अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
सर्पत्कन्दर्पदर्पज्वरभरहरणव्यग्रवर्चःप्रपञ्च-
प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलत्र्यक्षवक्त्रः ।
शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष-
स्वस्थं तन्वन्सहर्षं जनमनघमघः कल्पयत्वक्षयं वः ॥१॥
यद्वद्वन्द्यं प्रसन्नं लसदसमरसस्पन्दसन्दर्भगर्भं
मङ्गल्यं नर्मनद्धं तव वचनमदः शस्यमस्यत्कलङ्कम् ।
तद्वद्भर्गस्य वर्यं शशधरशकलं द्यत्ववद्यं कपर्द-
न्यस्तं वक्त्रं प्रशस्तं प्रबलतमतमःखण्डनं मण्डनं वः ॥२॥
षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबन्धप्रगल्भः
प्रत्यग्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः ।
दक्षक्रत्वन्तकत्वं दधदधममदध्वंसलक्ष्यप्रशंसः
संसर्गध्वस्तपङ्को गणगणमचलं कल्पयन्हन्त्वशं वः ॥३॥
वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रं
कंसघ्नं सर्पतल्पं खगवरवहनं नन्दयत्यर्धगं यः ।
धर्मं बध्नन्ध्वजस्थं करगतकलशं वर्ष्म यश्च व्रतस्थं
शंसन्तं संस्मरन्तं नतमनवरतं सोऽव्ययःस्यत्वघं वः ॥४॥
संरक्षन्भक्तवर्गं यमभटभयतः सभ्यमभ्यर्णलभ्यं
धन्यम्मन्यं वदन्यं प्रणयपरवशं पर्षदग्र्यव्यवस्थम् ।
वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग-
स्वर्गङ्गः शश्वदङ्कस्थलगतनगजस्त्र्यम्बकः सम्पदं वः ॥५॥
अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नं
ग्रथ्नन्मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् ।
स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं प्रपन्नं
प्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥६॥
सद्यः सन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गं
सत्त्वस्थं लब्धतत्त्वं मलशबलगलत्सर्वसम्बन्धबन्धम् ।
यत्सम्पर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तं
यच्छत्वच्छं मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥७॥
सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध-
श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य न व्यक्तकल्कम् ।
तस्य व्यस्यत्वशं वः सितकरशरणं मस्तकं ध्वस्तकम्पं
सम्पत्सम्पर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥८॥
अत्यन्तस्वच्छमन्तःकरणमशरणप्रत्तरक्षं समक्षं
व्यञ्जन्भञ्जन्नजस्रं नयनतवदनस्तम्भसंरम्भदम्भम् ।
सर्वज्ञः सत्त्वसङ्घक्लमकरणचणं जन्मकर्मप्रबन्धं
मथ्नन्नत्यर्थमर्थं क्षतसकलमलं वर्धयत्वव्ययं वः ॥९॥
गल्वर्कप्रस्थपस्त्यं धरमथमलयं मन्दरं सह्यमन्त-
र्नन्दद्गन्धर्वयक्षं सकनककटकं कल्पतर्वन्तरङ्गम् ।
भद्रं सङ्क्रन्दनस्य प्रहसनसदनं नन्दनं स्वर्गरङ्गं
गच्छन्स्वच्छन्दचर्यः परबलदलनस्तर्पयत्वन्वहं वः ॥१०॥
पद्मस्थं पद्महस्तं गजवरवदनं नन्दनं स्कन्दसंज्ञं
पर्जन्यं हंसमब्जं दशशतनयनं हव्यभक्षं सदण्डम् ।
रक्षःप्रख्यं जलस्थप्रथमथ पवनं मर्त्यपत्त्रं मखघ्नं
सम्पश्यत्यत्यजन्तं चरणतलमलं यः स कर्षत्वघं वः ॥११॥
अव्यक्तं यः समग्रं जगदगनगरं व्यञ्जयत्यब्जजः स-
न्यः संरक्षत्यनन्तः स्मरयमदमनः संहरत्यक्रमं यः ।
स त्रयक्षस्तन्त्रमन्त्रप्रणयनसफलग्रन्थकर्मण्यखर्व-
ज्ञत्वः सद्गम्यवर्त्मप्रकटनपरमः स्पर्शयत्वद्वयं वः ॥१२॥
द्रष्टव्यं सम्यगर्थप्रवचनपरमं शर्मदं पद्यबद्धं
प्रष्ठप्रज्ञप्रशस्यं नमदमरवरः शङ्करः सङ्करघ्नः ।
वर्षन्तं भग्नघर्मं प्रमदमयपयः सत्यसङ्कल्पजल्प-
श्रव्यं भव्यं वसव्यं नवमवगमयत्वग्र्यवर्णस्तवं वः ॥१३॥
इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``अग्र्यवर्णस्तोत्रं'' नामकं चतुस्त्रिंशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP