शरणाश्रयणं अष्टमं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
कल्याणिनः सुरगिरेरिव संश्रितस्य
लक्ष्म्या हरेरिव रवेरिव दीप्तिभाजः ।
पद्यस्य शम्भुविषयस्य जयन्ति पादा
ये मण्डयन्ति च पुनन्ति च विष्टपानि ॥१॥
याः पङ्किलेन कलिलेन वियोजयन्ति
नित्योज्ज्वलेन कुशलेन च योजयन्ति ।
ता धूर्जटेरमरनिर्झरिणीतरङ्ग-
भङ्गाभिरामगतयः स्तुतयो जयन्ति ॥२॥
संसारदारुणदवानलदह्यमान-
वाक्चित्तकायकुशलीकरणौषधानि ।
श्रीभुक्तिमुक्तिवशकर्म्मणि कार्मणानि
शम्भोर्जयन्ति नुतिचिन्तनपूजनानि ॥३॥
दोषाकरस्य शिरसि स्थितिमुत्तमाङ्ग-
च्छेदं विधेरविरहं नरवाहनस्य ।
भस्मीकृतिं त्रिपुरपाशधरस्मराणां
वश्यं दिशाञ्च दशकं दशकन्धरस्य ॥४॥
शौर्यानलस्य परशुव्यजनेन दीप्तिं
रामस्य बाहुपरिघप्रतिघं मघोनः ।
हैमं मरुत्तनृपतेर्दिवसानि सप्त
वर्षं सुदर्शनसमर्पणमच्युतस्य ॥५॥
श्वेतस्य कण्ठपुलिनात्समवर्तिपाश-
प्रोत्सारणं नयननिर्हरणं भगस्य ।
दुग्धाब्धिदानमुपमन्युमुनेः क्रियासु
दक्षस्य विघ्नकरणं मखदीक्षितस्य ॥६॥
शूलाधिरोहणपराभवमन्धकस्य
पूष्णो हनुग्रहमनुग्रहमर्जुनस्य ।
नन्दीश्वरस्य रविजादभयं भुजङ्ग-
भङ्ग्याभिमानमथनं मुनिमानिनीनाम् ॥७॥
किं वाऽपरं द्रुहिणकृष्णहरत्वमेत्य
सर्गस्थितिप्रशमनानि जगत्त्रयस्य ।
क्रीडन्निव व्यधित येन निरङ्कुशं तत्
स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥८॥
यस्याऽतिघोरगरलादपि कण्ठपीठा-
त्सञ्जीवनौषधमुदेति वचो नतानाम् ।
यस्य ज्वलद्घनकृशानुशिखोल्बणापि
वर्षत्यमोघममृतद्रवमेव दृष्टिः ॥९॥
दंष्ट्राकरालमपि घोरमघोरवक्त्त्रं
यस्य प्रपन्नभयभञ्जनभङ्गिमेति ।
यस्याङ्गभस्मकणिकाश्चरणाश्रितेषु
कर्पूरधूलिपटलश्रियमाश्रयन्ति ॥१०॥
यस्यापि कृष्णभुजगा भुजगा भजन्त-
मिन्दीवरस्रज इव प्रविनन्दयन्ति ।
किं चाङ्गसङ्गि मरुदीरितमेति यस्य
मुण्डं नमत्स्वमलमङ्गलकम्बुशोभाम् ॥११॥
यस्येभचर्मघनशोणितपङ्कलिप्त-
मङ्गेषु मङ्गलदुगूल विलासमेति ।
यस्यापि तापविधुरेषु करे कपाल-
मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥१२॥
यत्पादपांसुपरिमर्शशुचि श्मशानं
श्रीशैलनैमिषमुखान्यधरीकरोति ।
यत्संस्तवादविकलं कुशलं कपाल-
पाली करोति कृतिनां कमलावलीव ॥१३॥
यं देवमस्तशिरसं सुरभर्त्तुरङ्के
लङ्केशवैरिकरवीजिततालवृन्तम् ।
आसीनसुप्तसुखितं शतरुद्रियादि-
मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥१४॥
हेलावलीढभुवनत्रितयेन येन
गीर्णाः पुरन्दरमुकुन्दरवीन्दवोऽपि ।
यस्य ज्वलद्विपुलभालविलोचनाग्नि-
ज्वालावलीशलभतामगमत्स कालः ॥१५॥
श्वेतं विधोरुदयहेतुमवेत्य पक्षं
कालं च यः क्षयकरं दृशमाश्रितस्य ।
श्वेतं दयाविशदयाशु दृशानुगृह्य
कालं दृशैव नयति स्म शमं विपक्षम् ॥१६॥
चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा-
लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य ।
यस्यागमन्निधनसाधनतां पुराणां
वाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥१७॥
चक्रायुधं विशिखतामुडुचक्रवर्ति-
चक्राभिधानसुहृदौ रथचक्रभावम् ।
नीत्वाऽसृजत्त्रिदशधाम्नि रसातले च
यो हर्षशोकमयमश्रु पुराङ्गनानाम् ॥१८॥
आरूढरीढमपि येन समर्पितेन
प्रीतिं रतिं च हृदि विस्मरति स्म कामः ।
तं दृष्टिपातमधिगम्य बिभर्ति यस्य
प्रीतिं रतिं च हृदि को न सुसिद्धकामः ॥१९॥
कृष्णोपदर्शितपथः पृथुलोष्मभीष्म-
श्लाघ्यं दधद्वपुरुपात्तवनान्तवासः ।
व्याधाकृतेरपि धनञ्जय एव यस्य
दृग्गोचरे कृतपदो महसा दिदीपे ॥२०॥
युक्तं सुधाकरसुधाकरकद्युसिन्धु-
तोयादि यन्मनसि तापमपाकरोति ।
यस्याङ्गसङ्गि शवभस्मकपालमाला-
हालाहलाहिदहनाद्यपि हृद्यमेव ॥२१॥
मूर्तिः कृमेः शतपदी श्रवणं प्रविष्टा
दृष्टा रुजामसुहृतं सृजती जनानाम् ।
सौरी तनुर्ननु सहस्रपदी यदीय-
नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥२२॥
आकर्ण्य यः कृपणमार्त्तवचः कृपाब्धि-
राधूतमूर्धसुरनिर्झरिणीकणौघैः ।
उत्सङ्गसङ्गतगिरीन्द्रसुताकुचाग्र-
संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥२३॥
उद्गाढभक्तिविधुरव्यपनीततीव्र-
दोषान्धकारमतिमात्रशुचिप्रकाशम् ।
पीयूषमुद्वमति यस्य विविक्तवर्णं
कर्णान्तगामि वचनं च विलोचनं च ॥२४॥
पात्रीभवन्ति न यदङ्घ्रिसरोजरेणु-
मैत्रीपवित्रशिरसः स्थिरसत्यवाचः ।
साटोपकोपविकटभ्रुकुटिच्छटाना-
मुत्तालकालभटवक्रविभीषिकाणाम् ॥२५॥
सूक्तिं शुचिं श्रवणयोरमृतं स्रवन्तीं
वक्रामभङ्गुरगुणां महतीं वहन्तः ।
गायन्ति यं श्रितवतः परिशुद्धवंश-
विद्या यशांसि कवयः परिवादकाश्च ॥२६॥
यत्सेवकस्य मदनोल्बणबाणपूग-
क्रान्ताऽलिकान्तविकसत्तिलकोज्ज्वलश्रीः ।
सेव्या भवत्यवसरे कलकण्ठनाद-
हृद्या वधूः कुसुमितोपवनस्थली च ॥२७॥
यस्मिन्नखिन्नमनसो व्यसनावसन्न-
सन्तापशान्तिकृतसम्मतयो वसन्ति ।
कात्यायनी च करुणा च कला च चान्द्री
स्निग्धा च दृक् सुरसरिच्च सरस्वती च ॥२८॥
सन्तापसम्पदपहारपटूनि सिद्ध-
सिन्धोरिवेन्दुधवलानि जलानि यस्य ।
आकल्पयन्ति मदयन्ति पवित्रयन्ति
सञ्जीवयन्ति च जगन्ति भृशं यशांसि ॥२९॥
दुष्कालसङ्कटकटाहकदर्थितानां
तीव्राभिमानमनसां घनसारभांसि ।
भिन्दन्त्यमन्दहरिचन्दनबिन्दुवृन्द-
सन्दोहदोहदमहो चरितानि यस्य ॥३०॥
फुल्लारविन्दमकरन्दधृतप्रसङ्ग-
भृङ्गाङ्गनागुमगुमारवगीतिगर्भम् ।
गायन्ति यस्य चरितं हरितामधीशा
धीशालिनः कमलिनीपुलिनस्थलीषु ॥३१॥
व्यक्तोज्ज्वलालिकचितं मुखमायताक्षं
विस्तीर्णकर्णिकमनर्गलरूढनालम् ।
यं शंसतोऽधिवसति स्वयमुक्तिदेवी
राजीवसद्मकमला विजिगीषयेव ॥३२॥
आपन्नबान्धवमबन्ध्यवचोविलास-
मासन्नमज्जननमज्जनसान्त्वनेषु ।
देवं सुधाकरकिशोरकृतावतंसं
तं संश्रितार्त्तिहरणं शरणं श्रयामि ॥३३॥
देवं श्रयामि तमहं मुकुटोरगेन्द्र-
स्फूर्जत्फणामणिसहस्रमिषेण यस्य ।
भालानलेन सुरसिन्धुजलोक्षितेन
प्रोन्मुक्तमङ्कुरसहस्रमिवाचकास्ति ॥३४॥
सानुग्रहोत्तमगणाश्रितपादमूलं
मूर्ध्ना धृताभ्रसरितं सतुषारमूर्तिम् ।
आसेवितं विषधरैः कटकेषु ताप-
शान्त्यै गिरीशमतिहृद्यगुहं श्रयामि ॥३५॥
यः क्षीरनीरनिधिमङ्घ्रितले सुधाम्भः-
कुम्भं करे शिरसि देवनदीमदीनाम् ।
हर्तुं बिभर्ती भविनामणुकर्ममाया-
मूलं मलत्रयमयं तमहं श्रयामि ॥३६॥
यस्यापगा स्रगिव सौमनसी जटासु
यः कौमुदीं विरचनामिव मूर्ध्नि धत्ते ।
देवीं वराऽभयकरामपि यो बिभर्ति
प्रीतः शिवां दृशमिव प्रभुमाश्रये तम् ॥३७॥
गौरीं गजास्यजननीं हिमवत्प्रसूतिं
सद्यःपवित्रितजगत्त्रितयां य एकः ।
कात्यायनीं सुरधुनिं च विभुर्बिभर्ति
निर्वाणदं शरणमेमि तमिन्दुमौलिम् ॥३८॥
क्वाप्युद्धृतक्रतुविधातृमृगोत्तमाङ्ग-
मुत्सङ्गसङ्गतमृगं क्वचिदोषधीशम् ।
क्रूरं क्वचिन्मृगवधैकरतिं किरातं
वातं क्वचिन्मृगरथं विभुमाश्रयामि ॥३९॥
उद्दामदोषमपि दीर्घगुणं भुजङ्ग-
भोगोपगूढमपि रूढशिखिप्रसङ्गम् ।
कापालिकव्रतसमेतमपि द्विजेन्द्र-
चूडामणिं विभुमनङ्कुशमाश्रयामि ॥४०॥
अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गं
विश्वाधिनाथमथ खण्डकपालपाणिम् ।
उग्रं शिवं हरमघोरमजं च सद्यो-
जातं च विस्मयनिधिं विभुमाश्रयामि ॥४१॥
अस्मिन्भवाध्वनि महाविषमेऽसमेषु-
रोषादितस्करतिरस्करणैकवीरम् ।
भीरुः श्रयामि शरणं क्षणदाकुटुम्ब-
लेखाशिखामणिमनुत्तमशक्तिमीशम् ॥४२॥
किं मेरुमन्दरमुखैर्गिरिभिर्गरीयान्
कैलास एव जगदेकगुरुर्गिरीशः ।
यस्याऽभयङ्करमसङ्करमस्तशङ्क-
मङ्कं सुटङ्कमकलङ्कमलङ्करोति ॥४३॥
उल्लङ्घ्य शासनमनन्यजशासनस्य
कोऽप्यन्यशासनमुपासितुमेति निष्ठाम् ।
हित्वा वनं हि नवनागरपर्णपूर्ण-
मुष्ट्रः श्रयत्यवटमेव सकण्टकौघम् ॥४४॥
अन्यार्थमप्युपहिता शितिकण्ठसेवा
लोकस्य कल्पलतिकेव फलत्यवश्यम् ।
उद्दीपिता खलु परस्य कृतेऽपि येन
तस्यापि दर्शयति दीपशिखाऽर्थसार्थम् ॥४५॥
यद्यर्चितः (यद्यर्थितः)स भगवानपि जीविकार्थं
तत्रापि किल्विषविपाकमपाकरोति ।
योऽपि द्युसिन्धुपयसि प्लवते निदाघ-
घर्मच्छिदे भवति सोपि हि धौतपापः ॥४६॥
कुर्वन्ति भक्तिमपरैरपि ये नियुक्ता
भर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति ।
स्तन्यार्थमप्युपहिता पृथुकस्य धात्री
पात्रीभवत्यखिलभोगसुखासिकानाम् ॥४७॥
दम्भादपि ध्रुवमनङ्गजितः प्रयुक्तः
सेवाविधिः प्रमदसम्पद(प्रमदसम्मद)मादधाति ।
वेश्याजनस्य न सुखाय किमङ्गराग-
मालादुगूलधवलः कृतकोऽपि वेषः ॥४८॥
तस्मादुपेत विभुमेव यथातथापि
मुक्तिर्न चेद्भवति किं न गलन्त्यघानि ।
यः स्वेच्छयैव निपतत्यमृतहृदेऽन्त-
र्मज्जत्यसौ यदि न तत्किमुदेत्यसिक्तः ॥४९॥
क्षीराब्धेरवहेलया वितरणं निर्यन्त्रणं वर्षणं
हेम्नः क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोद्वर्हणम् ।
यच्चाप्युत्कटकालकूटकवलीकारादिकर्माद्भुतं
क्रीडामात्रकमेव यस्य तदसौ देवः कथं वर्ण्यते ॥५०॥
स्वच्छन्दस्य यदृच्छया गमयतः प्रेङ्खोलतां भ्रूलता-
माज्ञाऽनुग्रहलाभकत्थनघनस्पर्धानुबन्धोद्धुराः ।
सोष्माणः कलयन्ति यस्य कलहं सेवासु देवासुरा
देवस्याऽस्य महेश्वरस्य महिमश्लाघाविधौ के वयम् ॥५१॥
उर्वीनीरसमीरणारुणशिखिव्योमात्मसोमात्मकै-
रष्टाभिर्विभवैर्बिभर्ति भुवनं भोक्ता च भोग्यश्च यः ।
ब्रूमस्तस्य किमीश्वरस्य महतः स्वैरी स्वकैरेव यः
स्फारैर्ब्रह्मपुरन्दरप्रभृतिभिः शारैरिव क्रीडति ॥५२॥
इति काश्मीरकमहाकविश्रीमज्जद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``शरणाश्रयणं'' नामाऽष्टमं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP