नमस्कारात्मकं द्वितीयं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
ॐ नमः परमार्थैकरूपाय परमात्मने ।
स्वेच्छावभासिताऽसत्यभेदभिन्नाय शम्भवे ॥१॥
नमः शिवाय निःशेषक्लेशप्रशमशालिने ।
त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने ॥२॥
नमः समस्तगीर्वाणकिरीटघटिताङ्घ्रये ।
जगन्नगरनिर्म्माणनर्मशर्मदकर्म्मणे ॥३॥
नमस्तमस्वतीकान्तखण्डमण्डितमौलये ।
तापान्धकारनिर्वेदखेदविच्छेदवेदिने ॥४॥
नमः समस्तसङ्कल्पकल्पनाकल्पशाखिने ।
विकासिकलिकाकान्तकलापाय स्वयम्भुवे ॥५॥
नमस्तमःपराभूतभूतवर्गानुकम्पिने ।
श्वेतभानुबृहद्भानुभानुभासितचक्षुषे ॥६॥
नमः शमनहुङ्कारकतराऽऽतुरहर्षिणे ।
भवाय भवदावाग्निविविग्नाऽमृतवर्षिणे ॥७॥
नमः समदकन्दर्पदर्पज्वरभरच्छिदे ।
दुर्वारभवरुग्भङ्गभिषजे वृषलक्ष्मणे ॥८॥
नमो जन्मजरामृत्युभीतिसातङ्कपालिने ।
करुणामृतसम्पर्कपेशलाय कपालिने ॥९॥
नमो निसर्गनिर्विघ्नप्रसादामृतसिन्धवे ।
संसारमरुसन्तापतापितापन्नबन्धवे ॥१०॥
नमः सान्द्राऽमृतस्यन्दिघनध्वनितशोभिने ।
महाकालाय भीष्मोष्मभवग्रीष्मक्लमच्छिदे ॥११॥
नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।
त्रिगुणाष्टगुणाऽनन्तगुणनिर्गुणमूर्त्तये ॥१२॥
हंसाय दीर्घदोषान्तकारिणेऽम्बरचारिणे ।
स्वमहोमहिमध्वस्तसमस्ततमसे नमः ॥१३॥
यः सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना ।
काञ्चनेनश्रियं धत्ते तस्मै स्मरजिते नमः ॥१४॥
निजाङ्गभङ्गभङ्ग्यापि भक्तानुग्रहकारिणे ।
नमः स्तम्भितजम्भारिभुजस्तम्भाय शम्भवे ॥१५॥
निःसामान्याय मान्याय न्यायमार्गोपदेशिने ।
मूर्धन्याय वदान्याय धन्याय स्वामिने नमः ॥१६॥
नमः संहृतकालाय कालायसगलत्विषे ।
गङ्गाधौतकलापाय कलापायमविन्दते ॥१७॥
जिष्णुना जिष्णुना लोकान् विष्णुना प्रभविष्णुना ।
ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥१८॥
कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् ।
नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् ॥१९॥
निमित्तमन्तरेणापि यः सपङ्कजनाभये ।
प्रवर्तते विभुस्तस्मै नमः पङ्कजनाभये ॥२०॥
नमः सोमार्धदेहाय सोमार्धकृतमौलये ।
श्वेताभयसमुद्भूतश्वेताभयशसे नमः ॥२१॥
विनतानन्दनं नागविग्रहोग्रमुखं दृशा ।
विनायकमुपासीनं भजते स्वामिने नमः ॥२२॥
नमो ब्रह्महरित्र्यक्षश्रवसे भवसेतवे ।
जगत्सर्गस्थितिह्रासहेतवे वृषकेतवे ॥२३॥
कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।
भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥२४॥
यमेकमेव श्रयतो न जायते
स्पृहा परस्मै महतेऽपि नाकिने ।
नमः समस्तापदुपेतपालन-
व्रताय तस्मै विभवे पिनाकिने ॥२५॥
विधौ जगत्सर्गविधौ यदाहितं
प्रतिष्ठितं यत्स्थितिकारणे विधौ ।
समूढमूढार्धविधौ लये च यत्
पराय तस्मै महसे नमो नमः ॥२६॥
नमः समुत्पादिततारकद्विषे
नमस्त्रिधामाश्रिततारकत्विषे ।
नमो जगत्तारकपुण्यकर्म्मणे
नमो नमस्तारकराजमौलये ॥२७॥
नमो नमस्तेऽमृतभानुमौलये
नमो नमस्तेऽमृतसिद्धिदायिने ।
नमो नमस्तेऽमृतकुम्भपाणये
नमो नमस्तेऽमृतभैरवात्मने ॥२८॥
नमस्तमःपारपरार्ध्यवृत्तये
नमः समस्ताध्वविभक्तशक्तये ।
नमः क्रमव्यस्तसमस्तमूर्त्तये
नमः शमस्थार्पितभक्तिमुक्तये ॥२९॥
विजयजयप्रदाय शबराय वराय नमः
सकलकलङ्कसङ्करहराय हराय नमः ।
जगदगदप्रगल्भविभवाय भवाय नमः
प्रवरवरप्रकाशितशिवाय शिवाय नमः ॥३०॥
इति काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``नमस्कारात्मकं'' नामकं द्वितीयं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP