संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम्

रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


किल यस्य कल्पितमहोदयया-
हृदयं समाश्रितमहो दयया ।
विभवं यतश्च परमाप दिवः
प्रभुरेष पातु परमापदि वः ॥१॥

तव सेवकस्य परमेश मनः
कुरुते न हन्तुमपि मे शमनः ।
भगवन्नतो वपुरनीरसदृ-
क्तव नौमि सिद्धधुनिनीरसदृक् ॥२॥

स्रगिवाऽर्प्यते कलितसारसना
त्वयि गीर्यया जयति सा रसना ।
त्वयि यन्महेश वरदेऽवहितं
हृदयं तदेव वरदेव हितम् ॥३॥

तव दृक्सुधाकरकलोपमिता-
पतिता विपत्तदनुलोपमिता ।
भगवन् दृशैव कमला भवतः
सहसाऽङ्कमेति शमला भवतः ॥४॥

कुरु नाथ चेतसि वचो दयिता
तव गीरहं न तव चोदयिता ।
अथवा महेश पृथुकामतया
न किमारटन्ति पृथुका मतया ॥५॥

विषयैर्मुखे वरद कामधुरै-
र्विवशीकृतं घटितकामधुरैः ।
भज मां महेश्वर मुदा रहितं
दिश भाषितामृतमुदारहितम् ॥६॥

विजितं मया जगदमोहतया
न रुषा क्षतो मम दमो हतया ।
तृणवत्सुरक्षितिधरोऽपि तया
विहितो महेश हृदि रोपितया ॥७॥

मरुतायतेव मलयाचलतः
क्षपिता धृतिः कमलया चलतः ।
तदिमां प्रसादनपरां करुणां
श‍ृणु मे गिरं कुरु परां करुणाम् ॥८॥

भवतः प्रसादमधुरामहतां
दृशमीयुषां शमधुरा महताम् ।
धृतिमेत्यपास्य च रमा लसतां
सुलभत्वमेति चरमालसताम् ॥९॥

समरे विकीर्णगजराजघटे
बत तस्य शक्तिरजरा जघटे ।
तव येन सेवनविधौ तरसा
मतिरर्पिताऽन्यभविधौतरसा ॥१०॥

विषयान्प्रति प्रयतमानमदः
सुजनो मनः प्रयतमानमदः ।
तव शासनेन वशमानयते
शरणं ततो नवशमानयते ॥११॥

रविजं रजोभिरिव मेचकितं
हृदयं विभाव्य शिव मे चकितम् ।
वचनं जितामृतरसं भ्रमतः
पथि सङ्कटे वितर सम्भ्रमतः ॥१२॥

त्वयि चक्षुरीश कलितापकृति
क्षिपति क्षणं शकलितापकृति ।
परशक्तिरिद्धवपुरङ्गमिता
जनता यया तव पुरं गमिता ॥१३॥

रविजस्य वर्ष्म सहसा रचितं
भवताग्निसादसहसारचितम् ।
वपुराप ते मदनघस्मरतां न
तथापि भीमदनघस्मरताम् ॥१४॥

करुणा क्षतानवधिकोपचया-
धिगता मया त्वदधिकोपचया ।
शशिना यथाकुलतरं गलता
द्युसरिन्निरर्गलतरङ्गलता ॥१५॥

गरुडेन यद्विषमपक्षतिना
कवलीकृतं विषमपक्षतिना ।
स तव प्रसादमहिमा न परः
प्रभुरानतं प्रति हि मानपरः ॥१६॥

पदमाप्तुमार्तिशमनं गहनं
प्रभुमर्थये भृशमनङ्गहनम् ।
वसनं यथार्त्तिहरणं सहिमे
समये तथैव शरणं स हि मे ॥१७॥

सुरसुन्दरीषु रमणीयतमा
स्ववपुर्गुणेन रमणी यतमा ।
तव भक्तमक्षतरसाजर सा
भजते समेत्य तरसा जरसा ॥१८॥

त्वयि गीर्मया निजगदे बत
या निखिलं जयामि जगदेव तया ।
मुदितस्य भक्तिसुधया भवतः
सभयस्य किं वसुधया भवतः ॥१९॥

शिरसि स्रजेव विधुरोचितया
हृदि मद्गिरात्र विधुरोचितया ।
क्रियतां पदं शिव धिया सहतेऽ-
विपदं सदानवधि या सहते ॥२०॥

विभुमाश्रये विगलदङ्गलतः
प्रमये बिभेमि यदमङ्गलतः ।
स विमुच्य पाशमशमं गलतः
कुरुते हि मे भयशमं गलतः ॥२१॥

चरणौ यथा मुरजितः क्षमया-
धिगतौ भरं धरितुमक्षमया ।
नमतां तथैव कृतरक्ष मया
भवतो धिया समुचितक्षमया ॥२२॥

तिमिरं रवेरिव विभामुदितां
दृशमाप्य ते जहति या मुदिताम् ।
भगवन् रसाद्गिरमिमामुदिता-
मुपकर्णयन्मयि दिशाऽमुदिताम् ॥२३॥

करुणा सुरैः प्रतिपदानत या
भवतः स्तुता सदपदानतया ।
किमु मां भियाप्तमपदानतया
भजसे निरस्तविपदा न तया ॥२४॥

तव दृग्जयत्यलसतां लसतां
मदनस्य या व्यतनुताऽतनुताम् ।
कुशलाय सा किल सतां लसतां
निबिडं शमप्यतनुता तनुताम् ॥२५॥

यया भजन्ते भुवि मानवा हितां
विभूतिमन्ते च विमानवाहिताम् ।
यमं च याऽधाद्दलशो भयानकं
तया दृशा पास्युरुशोभया न कम् ॥२६॥

परमया रमया रहितस्य मे
न रुचिरं रुचिरङ्गमिमं व्यधात् ।
हर मयाऽरमयाचि भवानतः
कुरु चिरं रुचिरञ्जनमेहि मे ॥२७॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``रुचिरञ्जनाख्यं'' पञ्चविंशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP