संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् Translation - भाषांतर उदारवर्णैरथ सङ्गतैरहंमुदाभिधावद्भिरुपोढलक्षणैः ।पदैरमन्दध्वनिभिर्महेश्वरंप्रभुं प्रपद्ये तुरगोत्तमैरिव ॥१॥शिवेन देव्या जगृहे करोहित-स्त्रसन्यदा कुङ्कुमपङ्करोहितः ।तदास्य योऽर्काग्निनिशाकरोहितःस्तवः स वः स्यादभयङ्करो हितः ॥२॥अनञ्जनं नेत्रविकासकारणंनिरङ्कुशं कर्णकरेणुवारणम् ।अचन्द्रिकं चित्तचकोरपारणंक्रियाद्व ईशार्चनमार्तिदारणम् ॥३॥सुखाकरोति क्लमहृन्न माधव-स्तथामरौ वोपवनेऽपि माधवः ।यथा शरीरार्धनिरुद्धमाधवःप्रशस्यमानो भगवानुमाध्वः ॥४॥दिनान्तरात्र्यागमयोरिवाथवासुरस्रवन्तीयमुनौघयोरिव ।उमारमाकामुकयोः समागमःसिताऽसितस्तापमघं च हन्तु वः ॥५॥उमाख्यमासाद्य महानियोऽगतःप्रियं निधिं सौख्यमहानि यो गतः ।करोतु युष्माकमहानि योगतःशुभान्यसाविद्धमहा नियोगतः ॥६॥द्विजाधिपाधिष्ठितशेखरं महा-भुजं गविन्यस्तभरं समुद्वहन् ।वपुः सदाभङ्गदयासमाश्रितंतनोतु वः सम्पदमच्युतः शिवः ॥७॥अघद्रुमध्वंसमहाकरेणवःसुधासिताः पावककल्करेणवः ।वसन्ति यस्मिन्नभयङ्करेऽणवःकरोतु शं तेन हरः करेण वः ॥८॥धृतिस्त्वदीयेन सुदर्शनेन मेभवत्यभेदस्तु हरे किमुच्यते ।परस्परं शङ्करकृष्णयोरिदंवचः सुखायैकमुखोत्थमस्तु वः ॥९॥न जन्म यस्याद्रिनिवास दारुणःस ते ज्वलत्यक्ष्णि शिखी सदारुणः ।यमं न किं तेन शिरःसदाऽरुण-स्त्वदाश्रितं किं ग्रसतां स दारुणः ॥१०॥सदा नगोपाहितबन्धुरस्थितिंस्तुवे पिनाकेन समेधितश्रियम् ।महर्द्धिकं सोपशमे कृतादरंहरं हरिं वा तरसा रसादहम् ॥११॥मनो भृशं भ्राम्यति बालिशं भवेजहाति भक्तिं च दिवानिशं भवे ।अतः परं नाम किमस्य शं भवे-न्निवेदयेत्स्वं यदि कर्म शम्भवे ॥१२॥समुद्रजन्मानमुपादधत्करेसितद्युतिं वक्त्रनिवेशनोचितम् ।रतः सदास्कन्दकदर्थनाहतौहरो हरिर्वा दुरितं धुनोति वः ॥१३॥जिगीषवः क्लेशपरम्पराभवंवनेषु भिक्षाधृतकर्परा भवम् ।असोढवन्तः कुनृपात्पराभवंभजन्ति सन्तः स्तुतितत्परा भवम् ॥१४॥कदा दधानो घनशान्तिशोभिनींशुभाम्बरालङ्करणोचितां तनुम् ।भजाम्यहं दृष्टिनिवेशनौचितींशशीव तिग्मांशुरिवाऽच्युतस्य ते ॥१५॥किमाम्रवन्या सृमरालवालयाप्रियाकबर्या किमरालबालया ।सरःश्रिया किं समरालबालयाधृतेशभक्तिर्ह्यमराऽलवाऽलया ॥१६॥कदाऽनवद्यामतिनिर्मलामहंमहानदीनां सलिलैः प्रसादिभिः ।वहामि हंसैरुपशोभिताम्बरांप्रभुप्रसादाच्छरदं यथा तनुम् ॥१७॥प्रभुं प्रपत्तुं स्थलमेहि मालयंमहीधरं मानस वा हिमालयम् ।रसातले वौपयिकाहिमालयंश्रयन्तमन्वेषय याहि मा लयम् ॥१८॥निधाय चक्षुर्दहतो मनोभवंन कामहानिं प्रवितन्वतो दृशा ।अनष्टमूर्तेर्दधतोऽष्टमूर्तितांजयन्ति शम्भोर्विविधा विभूतयः ॥१९॥समाश्रितस्त्वां करुणापराऽज यःक्वचिन्न तस्यास्ति रणे पराजयः ।परे तमारब्धपरस्पराजयःश्रयन्ति नाथं धृतचापराजयः ॥२०॥ध्रुवं स कृष्णस्तमधश्चकार य-श्चिराय पक्षद्वयकल्पितस्थितिम् ।द्विजाधिराजं विनतार्तिहारिणंबिभर्ति यो मूर्ध्नि स तु त्वमीश्वरः ॥२१॥विभुं विरिञ्चोऽपि न वेद नाम यंनतस्य दुःखं घनवेदनामयम् ।निहन्ति तस्यापि भवेदनामयंशुचं भजेन्नाप्यनिवेदनामयम् ॥२२॥समुद्रजालिङ्गितकण्ठपीठंसदैव सत्याहितसक्तिमच्युतम् ।अनन्यगा यस्य नवोक्तिमौक्तिकै-रलङ्करोति प्रचुरा सरस्वती ॥२३॥अभीष्टदायी यमधामहोदयाद्-ध्वनिर्यया श्वेतनृपे महोदया ।धृतिं दिशन्ती नमतामहो दयाक्व सा तवास्मास्वधुना महोदया ॥२४॥अयमहं पुरुषोत्तममच्युतंबलिजितं कृतसत्यपरिग्रहम् ।अचलितश्रियमाश्रितनन्दकंधृतसुदर्शनमीश्वरमाश्रये ॥२५॥वितन्वती भक्तिमतां समानतांबिभर्ति या कल्पलतासमानताम् ।कथं दधन्मूर्तिमिमां समान्तांतव स्तुतिं वच्मि शतं समा न ताम् ॥२६॥इह परशुचितोर्जिताकृति-द्विजपतिशेखरतां बिभर्ति यः ।त्रिजगति गिरिशं सतां हितंप्रणमतरामतनुं तमच्युतम् ॥२७॥यमं ययारब्धमहामहाऽनयः क्षयंदृशा यस्य स शर्महाऽनयः ।ददासि चेत्तामुदितो महानयःक्षताश्च विघ्नाः कृतकामहानयः ॥२८॥अनलसम्भृतकान्ति दधत्सदारुचिरमारचितास्पदमीक्षणम् ।सुमतये विधुरोपकृतिप्रियोभवतु वो भगवान् भगवानिव ॥२९॥न जातु तज्ज्ञाः कृतिनोऽवहन्त या-मधोगतौ कारणमेव हन्त या ।त्वयि प्रसन्ने सुमतावहन्तयान यामि दुःखं नरकावहं तया ॥३०॥प्रियां मुखे यो धृतपञ्चमस्वरांगिरं वहन्तीममृतस्य सोदराम् ।विशेषविश्रान्तरुचिर्बिभर्ति मांवपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥३१॥नुतिर्मयेयं भजतां हिताय तेकृताऽनया शर्म सतां हि तायते ।मनस्यपि ग्लानिरपोहिता यतेधृता यदेषा श्रुतिसंहितायते ॥३२॥अमेयमहिमा हिमाद्रितनया-नयात्तहृदयो दयोर्जितमतिः ।विभुर्भवरुजं रुजन्नविकलंकलङ्करहितं हितं दिशतु वः ॥३३॥उदारकरुणोऽरुणोर्जितमहामहाहिवलयो लयोज्झितवपुः ।अघौघशमनो मनोधृतमुदा-मुदात्तविभवो भवो भवतु वः ॥३४॥एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्तेचक्रे पूजां नयनकमलेनाऽपरस्य द्वितीयः ।इत्यन्योन्यं प्रकृतिमहतामन्तरज्ञौ गुणानांहर्षोत्कर्षं कमपि कुरुतां कामकंसद्विषौ वः ॥३५॥यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकंवैरं केसरिकुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः ।यस्मिन्नप्यहिराजपन्नगभुजौ निर्व्याजमैत्रीयुजौनिष्प्रत्यूहमसौ महापुरुषयोः सन्धिर्निबध्नातु वः ॥३६॥इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``एकान्तरयमकस्तोत्रं'' नामैकोनत्रिंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP