संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् Translation - भाषांतर आपन्नतापहरणप्रवणा घृणेवत्वङ्गत्तरङ्गसुभगा गगनापगेव ।पीयूषसारशिशिरा शशभृत्कलेववाणी शिवैकशरणा जयतीश्वरीव ॥१॥यो मूर्धनि स्रजमिवोद्वहते धरित्री-मुष्णीषतां श्रयति यस्य स भोगिराजः ।यस्यामसौ वसति वाक्पतिरुक्तिदेवींतां ये वहन्ति हृदि ते कवयो जयन्ति ॥२॥धन्याः शुचीनि सुरभीणि गुणोम्भितानिवाग्वीरुधः स्ववदनोपवनोद्गतायाः ।उच्चित्य सूक्तिकुसुमानि सतांविविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥३॥श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ-सन्दर्भसुन्दरपदोपचितैर्वचोभिः ।धन्याः सतां सुकवयः सुखयन्ति तेऽपितेषामकृत्रिमचमत्कृतिसाधुवादैः ॥४॥ते केचिदस्खलितबन्धनवप्रबन्ध-सन्धानबन्धुरगिरः कवयो जयन्ति ।येषामचर्वितरसापि चमत्करोतिकर्णे कृतैव भणितिर्मधुरा सुधेव ॥५॥तेऽनन्तवाङ्मयमहार्णवदृष्टपाराःसांयात्रिका इव महाकवयो जयन्ति ।यत्सूक्तिपेलवलवङ्गलवैरवैमिसन्तः सदःसु वदनान्यधिवासयन्ति ॥६॥जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास-लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी ।भ्रूकाण्डकुण्डलकिरीटशिरोधराणांनृत्तोपदेशगुरुतां कृतिनामुपैति ॥७॥आवर्जयन्ति मठराञ्जठरार्थमात्र-पात्रीकृतार्थकणिका गणिकाविटाद्याः ।प्रौढान् पुनर्भुजगभूषणभक्तिसिक्त-सूक्तावलीविरचनाचतुराः कवीन्द्राः ॥८॥धन्यः स कोऽपि सुकविः कविकर्मकृत्त-लोकार्ति कार्तिकतुषारकरानुकारि ।गायन्ति यस्य कृतिनस्त्रिजगत्पवित्रंचित्रं चरित्रमिव बालमृगाङ्कमौलेः ॥९॥त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धु-रेकश्चकास्ति सविता कविता द्वितीयः ।शंसन्ति यस्य महिमातिशयं शिरोभिःपादग्रहं विदधतः पृथिवीभृतोऽपि ॥१०॥यस्य स्रवन्त्यमृतमेव मुखे तुषार-हाराभिरामरुचिरञ्चितवक्रभङ्गिः ।सूक्तिर्द्युसिन्धुरिव मूर्ध्नि हरस्य चन्द्र-लेखेव वा वसति तं सुकविं नमामः ॥११॥याता गुणैरुपचयं विमला प्रकृत्यानैसर्गिकीं परिणतिं प्रथमां वहन्ती ।बुद्धिः सतां शशिकलामुकुटप्रसादा-द्वाणी च न क्वचिदपि प्रतिघातमेति ॥१२॥चन्द्रावचूडचरणस्मरणप्रसाद-सन्दर्भनिर्भरगभीरगिरां कवीनाम् ।सूक्तिर्बिभर्ति मुखपङ्कजरङ्गनृत्य-द्वाग्देवताकनकनूपुरनादलीलाम् ॥१३॥काव्यं विभाव्य निजमर्धनिमीलितानिनैसर्गिकं जहति चापलमीक्षणानि ।गृह्णन्ति तन्मसृणतां सहजां विहायभ्रूवल्लयस्तु कृतिनां कविपुङ्गवानाम् ॥१४॥नीहारहारधवलस्य जयत्यपूर्वःपाकः स कोऽपि सुकृतस्य कृतस्य पूर्वम् ।यः सम्प्रति प्रतिफलत्यमलासु बाल-चन्द्रावचूलनुतिसूक्तिषु सत्कवीनाम् ॥१५॥सूक्ष्मार्थदर्शनविमर्शवशप्ररूढ-भ्रूकाण्डताण्डवनिवेदितचिद्विकासम् ।आस्वाद्य यत्सुमतयो मुखमुद्वहन्तिसूक्तामृतं जयति तत्कविकुञ्जराणाम् ॥१६॥शब्दार्थमात्रमपि ये न विदन्ति तेऽपियां मूर्छनामिव मृगाः श्रवणैः पिबन्तः ।संरुद्धसर्वकरणप्रसरा भवन्तिचित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥१७॥लभ्यः स कुत्र सुजनः स्वकृतीः प्रदर्श्यभ्रूकन्दलीयुगलमाकलयन्ति यस्य ।नेत्रोत्पलोपरिपरिस्फुरदुत्तरङ्ग-भृङ्गावलिद्वितयविभ्रमभृत् कवीन्द्राः ॥१८॥स्फारेण सौरभभरेण किमेणनाभे-स्तद्घानसारमपि सारमसारमेव ।स्रक्सौमनस्यपि न पुष्यति सौमनस्यंप्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥१९॥संसारमारवपथप्रथमानखेद-विच्छेदकोविदमिदं कविकर्म्म जीयात् ।विस्मारितं यदमुना यमुनासनाथंपाथः प्रसिद्धमपि वैबुधसैन्धवं नः ॥२०॥गाम्भीर्यशालिनि शुचावमृतौघशीतेनीते सदा सदनतां मदनान्तकेन ।यस्यैकपिङ्गलगिरेरिव मानसेऽन्त-रर्थाः स्फुरन्ति स विना सुकृतैः क्व लभ्यः ॥२१॥यस्य द्युसिन्धुलहरीशुचयो न कस्यदृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः ।गावः सुधारसमुचः प्रसरन्ति दिक्षुविश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥२२॥संयोगमेत्य परमर्थपरिष्कृतस्यपादान्तगोऽपि गुरुतां लघुरेति यस्य ।तं शङ्करस्तुतिपरं परिशुद्धवृत्तंसुश्लोकमाप्य मुदमेति न कस्य चेतः ॥२३॥इह हि महिमा मायामोहप्ररोहतिरोहित-त्रिजगदगदङ्कारः सारस्वतः प्रथते सताम् ।प्रभवति जरामृत्युव्याधिप्रबन्धनिबन्धन-व्यसनजनितव्यापत्तापक्लमापगमाय यः ॥२४॥चमत्कारोत्कर्षं कमपि कमनीयं विमृशतांदिशन्ती सा काचिज्जयति कविवाचां परिणतिः ।यदासृष्टे (यदातुष्टे)चेतस्यमृतमिति निश्रेयसमितिप्रियं धामेत्युच्चैः पदमिति समुद्यन्ति मतयः ॥२५॥मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु-भ्रमक्लेशावेशप्रशमकमनीयो विजयते ।अखण्डश्रीखण्डद्रवनवसुधासारसरसःप्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥२६॥घनानन्दस्यन्दोद्गत (स्पन्दोद्गत)विपुलवाष्पार्द्रनयनंसलीलभ्रूवल्लीवलनविवलद्भालपुलिनम् ।उदञ्चद्रोमाञ्चस्तवकितकपोलं विदधतेसुधार्द्रा धन्यानां वदनमनवद्याः कविगिरः ॥२७॥धन्यानाममृतं द्रवन्ति हृदये कर्णे वलन्मल्लिका-लङ्कारस्तवकन्ति कण्ठपुलिने मुक्ताकलापन्त्यपि ।शैलान्दोलितदुग्धसिन्धुलहरीभङ्गाभिरामोद्गमाश्यामाकामुकखण्डमण्डनकथासन्दर्भगर्भा गिरः ॥२८॥धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका-धाम्नः सूक्तिसुधावबोधविधुतापीडस्य चण्डीपतेः ।किं जूटाहिकिरीटरत्नरुचयः किं स्रग्रजःसूचयःकिं मौलीन्दुमरीचयः किममरस्रोतस्वतीवीचयः ॥२९॥सान्द्रानन्दकरे धृतामृतकरे नास्त्येष राकाकरेन प्रौढप्रसरे निसर्गशिशिरे स्वर्गापगानिर्झरे ।गाढप्रेमभरे स्मरज्वरहरे नोद्दामरामाधरेयः शम्भोर्मधुरे स्तुतिव्यतिकरे ह्लादःसुधासोदरे ॥३०॥ओजस्वी मधुरः प्रसादविशदः संस्कारशुद्धोऽभिधा-भक्ति व्यक्तिविशिष्टरीतिरुचितैरर्थैर्धृतालङ्कृतिः ।वृत्तस्थः परिपाकवानविरसः सद्वृत्तिरप्राकृतःशस्यः कस्य न सत्कविर्भुवि यथा तस्यैव सूक्तिक्रमः ॥३१॥प्राप्ता कल्पलतेव चेद्भगवती वागीश्वरी कैरपिप्राक्पुण्यैः स्वपरोपकारकरणप्रौढा पुनर्दुर्लभा ।अज्ञैस्तज्ज्ञजनोपदेशविहितावज्ञैर्दुराशाहतै-रस्ता दुर्मदकर्दमे फलति किं पापं सशापं विना ॥३२॥विस्रब्धं विलसन्त्युपस्कृतपदन्यासा विलासालसासाहङ्कारमकारणारिभिरभिध्याताऽभिजाताकृतिः ।क्षिप्ता दृप्तनृपान्धकूपकुहरे दाशैरिवाशाग्रहै-र्ग्रस्तैः सूक्तिनिभेन तारकरुणं गौरीदृशी रोदिति ॥३३॥उष्णं निःश्वसिति क्षितिं विलिखति प्रस्तौति न प्रेयसःप्रीतिं सूक्तिभिरीशितुः करतले धत्ते कपोलस्थलम् ।वाग्देवी हृदयज्वरेण गुरुणा क्रान्ता हताशैर्वृथानीताविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम् ॥३४॥अस्थाने गमिता लयं हतधियां वाग्देवता कल्पतेधिक्काराय पराभवाय महते तापाय पापाय वा ।स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतयेचेतो निर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥३५॥एताः पूर्वकविप्रणीतविविधग्रन्थाऽमृतास्वादन-क्रीडादुर्ललितं हरन्ति हृदयं वाचः कथं धीमताम् ।केषाञ्चित्पुनरीश्वरस्तुतिपदव्याहारहेवाकिनांयास्यन्ति स्पृहणीयतां भुवि भवक्लेशस्पृशां मादृशाम् ॥३६॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``कविकाव्यप्रशंसाख्यं'' नाम पञ्चमं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP