणावली वः ॥३१॥
हारीकृतोल्बणफणीन्द्रफणेन्द्रनील-
नीलच्छविच्छुरणशारमुरःस्थलं वः ।
पुष्णातु निह्नु तनगेन्द्रसुताकुचाग्र-
कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥३२॥
युष्माकमस्तु नवनीलसरोजदाम-
श्यामद्युतिः सुमतये शितिकण्ठकण्ठः ।
यः केतकीधवलवासुकिभोगयोगा-
द्नाङ्गौघभिन्नगगनाङ्गनभङ्गिमेति ॥३३॥
क्षीरार्णवस्य चरणाब्जतले निवास-
मासेदुषस्तनयमप्रतिमप्रसादः ।
यो मूर्ध्नि लालयति बालमसौ दयाब्धि-
र्देवस्तनोतु मुदमाश्रितवल्लभो वः ॥३४॥
या राजहंसशिखिसम्भृतकान्तिरेति
सद्यस्तिरोहितघनावरणा प्रसादम् ।
सा प्रावृडन्तशरदादिदिनेष्विव द्यौः
शम्भोरभीष्टफलपाककृदस्तु दृग्वः ॥३५॥
अन्तर्धृताहिमकरज्वलनोदितेन्दुः
स्वःसिन्धुसङ्गसुभगा परमेश्वरस्य ।
औदन्वतीव तनुरस्तु गजाश्वरत्न-
श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥३६॥
यत्राग्निरीप्सति कणं न विवृत्य जिह्वां
नैति प्रतिक्षपमपेतवसुस्तमर्कः ।
क्षीणस्तमिन्दुरपि न श्रयति श्रियेऽस्तु
श्रीधाम तत्पुररिपोर्नयनत्रयं वः ॥३७॥
अर्कस्य नोदगयनं शिशिरेऽपि यत्र
शीतत्विषो न बहुलेऽपि कलापलापः ।
क्षामं च धाम न वहत्यपि वह्निरह्नि
तत्त्रायतां पुररिपोर्नयनत्रयं वः ॥३८॥
यामाश्रितोऽम्बरमणी रमणीयधामा
कामान्तकावनलसाऽनलसाद्व्यधाद्या ।
यापीन्दुसम्भवसुधावसुधा दृशस्ताः
शर्वस्य वः शिवपुषो वपुषो भवन्तु ॥३९॥
पुष्णातु वः प्रथमसङ्गमभीरुगौरी-
विस्रम्भणप्रणयभङ्गभयाकुलस्य ।
तत्कालकार्यकरदर्पकदेहदाह-
जातानुतापमुरगाभरणस्य चेतः ॥४०॥
जूटे कपालशकलानि कलानिधिश्च
हस्ते सुधाम्बु सरलं गरलं गले च ।
शक्रादिभिश्च नमनं गमनं गवा च
यस्यास्तु दुर्गतिहरः स हरः सदा वः ॥४१॥
यस्य क्षितिः शिरसि सौमनसीव शेषा
शेषाहिरङ्गदपदे स चकास्ति यस्य ।
तस्य प्रभोरमृतनिर्झरनिर्विशेषा-
शेषाणि हन्तु दुरितानि सरस्वती वः ॥४२॥
श्रीमानकल्पत न कल्पतरुर्यदाप्त्यै
तृष्णा रसायनरसाय न यं समेत्य ।
लभ्यो न यो गहनयोगहवैः स वोऽघ-
मप्राकृतो हरकृतो हरतु प्रसादः ॥४३॥
मुक्तिर्हि नाम परमः पुरुषार्थ एक-
स्तामन्तरायमवयन्ति यदन्तरज्ञाः ।
किं भूयसा भवतु सैव सुधामयूख-
लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥४४॥
स यत्र गुहबर्हिणो भवभुजङ्गजिह्वाञ्चनै-
र्गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः ।
स चार्कसुतसैरिभो रवितुरङ्गहेषारवै-
र्मुदं दधति धाम तद्दिशतु शाम्भवं धाम वः ॥४५॥
यस्मिञ्जातस्त्रिभुवनजयी भग्नकामः स कामो
यस्मिंल्लेभे शलभलघुतां प्राप्तकालः स कालः ।
यस्यौघो न प्रभवति महोनिह्नवे जाह्नवीयः
श्रेयः प्रेयः प्रथयतु स वः शाम्भवो दृक्त्रिभागः ॥४६॥
यः क्रोधाग्नेः समिधमकरोद्दर्पकं दर्पकन्द-
च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् ।
नेतुं यश्च प्रभवति मतिह्रासमस्तं समस्तं
निष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥४७॥
पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरः
श्यामाकामुकमत्सरेण चरणौ पङ्क्तिर्ग्रहाणामिव ।
यस्य प्रह्वसुरासुरेश्वरशिरोमन्दारमालागल-
त्किञ्जल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥४८॥
अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दा
मन्दारकुन्दकुमुदैर्यमुदर्चयन्ति ।
तस्य प्रभोरघमलोष्मशमादमन्दा
मन्दाकिनीव मुदमर्पयतु स्तुतिर्वः ॥४९॥
भस्मोद्धूलितमूर्तिरिन्दुधवलज्योतीरसोर्वीधर-
स्कन्धासक्ततुषारगौरवृषभारूढोऽस्तु भद्राय वः ।
देवो दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरि-
क्रीडद्बालमरालनिर्मलरुचिः कात्यायनीकामुकः ॥५०॥
त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शंसतां
हन्ता भक्तिमतां मतां स्वसमतां कर्ताऽपकर्ताऽसताम् ।
देवः सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवःस्वस्त्रयी-
निर्म्माणस्थितिसंहतिप्रकटितक्रीडो मृडः पातु वः ॥५१॥
कृष्णेन त्रिजगत्प्रसिद्धविजयप्रख्यातिना लोचनं
भक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ ।
यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतं
कृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि भूयांसि नः ॥५२॥
श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी
ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता
श्रेयो वैश्रवणाश्रिता भगवतो नक्षत्रपालीव वः ॥५३॥
भिन्द्धि क्ष्माधरसन्धिबन्धमुदधेरम्भोभरं जृम्भय
क्षुन्द्धि क्ष्मापटलं दलत्फणिफणापीठीलुठत्सौष्ठवम् ।
पिण्ड्ढि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभः
प्रारब्धोद्धतसान्ध्यताण्डव इति श्रीभैरवः पातु वः ॥५४॥
भूत्यै वोऽस्तु विडम्बितस्मितरुतं मूर्ध्नोधृतस्वर्धुनी-
निध्वानध्वनदाननैरभिनये भूषाकपालैः प्रभोः ।
त्वङ्गत्तुम्बुरुनारदाहतनदद्गम्भीरभेरीरव-
व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुसारं वपुः ॥५५॥
आदौ पादतले कृतस्थितिरथो(अथ)प्राप्तः करालम्बनं
वाल्लभ्यं शुभदृङ्निवेशनवशोत्पन्नं प्रपन्नस्ततः ।
अन्ते येन शिरोधिरोपणमहामाहात्म्यमाप्तो विधु-
र्भूत्यै स क्रमवर्द्धमानमहिमा स्वामिप्रसादोऽस्तु वः ॥५६॥
यस्यैकस्य सुवर्णसम्भृतपदन्यासानवद्यक्रम-
व्यक्तिः प्रेङ्खति गौरनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः ।
प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिरोजस्विनः
काव्यस्योदयभूरसौ भवतु वः प्रीत्यै पुराणः कवि ॥५७॥
राकेन्दोरपि सुन्दराणि हृदयग्राहीणि बालाङ्गना-
मुग्धालापकथामृतादपि परं हारीणि हारादपि ।
अप्युत्तालशिखालबालवचसः सम्पूर्णकर्णामृत-
स्यन्दीनि त्रिजगद्गुरोः स्तुतिकथासूक्तानि पुष्णन्तु वः ॥५८॥
शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले
संसक्ता कनकच्छविर्गिरिसुतादोःकन्दली पातु वः ।
यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम-
भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी षाण्मुखः ॥५९॥
यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी-
कर्णालङ्करणायमानयशसः स्वर्गायमाणश्रियः ।
दुष्कालानलसन्नसज्जनसुधावर्षायमाणोक्तयः
प्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः शं स वः ॥६०॥
इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``आशीर्वादाख्यं'' नामकं तृतीयं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP