संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् Translation - भाषांतर अनाथानां नाथो गतिरगतिकानां व्यसनिनांविनेता भीतानां शरणमधृतीनां भरवशः ।सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुःपिता माता भ्राता त्रिजगति जयत्यन्तकरिपुः ॥१॥उदारैर्मन्दारैरचितशिखरं चन्द्रशिखरंसमभ्यर्च्य प्रेम्णा विपुलपुलकालङ्कृततनुः ।कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप-स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥२॥इतो द्वन्द्वक्लेशा विषयमृगतृष्णास्थितिरितोजरामृत्युव्याधिप्रतिभयमितः सर्वसुलभम् ।महामोहैर्घोरैरुपहतमितो बोधलसितंकथं कुर्यादार्यः कृतमतिरपि स्वात्मनि हितम् ॥३॥अशेषक्लेशौघग्लपनपरिपन्थी प्रकटय-न्नयं विघ्नव्रातः प्रबलविपदापादनविधिम् ।विवेकाख्यं चक्षुस्तिरयति सतां येन सहसाभवश्वभ्रे पातः प्रतिपदमदभ्रः प्रभवति ॥४॥भवद्भक्तिं तस्य व्युपशमसमर्थामथ दृशःप्रसादं तन्वानां घनमहसमासाद्य सुधियः ।प्रकाशात्मानं त्वामतिविमलया हंसमुदितंदृशा साक्षात्कृत्य प्रतिजहति मोहान्धतमसम् ॥५॥अनित्ये नित्याशामशुचिनि शुचित्वव्यसनिता-मनात्मन्यात्मास्थामथ महति दुःखे सुखमतिम् ।चतुर्धा दुर्भेद्यामविरतमविद्यां परिणतांहताशेषस्वाभामभिदधति मूलं भवतरोः ॥६॥नरास्तत्त्वालोके नियतमनया दूषितदृशोविवेकप्रध्वंसाद्विदधति भवे कन्दुकगतिम् ।उपासाभिर्लब्ध्वा भवभयभिदं निर्मलधियःसमाधिं साधिम्ना दधति न पुनर्जन्मविपदम् ॥७॥चकाशे नाकाशे रविरविरलैरंशुपटलै-रमन्दाभैरिन्दुस्तिमिरमहरन्नापि किरणैः ।न चान्यन्नक्षत्रग्रहदहनरत्नौषधितडि-त्प्रदीपादिज्योतिः क्वचिदपि पुरा नाथ ददृशे ॥८॥तमोभूतं विश्वं किमपि गहनं धाम तदभू-दथ स्वेच्छाशक्तिप्रकटितमहावैभवभरम् ।विभज्यात्मानं क्ष्मावनपवनवह्नीन्दुतपन-स्वखैरंशैरीश त्रिजगदसृजत्कस्त्वदपरः ॥९॥अनादौ संसारे विदधति रजोबाधितधियःशुभं वा घोरं वा शबलमथ वा कृत्यमणवः ।ततस्तद्भोगार्थं तरुणकरुणापूर्णहृदयोविधत्से यत्तेषां तनुभुवननिर्माणमखिलम् ॥१०॥तदेतत्सङ्कल्पप्रकटितसमस्तत्रिजगतःप्रभोर्लीलामात्रं भुवनमहनीयस्य भवतः ।तवैकस्य स्वामिन्यदिह सहजे सर्वविषयेक्रियाज्ञाने नित्ये करणनिरपेक्षे प्रभवतः ॥११॥प्रसिद्धोऽयं पन्था न भवति विचित्रा विरचनाविना यत्कर्तारं स च न भवति ज्ञानरहितः ।अतोऽवश्यं कर्ता त्रिजगति विचित्रे ज्ञ उचितःस च त्वं त्वय्यन्ये किमिव विवदन्ते हतधियः ॥१२॥अथैवं चेद्ब्रूयुः किमयमपरप्रेरितमतिःस्वतन्त्रो वा देवस्त्रिभुवनविधाने प्रयतते ।अमुष्याद्ये पक्षे नहि परविधेयस्य विभुतापरस्मिन्पक्षे वा फलमपि किमुद्दिश्य यतते ॥१३॥अथास्येयं वाञ्छा प्रभवति न कर्मक्षयमृतेनृणां मुक्तिः सोऽपि क्वचन न विना भोगमुचितः ।विनाधारं भोगो न भवति वपुर्नापि भुवनंततोऽर्हं जन्तूनां तनुभुवननिष्पादनमिति ॥१४॥इदं युक्तं सान्द्रामृतमधुरयाऽन्तः करुणयाप्रयुक्तस्याऽजस्रं परहितविधानव्यसनिनः ।दयालुश्चेल्लोकं सृजति सकलं किं न सुखिनंकुतो वाऽऽधिव्याधिक्षत इह जनोऽनेन जनितः ॥१५॥अथोपादानं यद्भवति परमाण्वादि जगत-स्तथा कर्माऽनेहःप्रभृति सहकार्येतदुभयम् ।विना सृष्टौ नैष प्रभवति यदीशः किममुनातदेवाऽस्तु व्यक्तं तनुभुवननिर्माणनिपुणम् ॥१६॥इतीत्थं मुग्धानामिह मतिविमोहाय कुधियःकुतर्कप्रागल्भीमुखरितमुखा मूढमनसः ।अधिष्ठातारं त्वां वरद जडवर्गस्य सदयंन जानन्ति स्वामिन् परमपुरुषं चेतनममी ॥१७॥यथोपादानं मृत्तदनु सहकारीह लगुडोजलं चक्रं सूत्रं वरद जडवर्गोऽयमखिलः ।न यत्नं कौलालं प्रभवति विना कुम्भघटनेतथाधिष्ठातारं न भवति विना त्वां भवविधिः ॥१८॥अविज्ञायैवाऽज्ञः परुषविषमं कर्म कुरुतेविपाके तस्यासौ निपतति भवक्लेशकलिले ।अतो ज्ञानालोकः प्रकटितसमस्तार्थगहनोमहामोहध्वान्तव्यवहितदृशोऽवश्यमुचितः ॥१९॥उपायस्तत्प्राप्तौ भवति न विना शास्त्रमपरोन शास्त्रं तत्वामिन्निह यदुपदिष्टं न भवता ।विविञ्चन्तः सन्तो हितमहितमेते विदधतेहिते सक्तिं मुञ्चन्त्यहितमिति नार्हन्ति पतनम् ॥२०॥भवान्धर्मं साक्षादकृत सहजज्ञानमहसातमोध्वंसं पुंसामथ तदुपदेशेन विदधे ।प्रमाणं चोक्तिस्ते नहि घनघृणानिघ्नमनसोजगद्भर्त्तुर्युक्तं वितथमभिधातुं भगवतः ॥२१॥तदेतत्कारुण्यं घनतमतमःपङ्कपटली-विलीनोऽयं लोकस्तव वरद सम्भाव्य सहजम् ।दधच्छ्रद्धाबन्धं त्वदुदितमनुष्ठातुमसकृत्प्रवृत्तो दुष्पारं हर तरति संसारजलधिम् ॥२२॥इत्येवं भगवन्नबन्ध्यमहिमा निर्माय निर्मानुषंविश्वं विश्वसितं वितत्य तदनु स्फीतैर्विभूतिक्रमैः ।संहृत्याथ निजे महिम्नि निखिलं तत्कन्दुकान्दोलन-क्लेशावेशविरामसम्भृतसुखं कैवल्यमाकाङ्क्षसि ॥२३॥इत्थं किं बहुना त्वदङ्घ्रिकमलद्वन्द्वप्रसादादिदंभूयान्मे भवभीतिभञ्जन विभो भक्तानुकम्पापर ।यत्त्वत्पादसरोजपूजनविधौ भक्तिर्विरोगं वपु-र्यावज्जीवमथ त्वदेकमनसो मुक्तिस्तवैवाग्रतः ॥२४॥एवं देव तव स्तुतिप्रवचनप्राप्तप्रसादस्य मेभूयो जन्म भविष्यतीति भगवन् मन्ये खपुष्पोपमम् ।स्याच्चेत्प्राक्तनकर्मशेषजनितं तन्नाथ किं भूयसाभूयासं भवदीयपादकमलस्तुत्या पुनर्निर्वृतः ॥२५॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``ईश्वरप्रशंसास्तोत्रं'' नामकं पञ्चत्रिंशं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP