संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| दीनाक्रन्दनं एकादशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् दीनाक्रन्दनं एकादशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति दीनाक्रन्दनं एकादशं स्तोत्रम् Translation - भाषांतर धन्योऽस्मि सम्यगमृतं किमपि स्रवन्तीसञ्जीवनं भगवती विदधाति यस्य ।स्नेहस्नुतस्तनयुगा जननीव जीव-रक्षार्थमार्त्तिविधुरस्य ममोक्तिदेवी ॥१॥धन्योऽस्मि दुःसहविपत्पतितस्य यस्यवाणीधृतोन्नतिरपुण्यकृतामभूमिः ।कल्याणिनी सुमनसामुपसेवनीयासौमेरवीव पदवी न दवीयसीयम् ॥२॥धन्योऽस्मि मोहतिमिरान्धदृशोऽपि यस्यसानुग्रहेण विधिना परिकल्पिता मे ।वल्गुस्वना गुणवती धृतवक्रभङ्गि-राराधनाय गिरिशस्य सरस्वतीयम् ॥३॥सञ्जीवनौषधिरबैमि नवा भवाग्नि-भस्मीकृतस्य विधिना मम निर्मितेयम् ।वाणी शिवैकविषयाभिनवोढगौरी-दृष्टिच्छटेव चकिता मकरध्वजस्य ॥४॥जाने कथञ्चिदुदिता मम शोकवह्नि-तप्तात्स्खलन्मृदुपदा हृदयादियं गौः ।चेतः प्रवेक्ष्यति शनैः करुणामृतौघ-निःष्यन्दशीतमपि शीतमयूखमौलेः ॥५॥यच्चाटुचापलमलङ्घ्यभवभ्रमोऽहंमोहं वहन्निह मुहुर्मुहुराचरामि ।तत्र स्पृहावहमहार्यमहार्यपुत्री-भर्तुः परार्ध्यमपराध्यति सौकुमार्यम् ॥६॥यो मूर्धनि ध्वनदनर्गलनिर्झरौघ-झाङ्कारिणीममरनिर्झरिणीं दधानः ।गृह्णाति भक्तजनतः कलशाभिषेकंकस्तं न विज्ञपयितुं विभुमुत्सहेत् ॥७॥दग्धोस्मि तावदमुना दमुना ममाऽन्त-र्यः प्रज्ज्वलत्यघनिदाघनिदानजन्मा ।मुक्तस्य मे प्रतिभयातिभयाकुलस्यवाणी कथं विगलतो गलतोऽभ्युदेति ॥८॥क्रन्दाम्यतः किमपि नाम पिनाकपाणेतीव्रार्त्तिनिस्तरणकारण कातरोऽहम् ।मोहाटवीविकटसङ्कटसंस्थितस्यतन्मेऽवधारय शिवाय शिवातुरस्य ॥९॥आक्रन्दमिन्दुधर धारय देव कर्णेकस्त्वत्परः परमकारण कर्णधारः ।मूर्ध्ना वहन्नुडुपखण्डमखण्डपुण्यंकं कं न तारयसि संसृतिसागराद्यः ॥१०॥अस्मादृशैरशुचिभिश्चटुचापलानिकॢप्तान्यवैमि न मनस्तव नन्दयन्ति ।आवर्जनाय विहितान्यपि चन्द्रमौलेकौलेयकस्य लडितानि किमाद्रियन्ते ॥११॥यद्वा न मुग्धचरितान्यपि न प्रसाद-मुत्पादयन्ति भवतः करुणार्णवस्य ।स्वामिन्दरत्पुरविहारपरस्य किं नचेतो हरन्ति तव बालकवल्गितानि ॥१२॥दीनैर्विमुग्धवचनैरसमञ्जसार्थै-र्यद्वद्द्रवन्ति हृदयानि दयानिधीनाम् ।तद्वन्न दृष्टसभसप्रतिभप्रगल्भ-सन्दर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः ॥१३॥दुग्धाब्धिदोऽपि पयसः पृषतं वृणोषिदीपं त्रिधामनयनोऽप्युररीकरोषि ।वाचां प्रसूतिरपि मुग्धवचः शृणोषिकिं किं करोषि न विनीतजनानुरोधात् ॥१४॥यत्सत्यवत्यपि जगद्विदिताऽनसूयावाणी ममेयमिदमेव हि देव चित्रम् ।अत्यद्भुतं पुनरिदं यदरुन्धतीयंत्वामारिराधयिषुरेवमुदीरिताऽपि ॥१५॥स्वे धाम्नि हृदि कृतस्थितिमुक्तिदेवींकृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् ।धाराधिरूढविरहव्यथितामिदानी-माधाय धैर्यमवधारयसीत्ययुक्तम् ॥१६॥एका त्वमेव भवितासि मम प्रियेतिदत्तं वरं स्मरसि चेद्गिरिराजपुत्र्याः ।प्रेम्णा बिभर्षि कथमम्बरसिन्धुमिन्दु-लेखां च मूर्ध्नि हृदये दयितां दयां च ॥१७॥एतां निसर्गसरलामभिजातमुग्धा-मद्धाऽवधीरयसि धीरगभीरमानी ।जानासि किं न शतशो नतसान्त्वनेषुयद्वृद्धया करुणया नरिनर्तितोऽसि ॥१८॥प्रस्तौति निस्त्रपतयार्त्तिकदर्थितेयंचाटूनि कर्त्तुमपि मौग्ध्यविसंस्थुलानि ।कात्यायनीवचनदुर्ललितस्य तानिमुक्तोपमानि न मनस्तव नन्दयन्ति ॥१९॥अस्यामसह्यविरहज्वरकातरायांप्रीतिर्न ते यदि परं निरवग्रहस्य ।सर्वान्तरार्त्तिदलनाय दृढा प्रतिज्ञाविज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥२०॥सत्यं कलां वहसि बिभ्रदुमां यदर्धेधत्से दयां हृदि ययार्थिषु नर्तयन्त्या ।नीतोऽसि नीलगल नीलगलत्वमेवमद्वाचि साचि तु मुखं कुरुषे रुषेव ॥२१॥गृह्णासि मूर्धनि जलैर्धवलैर्विलोलै-रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् ।एतामनन्यगतिमुज्झसि साधुवृत्तांवाचं स्वतन्त्रचरितस्य किमुच्यते ते ॥२२॥किं भूयसा यदि न ते हृदयङ्गमेय-मस्या गृहे वससि किं हृदये मदीये ।सार्धं प्रियेण वसनं तदुपेक्षणं चदुःखावहं हि मरणादपि मानिनीनाम् ॥२३॥मातः सरस्वति बधान धृतिं त्वदीयांविज्ञप्तिमार्त्तिविधुरां विभवे निवेद्य ।देवी शिवा शशिकला गगनापगा चकुर्वन्त्यवश्यमबलाजनपक्षपातम् ॥२४॥एषा निसर्गकुटिला यदि चन्द्रलेखास्वर्गापगा च यदि नित्यतरङ्गितेयम् ।देवी दयार्द्रहृदया तु नगेन्द्रकन्याधन्या करिष्यति न ते निबिडामवज्ञाम् ॥२५॥त्वामेव देवि शरणीकरवाणि वाणिकल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् ।मातर्नयामि न पुनभवतीमलीक-वाचालबालिशविलङ्घनभाजनत्वम् ॥२६॥देवि प्रपन्नवरदे गुणगौरि गौरियद्गौरियं परिमितं स्रवतीह किञ्चित् ।तत्स्वामिने समुचिते समये सुपाक-माकूतवेदिनि निवेदयितुं प्रसीद ॥२७॥स्वेच्छाविकल्पितमदृष्टविशिष्टपाकंमात्राविहीनमिदमार्यजनैरजुष्टम् ।उन्मत्तभाषितमथापि भवत्यवश्यंसद्भेषजं विषमयस्य भवामयस्य ॥२८॥भालानलं तव यथा मुकुटस्थितैवशक्नोति नो शमयितुं किल सिद्धसिन्धुः ।तद्वज्ज्वलन्तमनिशं हृदि शोकवह्निंवक्त्रे वसन्त्यपि ममाऽत्र सरस्वतीयम् ॥२९॥प्राक्चेन्मया विहितमाविलमेव कर्मस्वामिन् कुतस्त्वयि ममैष दृढोऽनुरागः ।एकान्तशुक्लमथ चेदतिदुःसहोऽयंशोकानलो हृदयदाहकरः किमन्तः ॥३०॥क्वाप्यन्यजन्मनि विधाय विभोरवश्य-माराधनामनुशयालु मनो ममाभूत् ।नो चेत् कथं कुलगुणादिपवित्रमेत-त्सर्वं नृजन्म मम निष्फलमेव जातम् ॥३१॥मानुष्यनावमधिगम्य चिरादवाप्यनिस्तारकं च करुणाभरणं भवन्तम् ।यस्याऽभवद्भरवशस्तरितुं भवाब्धिंसोऽहं ब्रुडामि वद कस्य विडम्बनेयम् ॥३२॥स्वामी प्रसादमुपकारिषु सेवकेषुयोग्येषु साधुषु करोति किमत्र चित्रम् ।सन्तस्त्वभाजनजनेष्वपि निर्निमित्तंचित्तं वहन्ति करुणामृतसारसिक्तम् ॥३३॥तस्मात्समाप्तसकलाऽभ्युदयाभ्युपाय-मायस्तचेतसमसम्भवभग्नवृत्तम् ।सीदन्तमन्तकभयादभयार्पणेनसम्भावय स्वयमनर्थकदर्थितं माम् ॥३४॥त्वां नीतिमान् भजति यः स भवत्यनीति-र्मुक्तः स यो हि भवता हृदयान्न मुक्तः ।यस्ते रतोऽपचितयेऽपचितिं स नैतितत्त्वां श्रितोऽस्मि भवमस्म्यभवो न कस्मात् ॥३५॥स्वापः सचिन्तमनसो निशि मे दुरापोनिर्दाह एव गमयामि कदा सदाहः ।रक्ष त्वदेकवशगं शिव मामवश्यंकस्माद्भवस्यपरुषो मम कर्कशस्त्वम् ॥३६॥पापः खलोऽहमिति नाऽर्हसि मां विहातुंकिं रक्षया कृतमतेरकुतोभयस्य ।यस्मादसाधुरधमोऽहमपुण्यकर्मातस्मात्तवास्मि सुतरामनुकम्पनीयः ॥३७॥स्वैरेव यद्यपि गतोऽहमधः कुकृत्यै-स्तत्रापि नाथ तव नास्म्यवलेपपात्रम् ।दृप्तः पशुः पतति यः स्वयमन्धकूपेनोपेक्षते तमपि कारुणिको हि लोकः ॥३८॥अत्युन्नतान्निजपदाच्चपलश्च्युतोऽयंभूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् ।मत्वेति चेत्त्यजसि मामयमीदृगेवगाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥३९॥हन्ताऽयमार्तिमपि नारकिणां धृतश्चे-न्मूर्ध्ना किलेति वहसे यदि गाङ्गमोघम् ।एतत्तवोचितमनाथजनार्तिभङ्ग-हेवाकिनो घनघृणामृतसागरस्य ॥४०॥अस्मादृशस्य रसना तु सहस्रधेयंगच्छेदवाप्य तव शीर्षमितीरयन्ती ।किं तूद्धरामि भवदग्रपदावमर्श-मात्रादहं त्रिजगतीमिति मे प्रतिज्ञा ॥४१॥क्षामो निकामजडिमा कुटिलः कलावान्दोषाकरोऽयमिति चेत्त्यजसि प्रभो माम् ।एतादृशैरुपगतोऽपि समस्तदोषैःकस्मात्त्वया शिरसि नाथ धृतः शशाङ्कः ॥४२॥शान्ताकृतिर्द्विजपतिर्विमलः कलङ्क-मुक्तः किलेति यदि मूर्ध्नि विधुं बिभर्षि ।एवंविधोऽपि भवता कथमङ्घ्रि पीठ-प्रान्तेऽपि धर्तुमुचितो न समर्थितोऽहम् ॥४३॥पापग्रहो धृतिमुपैति विना परेषांन स्वापहारमयमित्यथ मां जहासि ।एवंविधोऽपि तव दक्षिणदृष्टिपात-पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥४४॥मित्रत्वमेष भवतो गुणिबन्धुतां चप्रख्याप्य चेदुपगतस्तव वल्लभत्वम् ।दासत्वमेव तव नित्यमुपेत्य भूत्वासेवापरश्च गुणिनां कथमप्रियोऽहम् ॥४५॥अत्यूष्मलं मलिनमार्गमनेकजिह्वंस्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् ।एतादृशोऽपि शुभदृष्टिनिवेशनस्यपात्रीकृतः कथमयं भवताऽऽश्रयाशः ॥४६॥यद्बन्धुजीवदलसद्रुचिरर्थिभाव-मायाति साधुविबुधव्रजजीवनाय ।यन्मित्रमण्डलमुखेन च विश्वमेषःपुष्णाति तेन दहने यदि सादरोऽसि ॥४७॥आप्यायनं सुमनसामनिशं विधातु-मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता ।कर्तुं च बन्धुजनजीवनमक्षमोऽहंविश्वं च पोषयितुमीश सुहृन्मुखेन ॥४८॥तेनाऽत्र मां निरपराधमवेहि देहिदृष्टिं प्रसादविशदाममृतद्रवार्द्राम् ।दीनं दयास्पदमदभ्रमदभ्रमेणभ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥४९॥अन्वग्रहीरमलदृष्टिसमर्पणेनमित्रं शुचिं द्विजपतिं यदि युक्तमेतत् ।एवंविधेऽपि भगवन् दृशमप्रसन्नांधत्से मयीति विधिरेष पराङ्मुखो मे ॥५०॥निष्कर्ण एष कुसृतिव्यसनी द्विजिह्वोमत्वेति चेत्त्यजसि निःशरणं प्रभो माम् ।एतादृशोऽपि पवनाशन एष कस्मा-च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥५१॥जिह्वासहस्रयुगलेन पुरा स्तुतस्त्व-मेतेन तेन यदि तिष्ठति कण्ठपीठे ।एकैव मे तव नुतौ रसनाऽस्ति तेनस्थानं महेश भवदङ्घ्रितले ममाऽस्तु ॥५२॥शृंगी विवेकरहितः पशुरुन्मदोऽयंमत्वेति चेत्परिहरस्यतिकातरं माम् ।एवंविधोऽपि वृषभश्चरणार्पणेननीतस्त्वया कथमनुग्रहभाजनत्वम् ॥५३॥पृष्ठे भवन्तमयमुद्वहते कदाचि-देतावता यदि तवैति दयास्पदत्वम् ।स्वामिन्नहं तु हृदयेऽन्वहमुद्वहामित्वामित्यतः कथमहो न तवाऽनुकम्प्यः ॥५४॥क्रूरः पराङ्मुखमसावनृजुर्जहातियोग्यं गुणग्रहणकर्मणि मार्गणौघम् ।मत्वेति चेत्त्यजसि मां कथमीदृगेवस्वामिन्धृतः करतले भवता पिनाकः ॥५५॥कोटिं परामुपगतेऽपि गुणे नितान्तंनम्रं विमृश्य यदि नाऽजगवं जहासि ।स्वल्पे गुणेऽपि नतिमानतिमात्रमेवकिं तच्च येन न भवामि तवानुकम्प्यः ॥५६॥अत्यन्ततीक्ष्णमतिकर्कशमार्जवेनकृत्वा प्रवेशमतिमात्रमरुन्तुदं माम् ।मत्वा जहासि यदि नाथ किमर्थमेत-देवंविधं वहसि हस्तगतं त्रिशूलम् ॥५७॥ज्ञात्वाऽथ चेत्समरसंहितकर्मयोग्यंकोटित्रयोज्ज्वलमुखं त्रिशिखं बिभर्षि ।निःस्वं न किं समरसं हितकर्मयोग्यंमां वेत्सि येन कुरुषे मयि न प्रसादम् ॥५८॥न्यग्भावितद्विजमखर्वितपूर्वदेव-गुर्वाऽपदर्पणपरं कृतगोत्रभेदम् ।सम्भाव्य चेत्त्यजसि मां कथमीदृगेवनेत्रोत्सवस्तव जगद्विजयी कुमारः ॥५९॥मत्त्वाऽथ नाथ शुचिजातिममुं विशाख-मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् ।एवंविधोऽप्यहमनन्यपरायणस्तेकस्माद्भवामि भगवन्नवलेपभूमिः ॥६०॥सर्वापहाररतिरुन्मदवक्रवक्त्र-स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते ।एवंविधोऽपि भगवन् गणनायकत्वेकस्मादयं गजमुखो भवता नियुक्तः ॥६१॥हस्तं सदा वहति दानजलावसिक्तंतेनैष चेदलभत प्रमथाधिपत्यम् ।दानं प्रदातुमधनो यदि न क्षमोऽहंदासत्वमस्तु मम देव भवद्गणानाम् ॥६२॥हेयोऽस्म्यसेवकतया तव चेद् ग्रहेषुकुर्वत्सु तुल्यमखिलेष्वपि राशिभोगम् ।द्वावुज्झतस्तव न दृक्पथमर्कचन्द्रा-वेतावता परिहृता भवता किमन्ये ॥६३॥बलावुभौ द्विजपती तव नाथ भक्ता-वेकस्तयोर्हरति सन्तमसं प्रजानाम् ।तेनावृतं यदि परं सहसे महेशद्रष्टुं ततो विषमदृष्टिरिति श्रुतोऽसि ॥६४॥युक्तं रिपौ सुहृदि वा समदर्शनस्यदोषोद्धतेऽपि यदि ते हृदयं दयार्द्रम् ।तत्साम्प्रतं गतिविहीनमनात्मनीनंदीनं जनं प्रति कुतः करुणाऽवलेपः ॥६५॥अभ्युद्गमोऽयमशनेरमृतांशुम्बिम्बा-त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः ।युष्मादृशस्य कौणाम्बुनिधेरकस्मा-दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥६६॥स्वामिन् मृडस्त्वमुरुदुःखभरार्दितोऽहंमृत्युञ्जयस्त्वमथ मृत्युभयाकुलोऽहम् ।गङ्गाधरस्त्वमहमुग्रभवोपताप-तप्तः कथं कथमहं न तवानुकम्प्यः ॥६७॥भवजीर्णज्वराताप-मोहकम्पाकुलाय मे ।एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ! ॥भक्तप्रियः स्वयमपि क्षुधयाऽन्वितस्यपानोत्सवैकरसिकोऽपि पिपासितस्य ।तापातुरस्य घनसेवनसादरोऽपिजानासि नाथ न कथं सहसा ममार्तिम् ॥६८॥सर्वज्ञ सर्वमवगच्छसि भूतभाविभाग्यक्षयः पुनरसौ भगवन् ममैव ।जानासि यस्य हृदयस्थित एव नार्तींज्ञात्वाऽपि वा गजनिमीलितमातनोषि ॥६९॥भालेऽनलं तव गले गरलं करे चशूलं प्रकाशमखिलोऽयमवैति लोकः ।अन्तर्गतं त्रयमिदं तु मम त्वमेवजानासि नासि च दयालुरतो हतोऽहम् ॥७०॥एकस्त्वमेव भविनामनिमित्तबन्धु-र्नैसर्गिकी तव कृपा सवितुः प्रभेव ।वामः पुनर्मम विधिः परिदेवितानिजातान्य(जानासि)रण्यरुदितेन समानि यस्य ॥७१॥अत्यन्तदुर्भगमयोग्यमभाग्यभाज-माजन्मनर्मविमुखं मुखरोग्रवाचम् ।दैवादवाप्य सकलापसदं महेशनैवाऽत्यजत्कुलवधूरिव दुर्गतिर्माम् ॥७२॥मुक्त्वा समाधिमसमाधिहरं परं चप्रोद्दामधाम शिव धाम सुधामयं ते ।भ्रान्तोऽस्मि तेन मलयानिलवेल्ल्यमान-कल्लोललोलनिधनानि धनानि लब्धुम् ॥७३॥आराधिताः प्रचपलाश्चपलावदेवदुष्टेश्वरा न गुरवो गुरवो गुणौघैः ।यातानि तानि मम हानिमहानि मिथ्याश्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥७४॥तृष्णा दिनाद्दिनमबृंहत बंहिमन-मायामिनी मनसि हैमनयामिनीव ।नाथ त्रिधामनयनाऽर्पयदृक्प्रसादंसादं नयान्धतमसं भ्रमसम्भृतं मे ॥७५॥स्तम्भं विजृम्भयति दम्भमयं भ्रमं चकञ्चित्प्रपञ्चयति यच्छति वाचि मुद्राम् ।कं नाम नाऽऽमयमयं प्रथयत्यखर्व-गर्वज्वरज्वलनदुःसहसन्निपातः ॥७६॥तत्साम्प्रतं भुवनविश्रुतहस्तसिद्धिंत्वामोषधीपतिशिखामणिमाश्रयामि ।मौनं विमुद्रय दरिद्रय मोहनिद्रांविद्रावय द्रुतमुपद्रवमिन्द्रियाणाम् ॥७७॥विस्रम्भमम्भसि भजे भगवन्नगाधेबाधे रिपुव्यवसितेऽप्यलसीभवामि ।जागर्मि यन्न समवर्तिनि हन्तुकामेका मे गतिर्यदि करोषि मनागवज्ञाम् ॥७८॥मोहान्ध्यहरणात्तीव्रभवज्वर-निवारणे ।देहिनां दक्ष एकस्त्वमोषधीशशिखामणिः ॥यस्ते ददाति रवमस्य वरं ददासियो वा मदं वहति तस्य दमं विधत्से ।इत्यक्षरद्वयविपर्ययकेलिशीलःकिं नाम कुर्वति नमो न मनः करोषि ॥७९॥चन्द्रः करे शिरसि चक्षुषि पादमूलेमूर्तावपीति शिव चन्द्रसुभिक्षमेतत् ।तापान्धकारविधुरं शरणागतं कि-मायातु लङ्घितवतस्तव मोघभावम् ॥८०॥कौटिल्यमिन्दुदलतो न सुधामयत्व-मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् ।मालिन्यमेव गलतो न गभीरभावंत्वत्तोऽपि मे तितउ कल्पमवाप चेतः ॥८१॥किं वर्णयामि गुरुतां विपदः पदे मांस्थाणोर्न्ययुङ्क्त यदियं सहसोपदिश्य ।निःशाखतां सुमनसामनुमेयभावंविच्छायतां विफलतां रसहीनतां च ॥८२॥सर्वज्ञशम्भुशिवशङ्करविश्वनाथ-मृत्युञ्जयेश्वरमृडप्रभृतीनि देव ।नामानि तेऽन्यविषये फलवन्ति किन्तुत्वं स्थाणुरेव भगवन् मयि मन्दभाग्ये ॥८३॥श्वेते सुदर्शनसमर्पणतत्परस्यकृष्णे च यस्य न बभूव विशेषबुद्धिः ।सत्त्वं श्रियं सृजसि पुण्यजनेषु मां चमुञ्चस्यपुण्यजनमेष विधिः क्षतो मे ॥८४॥आवर्जनं क्रतुभुजां गजवाजिरत्न-श्रीपारिजातमदिरेन्दुसुधाऽर्पणेन ।कृत्वाऽग्रहीर्गरलमात्मनि यन्महिम्नासा ते क्व सम्पति कृपा मयि मन्दभाग्ये ॥८५॥दृप्तेषु ते मदनदक्षयमाऽन्धकेषुप्रादुर्भवन्मनसि रोषविषप्ररोहः ।सिक्तः सुधामयमसूत यया प्रसादंसा ते क्व सम्प्रति कृपा मयि भाग्यहीने ॥८६॥केचिद्वरस्य भगवन्नभयस्य केचि-त्सान्द्रस्य केचिदमृतस्य करस्थितस्य ।प्रापुः कृपाप्रणयिनस्तव भाजनत्वंशूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥८७॥अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मेचेतः प्रकाशवपुषा रविणेव बिम्बम् ।सोपप्लवं यदि कृतं तमसा कदाचि-दक्षीणपुण्यमहिमैव तदा विभाति ॥८८॥जानामि नाऽमृतमयं हृदयं प्रवेष्टु-मुद्दामदुःखदवदाहहतस्तवाऽहम् ।धर्तुं हृदि त्रिदशसिन्धुसुधासुधांशु-शीतं भवन्तमपि न प्रभवामि धिङ्माम् ॥८९॥क्षीणः क्षताऽखिलकलः प्रविलीनधामात्वामाश्रितोऽस्मि सवितारमिवाऽमृतांशुः ।नास्त्येव जीवनकला मम काचिदन्यापादार्पणेन कुरुषे यदि न प्रसादम् ॥९०॥घोरान्धकारविधुरं विविधोपताप-तप्तं विपद्गुरुतुषारपराहतं माम् ।त्वं चेज्जहासि वद कस्तपनेन्दुवह्नि-नेत्रो हरिष्यति परस्त्रिविधां ममार्तिम् ॥९१॥व्यक्तिर्न यस्य न मतिर्न गतिर्न शक्ति-र्नापि स्मृतिर्विपदपस्मृतिपीडितस्य ।तस्यौषधीशमुकुटं त्रिजगद्गुरुं त्वांमुक्त्वा करिष्यति परो मम कश्चिकित्साम् ॥९२॥त्वं निर्गुणः शिव तथाहमथ त्वदीयंशून्यं परं किमपि धाम तथा मदीयम् ।त्वं चेद्गवि प्रविदधासि धृतिं तथाऽहंकष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९३॥कामस्त्वयीव मयि निष्फलतामवापक्षिप्तो मयापि विफलो भवतेव कालः ।विध्वस्तधाम मम देव वपुस्तवेवकष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९४॥यद्वद्विभो तव हृदि प्रविभाति नाग-स्तद्वन्ममापि भवदेकपरायणस्य ।यद्वत्स्वधर्मनिरतस्त्वमहं तथैवकष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९५॥मूर्त्तिस्तवेव शिव मे विधुरोचितेयंदृष्टिस्तवेव भगवन् विषमा ममापि ।शूली विषादहतशक्तिरहं यथा त्वंकष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९६॥कण्ठे विषं वसति मे विषमं तवेवभूतेश्वरः पशुपतिश्च भवानिवाऽहम् ।अङ्गं ममापि गुरुरुग्जवलितं तवेवकष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥९७॥स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बंबालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् ।श्रीखण्डचन्दनमिवाऽजगरोपगूढंव्यूढं नृपस्य पिशुनैरिव पादमूलम् ॥९८॥हालाहलाक्तमिव दुग्धमहाब्धिनीरंतीरं महामकररुद्धमिव द्युसिन्धोः ।दारिद्र्यदग्धमिव साधुगृहस्थवृत्तंचित्तं समत्सरमिव श्रुतविश्रुतस्य ॥९९॥विद्याविहीनमिव सत्कुलजस्य रूपंनिर्दानभोगमिव कापुरुषस्य वित्तम् ।मानुष्यमुज्ज्वलकुलश्रुतशीलशुद्धंजातं विपद्विधुरितं मम शोचनीयम् ॥१००॥पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य-न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् ।भूमौ पतामि कृपणं प्रलपामि पाद-पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥१०१॥आः किं न रक्षसि नयत्ययमन्तको मांहेलावलेपसमयः किमयं महेश ।मा नाम भूत्करुणया हृदयस्य पीडाव्रीडापि नास्ति शरणागतमुज्झतस्ते ॥१०२॥अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसिव्यग्रोऽसि किं किमघृणोसि किमक्षमोऽसि ।निद्रालसः किमसि किं मदघूर्णितोऽसिक्रन्दन्तमन्तकभयार्त्तमुपेक्षसे यत् ॥१०३॥द्वेषः किमेष कृपणे किमुताऽक्षमेयंनिस्त्रिंशता किमथवा किमशक्तिरेव ।हुङ्कारमात्रकनिराकरणीयगर्वेसर्वेश कालहतके यदियत्युपेक्षा ॥१०४॥इत्यादि दूढ्य इव निष्ठुरपुष्टभाषीयत्किञ्चन ग्रहगृहीत इवाऽस्तशङ्कः ।आर्त्या मुहुर्मुहुरयुक्तमपि ब्रवीमितत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥१०५॥भीते भवार्तिविधुरे चरणावलग्नेभग्नेप्सिते गतिमपश्यति काञ्चिदन्याम् ।कस्मादनागसि मनागसि विश्वसाक्षि-न्दाक्षिण्यदिग्धहृदयोपि पराङ्मुखस्त्वम् ॥१०६॥स्वामिन्निसर्गमलिनः कुटिलश्चलोऽह-मेतादृगेव च रिपुर्मम मृत्युपाशः ।भ्रूपल्लवस्तव तथाविध एव तस्यशान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥१०७॥किं कार्यमेभिरनिशं पुनरुक्तशुक्तै-रुद्वेगकारिभिरलब्धफलैः प्रलापैः ।एवं विदन्नपि मुहुर्मुखरं विरौमिपश्यामि न त्वदितरं हि परं शरण्यम् ॥१०८॥त्वं चेत्प्रसादसुमुखः प्रणयोक्तिभिः किंत्वं चेदनादरपरः प्रणयोक्तिभिः किम् ।भाग्योदये सति वृथैव गुणेषु यत्न-स्तस्मिन्नसत्यपि वृथैव गुणेषु यत्नः ॥१०९॥जानन्नपीति विरमामि न यत्प्रलापा-दार्त्तेर्महेश महिमैष दृशस्तवैव ।या रात्रिमेव दिवसं तिमिरं प्रकाश-मग्निं हिमं गरलमप्यमृतं करोति ॥११०॥आर्त्तिः श्रुतैव कृपणात्करुणां तवान्त-रुत्पादयत्यनिशमग्निशिखां शमीव ।जातैव निर्दहति तामियमित्यमुत्रकिं ब्रूमहे महदनङ्कुशमीश्वरस्य ॥१११॥यन्नाम पामरजनोचितमत्र किञ्चि-दौचित्यमुक्तमसमञ्जसमभ्यधायि ।तत्रापि भर्तुरुचिता रुचिरीश्वराणांचेतश्चमत्कृतिकरी कपिझम्पिकाऽपि(एव)॥ ११२॥चौरैर्गृहीतमपि दष्टमपि द्विजिह्वै-र्ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः ।व्याघ्रैरुपद्रुतमपि द्रुतमाक्षिपद्भि-रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥११३॥भूताऽभिभूतमपि सिन्धुजलेऽपि मग्नंभग्नं रणेऽपि पतितं दवपावकेऽपि ।किं भूयसा यमभटैरपि कृष्यमाणंकस्त्रातुमर्हति महेश्वरमन्तरेण ॥११४॥तज्ज्ञो बतास्म्यभिलषन् सुखमक्षयं य-द्दुःखैकधाम वपुरस्थिरमर्थयामि ।यद्वा भवाब्धितरणाय पुराणमुग्र-शीलं पुमांसमुडुपार्धधरं श्रयामि ॥११५॥दृङ्मार्गमात्रपतिताः सहसैव यस्यपञ्चत्वमिन्दुरविहव्यभुजोऽप्यवापुः ।धीमानहं बत तमेव सदाशिवं य-द्देवं श्रयामि शरणम्मरणार्त्तिभीरुः ॥११६॥स्थाणुः स यत्र विभुरस्य वधूरपर्णासा यत्र यत्र च तयोस्तनयो विशाखः ।प्रज्ञावतामहमहो प्रवरः प्रवेष्टु-मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥११७॥मार्जारशूकरशृगालकरालवक्त्र-वेतालभूतशतसङ्कुलमीश्वरस्य ।भीष्मं निशाचरपिशाचरवैः प्रवेष्टु-मिच्छामि धाम मतिमानतिमात्रभीरुः ॥११८॥कर्णेक्षणादचरणात्त्रिफणात्कृतान्त-पाशात्त्रसन्धृतसहस्रफणोरगेन्द्रम् ।प्राज्ञः सहस्रशिरसं पुरुषं सहस्र-नेत्रं सहस्रचरणं शरणं श्रयामि ॥११९॥त्रस्तः समस्तजनताऽपहृतिप्रगल्भा-द्दीप्ताऽनलोल्बणदृशः शिव जीवितेशात् ।प्राज्ञः समस्तजनतापहृतिप्रगल्-भंत्वां जीवितेशमनलोग्रदृशं श्रयामि ॥१२०॥निर्भर्त्सितक्रतुमृगं समशिश्रियत्त्वांसंन्यस्तलाञ्छनमृगः कलया मृगाङ्कः ।यत्कामवैरिणमवेत्य सकाम एवत्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥१२१॥पद्माश्रितः शतधृतिश्चतुराननोऽपियस्मात्पराभवमवापदवाच्यमेव ।त्यक्तः श्रिया गतधृतिर्मृदुमन्दवक्त्रःप्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥१२२॥आजन्म कर्म विरचय्य फलं यदाप्तंहृत्त्वा क्षणात्तदखिलं चिरकालभोग्यम् ।यः स्वीकरोत्यपुनरागमनाय भक्तंसेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥१२३॥श्मशानैकस्थानव्यसनमनलोत्तालनयनंविषज्ज्योतिर्ज्वालाजटिलकुटिलव्यालवलयम् ।विभुं मुण्डश्रेणीविकटमुकुटं भीरुहृदयःश्रयन् भीमं धीमानहमहसनीयः कृतधियाम् ॥१२४॥अहो तत्त्वज्ञोहं करतलविलीनैकफणिनःसमुत्त्रस्यन्कालात्क्रमकवलितैकैकभविनः ।महाकालं सर्वावयवसुलभानल्पभुजगंसकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥१२५॥शृंगी यत्र स्फटिकशिखरी यत्र शृंगी पिनाकःशृंगी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः ।तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भःप्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥१२६॥विश्रान्तिर्न क्वचिदपि विपद्ग्रीष्मभीष्मोष्मतप्तेचित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते ।तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपेमामुद्धर्त्तुं प्रभवति भव त्वां दयाब्धिं विना कः ॥१२७॥येषामेषा तनुधनलवप्रार्थनाऽनर्थकन्थापन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् ।तेषामेषामकृपण कृपाभाजनानां जनाना-माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥१२८॥उदञ्चय मुखं मनागभयघोषमुद्घोषयप्रयच्छ विशदां दृशं गतिविहीनमाश्वासय (धृतिविहीनमाश्वासय)।किमन्यदयमागतः कुपितदृष्टिरुत्कन्धरःकृतान्त इति मा स्म भूरविरलावलेपालसः ॥१२९॥मुहुः किमपरं ब्रुवे भुजगपाशपाणिं पुरःस्फुरन्तमिव रोषणं रविजकिङ्करं पश्यतः ।धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेल्लतिस्थितिर्ज्वलति निर्वृतिर्विगलति स्मृतिर्मीलति ॥१३०॥दुर्गं यत्सुगमत्वमेति भजते दूरं यदभ्यर्णतांयत्क्रीडोपवनत्वमेति मरुभूर्मित्रायते यद्रिपुः ।यस्याः सा भुवि शक्तिरप्रतिहता सार्त्तिस्त्वदाक्रन्दनेस्वामिन्मामनुदत्कृपाऽपि नुदतु त्वां मत्समाश्वासने ॥१३१॥द्वारि श्रीश्च सरस्वती च वसतः स्वामिंस्तवाऽस्तक्रुधौमां तु श्रीर्भवदङ्घ्रिविष्टरतले नित्यप्ररूढस्थितिम् ।यावन्मात्रसरस्वतीपरिचयद्वेषादहासीदतोवह्निं दुर्वहमुद्वहामि हृदये ग्लायन्नुदन्वानिव ॥१३२॥नाथ प्राथमिकं विवेकरहितं तिर्यग्वदस्तं वय-स्तारुण्यं विहतं विराधितवधूविस्रम्भणारम्भणैः ।स्वामिन्सम्प्रति जर्जरस्य जरसा यावन्न धावन्नयंमृत्युः कर्णमुपैति तावदवशं पादाश्रितं पाहि माम् ॥१३३॥आसीद्यावदखर्वगर्वकरणग्रामाभिरामाकृति-स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् ।अद्याऽकस्मिकपातकातरमतिः कं प्रार्थये कं श्रयेकिं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि माम् ॥१३४॥जात्यन्धः पथि सङ्कटे प्रविचरन्हस्ताऽवलम्बं विनायातश्चेदवटे निपत्य विपदं तत्राऽपराधोऽस्य कः ।धिग्धिङ्मां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सतिस्निग्धे स्वामिनि मार्गदर्शिनि शठः श्वभ्रे पतत्येव यः ॥१३५॥त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथिद्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः ।यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु-स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष गर्हावहः ॥१३६॥किं शक्तेन न यस्य पूर्णकरुणापीयूषसिक्तं मनःकिं वा तेन कृपावता परहितं कर्तुं समर्थो न यः ।शक्तिश्चास्ति कृपा च ते यमभयाद्भीतोऽपि दीनो जनःप्राप्तो निःशरणः पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥१३७॥भृङ्गारे करपुष्करप्रणयिनि स्वर्निम्नगानिर्झरेसम्पूर्णे करुणारसे परिणतस्फारे तुषारत्विषि ।अस्ति स्वादु च शीतलं च सुलभं पीयूषमोषच्छिदेप्राप्तश्च प्रणयी पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥१३८॥आर्त्तिः शल्यनिभा दुनोति हृदयं नो यावदाविष्कृतासूते लाघवमेव केवलमियं व्यक्ता खलस्याऽग्रतः ।तस्मात्सर्वविदः कृपाऽमृतनिधेरावेदिता सा विभो-र्यद्युक्तं कृतमेव तत्परमतः स्वामी स्वयं ज्ञास्यति ॥१३९॥लेखाः सन्तु प्रसन्ना बुधसदसि शुचेरागमस्यास्तु लब्धि-र्मिथ्यादृष्टिश्च माभूदनुपधिरहतो दीर्घकालोऽस्तु भोगः ।सभ्याः सर्वेऽनुवृत्तिं विदधतु तदपि न्यायतो नास्ति मुक्तिःसम्यग्दर्शी प्रमाता रचयति न भवानीश्वरश्चेद्विचारम् ॥१४०॥जानुभ्यामुपसृत्य रुग्णचरणः को मेरुमारोहतिश्यामाकामुकबिम्बमम्बरतलादुत्प्लुत्य गृह्णाति कः ।को वा बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो-रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः ॥१४१॥धत्ते पौण्ड्रकशर्कराऽपि कटुतां कण्ठे चिरं चर्वितावैरस्यं वरनायिकाऽपि कुरुते सक्त्या भृशं सेविता ।उद्वेगं गगनापगाऽपि जनयत्यन्तर्मुहुर्मज्जनाद्विश्रद्धां मधुराऽपि पुष्यति कथा दीर्घेति विश्रम्यते ॥१४२॥इत्थं तत्तदनन्तसन्ततलसच्चिन्ताशतव्यायत-व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् ।तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माऽखिलंवेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं ममाऽतिक्रमम् ॥१४३॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``दीनाक्रन्दनं'' नामैकादशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP