संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् Translation - भाषांतर काञ्चीकाञ्चनकिङ्किणीकलकलः शिञ्जानमञ्जीरजोझाङ्कारः सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः ।वाग्देव्याः प्रचलस्ख (प्रचलोच्छलत्)लद्भुजलताक्षेपक्वणत्कङ्कण-क्वाणश्चङ्कमणक्रमे विजयते चन्द्रार्धमौलेः स्तवः ॥१॥स्वामिन् वाङ्मयदेवता भगवती स्वेच्छाविहारक्रिया-क्रीडाकाननमाननं भव भवद्भक्तस्य नूनं व्यधात् ।नोचेन्नूतननूतनः प्रतिदिनं हृद्यः समुद्यन्क्रमा-दस्मिन्नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते ॥२॥स्वैरं कैरविणीकुटुम्बकलिकालङ्कार सारस्वत-स्फारस्वारसिकप्रसादविशदस्वाधीनवाग्देवताः ।धन्याः सत्कवयस्तव स्तवनिभात्त्वद्भक्तिभाजां विप-त्तापाऽपाकृतये दिशन्ति शिशिरस्निग्धाः सुधाविप्रुषः ॥३॥यस्य त्वन्नमनैः शिरोदशशती सौन्दर्यसन्दर्शनै-श्चारित्रश्रवणोत्सवैश्च भवतश्चक्षुःसहस्रद्वयम् ।साफल्यं रसनासहस्रयुगलं त्वत्कीर्तनैश्चाश्नुतेत्रैलोक्याद्भुतमूर्तये भगवते शेषाय तस्मै नमः ॥४॥राकेन्दोरपि माधवादपि सतां सङ्गादपि स्वामिनःसम्मानादपि कामिनीकुचयुगाभोगोपभोगादपि ।शम्भो शर्व शशाङ्कशेखर शिव श्रीकण्ठ विश्वेश्वरत्रायस्वेति सतां हरन्ति हृदयं सान्द्रामृतार्द्रा गिरः ॥५॥श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिका-काश्मीरादिनिरादरं मलयजालेपावलेपावहम् ।कुर्वन्ति प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहंचेतः कस्य न शाम्भवस्तवसुधासिक्ताः सतां सूक्तयः ॥६॥यस्यैताः स्तवसूक्तयस्तव मुखे खेलन्ति हेलाजित-ज्वालाजालजटालकालरसनासंरम्भसम्भावनाः ।वल्गन्त्यस्य पुरः पुरन्दरपुरीकान्ताकटाक्षच्छटा-बाणश्रेणिशरव्यदिव्यवपुषः स्वर्वन्दिवृन्दोक्तयः ॥७॥हर्षोत्कर्षविवर्द्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी-र्धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं कुर्वताम् ।मान्द्यं विन्दति नन्दनेन्दुवदनासन्दिग्धमुग्धाधर-प्रोन्मीलन्मधुबिन्दुसुन्दरसुधासन्दोहदो दोहदः ॥८॥सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनःशुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः ।सह्लादोल्लसनः प्रसन्नहसनः सम्पन्नसद्वासनःसत्काव्यव्यसनः सुधार्द्ररसनः शम्भोः कृतोपासनः ॥९॥राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचःस्वान्तक्लान्तिहृतश्चमत्कृतिकृतः सङ्गीतभङ्गीभृतः ।शम्भोरम्बुदनादविह्वलवलद्बालाङ्गनालिङ्गन-ह्लादस्वादसुखस्पृहामिह जहत्त्यन्तर्मृशन्तः स्तुतीः ॥१०॥सारासारविदः सतां भयभिदः प्रह्वोपतापच्छिदःकारुण्यार्द्रहृदः प्रसन्नसुहृदः स्फारीभवत्संविदः ।त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशःकर्षन्तीश निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥११॥दुर्धर्षर्द्धिपुषः सहर्षवपुषस्तर्षप्रकर्षप्लुषःसर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः ।उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस-श्चित्तान्तप्रहसः सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥१२॥कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत-स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्दमन्दं मनः ।तस्यान्यत्र कविक्रमे कमलिनीकिञ्जल्कपानोत्सव-व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्रतिः ॥१३॥खट्वाङ्गे मुकुटे करे श्रवणयोः प्रायेण यो भूषणंब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिं बिभर्ति प्रभुः ।तत्पादाम्बुजभक्तिभावितमतिर्धन्यः शिरोभूषण-ख्यातिं निश्चितमश्नुते त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम् ॥१४॥रोहन्मोहमहीरुहोरुपरशुर्दुर्वारमारज्वर-प्लोषोल्लाघभिषग्विषौघविषमक्लेशोग्रशापावधिः ।ताम्यल्लोचनचक्रवाकमिथुनब्रध्नोदयश्चन्द्रिका-पूरश्चित्तचकोरकस्य जयति श्रीकण्ठपूजाविधिः ॥१५॥अर्चां वीक्ष्य विचित्रचारुरचनां चन्द्रार्धचूडामणे-र्व्यक्तिं भक्तिचमत्कृतिः कृतधियो यस्यैति चित्ते मुहुः ।तस्मिन्सस्पृहमर्पिताः सचकिताः साचीकृताः सस्मिताःसाकूताश्च पतन्ति पक्ष्मलदृशां प्रेमामृतार्द्रा दृशः ॥१६॥स्वामिन् सौमनसं निबध्य वपुषि स्रग्दाम दृग्दामभि-र्भस्मीभावितमन्मथस्य भवतो भिन्दन्ति भक्तिस्पृशः ।दोलान्दोलनविह्वलेन्दुवदनादोःकन्दलीचन्दन-स्यन्दानन्दनिमीलितार्धनयनास्तापव्यथां मान्मथीम् ॥१७॥स्वामिन् यस्तव पादपङ्कजयुगं भक्त्याऽभ्यषिञ्चन्मुहुःपूजान्तेषु नमन्नमन्दमुदितानन्दाश्रुलेशोत्करैः ।तस्याङ्घ्री ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णःकण-श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः कुरङ्गीदृशः ॥१८॥त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली-संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः ।नूनं हन्ति निरन्तरं भव भवत्सेवैकहेवाकिनंकर्णाभ्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥१९॥आदौ भक्तिवयस्यया परिचयान्नीतोन्मुखत्वं शनै-रारूढा विषमेषुवर्त्मसु चिरं भ्रान्ताऽथ तान्तेः पदम् ।दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती-मेषा त्वामुपगन्तुमिच्छति पतिं प्रोद्दामकामा मतिः ॥२०॥धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभंस्फूर्जत्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति ।ग्रासीकर्त्तुमुदग्रविग्रहगलद्वह्निस्फुलिङ्गं विषंको जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणाऽपरः ॥२१॥क्रोधोद्भ्रान्तकृतान्तकिङ्करकरद्रोणीमुखप्रेङ्खित-व्यालालिङ्गितकन्धरः प्रकटयन्नाक्रन्ददीनां गिरम् ।चक्षुर्दिक्षु विदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमंकाङ्क्षन्कं शरणं वृणोति मरणे त्वामन्तरेणातुरः ॥२२॥वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमंपीयूषं विशदांशु(डशनांशु)भिर्दश दिशत्काशप्रकाशा दिशः ।कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी-श्चान्द्री मूर्ध्नि कलेव देव भवतो वक्त्रे विधत्तां पदम् ॥२३॥यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्यं तवस्वान्तं भीमभवोपतापविपदि स्फीताऽवहेलं मयि ।स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन-स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः ॥२४॥यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर-व्यग्राङ्गाङ्गुलिबालमालववधूदृक्पातपात्रं वपुः ।सेवासन्निधिशंसिसम्भ्रमनमत्सामन्तमौलिस्थली-लीढाङ्घ्रिद्वयमुद्वहन्ति कृतिनः सौभाग्यभाग्यास्पदम् ॥२५॥यच्च प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृति-क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः ।उन्मीलन्मृदुशाद्वले तरुतले स्वर्ल्लोककल्लोलिनी-कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥२६॥यच्चाऽस्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन-व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे ।दुष्कालव्यसनावसन्नजनतासन्तापनिर्वापण-व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखं जीव्यते ॥२७॥निःशङ्कं विकलङ्कमङ्कविकसल्लक्ष्मीकटाक्षेक्षितंयन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः ।यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णन-प्रोन्मीलत्पुलकावकीर्णवपुषः स्वर्मध्यमध्यासते ॥२८॥सोऽयं सर्वजगत्प्रभोरशरणत्राणैकहेवाकिनःकारुण्यामृतसागरस्य गिरिजाभर्तुः परोऽनुग्रहः ।कस्तं न स्तुतिभिर्विमर्शरसिकः प्रौढार्पितप्रीतिभिःप्राप्तुं शर्मदकर्मनिर्मलफलं नन्दत्यमन्दादरः ॥२९॥दृष्टिः पीयूषवृष्टिर्मधुरमधुरसस्यन्दिनी देव वाणीपाणी त्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ ।चेतः स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधामत्वामक्षामप्रसादामृतजलधिमहो भेजुषामेष पाकः ॥३०॥तस्यैकस्याङ्घ्रिपीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैःक्षोणीपालाः शिरोभिः करपुटघटितैरञ्जसा रञ्जयन्ति ।धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुभ्रोत्तरीयांलक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहाराम् ॥३१॥तं वाणीभिर्गृणन्ति श्रवणपुटसुधास्यन्दिनीभिर्मुनीन्द्रागीतैर्गायन्ति विद्याधरवरवनितास्तस्य चित्रं चरित्रम् ।विद्वद्गोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ताकीर्तिर्जागर्ति तस्य प्रवरकविवचोभङ्गिसन्मङ्गलेषु ॥३२॥किं वाऽन्यन्नैष पश्यत्यलमनलशिखापिङ्गजिह्वास्फुलिङ्ग-स्फूर्जद्दंष्ट्राकरालं भ्रुकुटिकुटिलितं भीषणं कालवक्त्रम् ।स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्तेशान्तेर्ष्यस्त्वामविद्याजडजगदगदङ्कारमाराधयेद्यः ॥३३॥आकर्णाकृष्टचापः प्रहरति निभृतं निर्निमित्तापकारीनारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः पुष्पचापः ।फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालःकालव्यालः करालः कवलयति वपुर्हन्तुकामः क्व यामः ॥३४॥तस्मादस्माकमाकस्मिकविकसदसत्कर्मपाकोपताप-व्यापत्तापातुराणामविरलकरुणासिन्धुरापन्नबन्धुः ।भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमाला-ज्वालालीढाङ्घ्रिपीठः शरणमशरणत्राणशीलस्त्वमेकः ॥३५॥या निःशेषौषधीनां जनिरजनि पुनर्न क्वचित्कम्पसम्प-त्सम्पर्को यत्र यत्र स्थितिरुपरि परिभ्रंशभाजां जनानाम् ।एषा शेषाहिपीठप्रकटितवसतिः सम्पदां भूतधात्रीपात्रीकुर्वत्यजस्रं जनमनघमघः प्रक्रमस्ते नमस्ते ॥३६॥संसारेऽस्मिन्नसारे परमिह कुशलं कर्म धर्मप्रधानंधर्मः शर्मप्रदोऽपि प्रभवति सुधियां सिद्धये शुद्धिहेतोः ।शुद्धौ बद्धस्पृहाणां न भवति कृतिनां यद्विनाऽऽपद्विनाश-स्त्रैलोक्याप्यायकं तज्जलमपि भगवन् विभ्रमस्ते नमस्ते ॥३७॥यं मुक्त्वा जीवयन्तं जगदगदमदः सन्ततं सन्तमन्त-र्जन्तूनां शीतभीतिप्रकटितविपदामस्ति न स्वस्तिहेतुः ।गीर्वाणानां हविर्भिर्ग्लपयति विपदं यज्वनामप्यनल्पैःसङ्कल्पैः कल्पितैर्यः स भवति विभवः पावकस्ते नमस्ते ॥३८॥अन्तः सन्तिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यःसन्धाय स्थायिभावं प्रसरति सततं यत्र तेजस्विचक्रम् ।यत्र स्थैर्यं बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतांभूतानां मूर्तिमेष प्रथयति विभुतां मारुतस्ते नमस्ते ॥३९॥यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बीस्थैर्यं झाङ्कारि वारि प्रथयति तदपि स्कन्धबन्धेषु यस्य ।सोऽपि स्फारेण भर्तुं प्रभवति पवनो यस्य नोद्देशलेशंधाम्नामाधारभूतं भव भवति वपुस्तन्नभस्ते नमस्ते ॥४०॥धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्भ्यःसाकं नाकस्थितानामजनिषत कृतप्रीतयः स्फीतभासाम् ।तासामासां श्रुतीनां जनयति नियतं कर्मभिः शर्मकृद्भिःसाफल्यं यः स यज्वा वपुरधृतविपत्सङ्गमस्ते नमस्ते ॥४१॥प्रेङ्खद्भिर्यन्मयूखैर्विदधति धवले निर्जराः प्राणयात्रांप्रोद्दामानन्दधाम प्रथयति बहुले पारणं यः पितॄणाम् ।कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनांपीनां पुष्णाति भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥४२॥प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य-ल्लोकालोकार्पणार्थं प्रमुदितमुदितं यं समर्चन्ति सन्तः ।सायं ध्यायन्ति सन्ध्याविधिमधि सुधियो बाधिताधिं समाधिंसाधिम्नाऽधिष्ठितायं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥४३॥दिग्देशाकारकालैरकलितविभवं यन्महद्बीजभूतंभूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं विवर्त्तः ।यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्तेतद्भिन्नेष्वप्यभिन्नं भव भवसि परं ब्रह्म तस्मै नमस्ते ॥४४॥इत्थं मत्सूक्तयस्ते शशधरशिखर स्फारसारस्वतौघ-प्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः ।तीव्रापत्तापताम्यत्सहृदयहृदयक्लान्तिशान्तिप्रगल्भा-दर्भाग्रस्पर्द्धिबुद्धिग्रथितदृढगुणाः कर्णपूरीभवन्तु ॥४५॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``कर्णपूरस्तोत्रं'' नामकं त्रयस्त्रिंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP