संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः|
भक्तिस्तोत्रं सप्तदशं स्तोत्रम्

भक्तिस्तोत्रं सप्तदशं स्तोत्रम्

स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.


मन्दस्पन्दे मनसि रसिकीभावमासाद्य सद्यो
हृद्योद्योगा विहर वरदे भारति स्वारतिस्ते ।
मातर्जातस्पृहमिव महामोहनिद्रावसाने
जनीहीमं जनमनलसं शंसितुं शम्भुभक्तिम् ॥१॥

द्राक्षा साक्षादमृतलहरी कर्कशात्काष्ठकोषा-
द्भूरिच्छिद्रात्प्रकृतिमधुरा मूर्च्छना वंशगर्भात् ।
सूक्तिव्याजान्मम च वदनात्कर्णपेया सुधेयं
निर्गच्छन्ती जनयति न कं विस्मयस्मेरवक्त्रम् ॥२॥

ध्यात्वा देव प्रमयसमयत्रासमासन्नकल्पं
स्वल्पं ज्ञात्वा सुलभशलभच्छायसच्छायमायुः ।
मत्त्वा च त्वा सदयहृदयं भक्तिवाल्लभ्यलभ्यं
सभ्यम्मन्यास्तव नवविधौ धौतचित्ता यतन्ते ॥३॥

कण्ठे कण्ठीरवरवसदृग्दृक्समुद्गोद्गताश्रो-
र्हेलोन्मीलद्विपुलपुलकोद्भृतभूतेशभक्तेः ।
यस्योदेति ध्वनिरनिभृतः शर्वशर्वेत्यखर्वं
गर्वं बिभ्रद्धसति वसतिं वासवीयां स एकः ॥४॥

तन्मानुष्यं प्रभवति सतामुत्तमा यत्र जातिः
सैका जातिः प्रसरति यशो यत्र पाण्डित्यहेतु ।
तत्पाण्डित्यं सरसमधुरा जृम्भते यत्र वाणी
वाणी सापि प्रथयति रतिं शाङ्करी यत्र भक्तिः ॥५॥

येषां वक्त्रे समदमुदितत्वच्चरित्राः पवित्रा
द्वित्रा वित्रासितरविसुतभ्रूविभङ्गप्रसङ्गाः ।
नोज्जृम्भन्ते मधुकणमुचः सूक्तयो भक्तिसिक्ता
धिक्तान्रिक्तान्भुवि भव भवत्पादसेवारसेन ॥६॥

नाथ ज्योत्स्ना बहुलरजनौ कार्तिकीयेव कान्ता
कान्तारान्तर्मथितपथिकप्रौढतापा प्रपेव ।
मा मा भैषीरिति यमभये तावकीनेव वाणी
भावत्की मे सततममृतस्यन्दिनी भाति भक्तिः ॥७॥

येषामन्तः सुकृतसरणिः स्थाणवीया न भक्ति-
र्व्यक्तिं धत्ते रसकृदसकृन्नास्मि तेषु स्मितेषु ।
लोकः शोकं त्यजति सहसा यत्र तद्भक्तियुक्तं
युक्तं मन्ये रुदितमुदितश्लाघमुल्लाघहेतुम् ॥८॥

ध्वान्तं शान्तप्रशममहरद्यन्न सद्यः समुद्य-
न्नुद्योतश्रीकलितकमलोल्लासभानुः स भानुः ।
तद्विध्वस्तप्रमदमदमोद्दीपितोद्दामदोष-
प्लोषं नेतुं प्रभवति भवे शाम्भवी भक्तिरेव ॥९॥

ये सन्तोषप्रशमपिशुने क्लेशराशौ निमग्ना
भग्नाशाभिर्विषमविषयोपासनावासनाभिः ।
तेषामेषा भवभयभिदारम्भसम्भावनाभू-
र्भूत्यै भूयस्त्रिजगति गतिः शाम्भवी भक्तिरेव ॥१०॥

दम्भस्तम्भस्थगितगतयः सावहेलामहेला-
हेलालापभ्रमितमतयः सन्त्यसङ्ख्याः पुमांसः ।
भार्गीं भक्तिं दधति हृदये निस्तरङ्गामभङ्गां
गङ्गातीरे विहितरतयो दुर्लभाः पूरुषास्ते ॥११॥

शम्भो दम्भो दहति कुहकारम्भसम्भावनाभिः
साभिद्वेषस्त्विषमपकषत्येष रोषप्रदोषः ।
सावष्टम्भं भ्रमयति बृहन्मामहङ्कारभारः
पारं नेतुं प्रभवति भवद्भक्तिरेका भवाब्धेः ॥१२॥

द्राक्सन्धत्ते युधमधिधनुर्बद्धबाणाभिरामैः
सभ्रूभङ्गैर्लटभललनापाङ्गभङ्गैरनङ्गः ।
दोषप्लोषक्षमशमपथापातमातन्वती मे
भीमे भक्तिर्भगवति गतिश्चक्षुषश्चन्द्रिकेव ॥१३॥

कामः कामं धनुरनुनिशं कौसुमं संवृणोतु
व्यालं कालः स्वकरकुहरे भग्नभोगं विधत्ताम् ।
भार्गी भक्तिः सपदि सकलप्रार्थनाकल्पवल्ली
लब्धा दृब्धा जगति कति न क्लेशपाशा हताशाः ॥१४॥

राज्ञामाज्ञाविहतिविहितानीकिनीनीरसश्रीः
स श्रीलेशस्तनुरनुचितप्रार्थनस्तावदास्ताम् ।
ऐन्द्रं यत्र त्रिभुवनजयप्राज्यसाम्राज्यलक्ष्मी-
लक्ष्मावज्ञास्पदमपि पदं तां स्तुमः शम्भुभक्तिम् ॥१५॥

कान्तैकान्तव्यसनमनसां वल्कलालङ्कृतानां
ज्ञानाम्भोभिः क्षपितरजसां जाह्नवीतीरभाजाम् ।
गाढोत्सेकप्रकटितजटामण्डलीमण्डनानां
नानाकारा भवति कृतिनां मुक्तये भर्गभक्तिः ॥१६॥

मूर्तिर्धूतिं प्रथयति यथा मञ्जरी जीर्णपर्णा
कर्णाभ्यर्णं प्रसरति जरा सत्यतो मृत्युदूती ।
भोगा भोगा इव विदधतश्चेष्टितं वेष्टयन्ते
हन्तेदानीं शरणमपरं नास्ति नः शम्भुभक्तेः ॥१७॥

यत्र ध्वान्तक्षपणनिपुणं दुर्बलं धाम चान्द्रं
सान्द्रं यत्र ग्लपयति तमस्तापनो यन्न तापः ।
यत्र प्रेङ्खन्न कचति शिखी तेजसाऽन्येन सत्रा
तत्रालोकं दिशति विषमे शाम्भवी भक्तिरेका ॥१८॥

मा भूद्भूयोऽभ्यसनसुलभान्वीक्षिकी नाम विद्या
हृद्या दूरे विहरतु विपत्खण्डिनी दण्डनीतिः ।
क्वापि स्थेम्ना लसतु कलितोल्लाघवार्तापि वार्ता
नार्तावर्हं किमपि शरणं शम्भुभक्तिं विनाऽन्यत् ॥१९॥

संसाराब्धेः प्रथमलहरी पातकापातकामा
रामा नाम स्थगयति गतिं मज्जतां सज्जनानाम् ।
मोहावर्त्तभ्रमसमुदयत्खेदविच्छेदहेतुः
सेतुर्दूरीभवति च भृशं शेमुषी शेमुषीयम् ॥२०॥

तस्मादस्माज्जननमरणक्लेशवेशन्तपङ्का-
च्छङ्कातङ्काकुलितमतयो ये तितीर्षन्ति तेषाम् ।
आशापाशग्रथितवपुषां क्रन्दतामातुराणां
प्राणापाते वितरति करालम्बनं शम्भुभक्तिः ॥२१॥

एणाक्षीणां स्मरशरशिखाकोटिशौटीर्यभीमाः
प्रेमाकृष्टा झगिति कुटिला ये कटाक्षाः पतन्ति ।
कालेनैते कुलिशनिशितास्तुण्डदण्डा जडानां
भिन्दन्त्यन्तर्हृदयमदयं पत्रिणां नारकाणाम् ॥२२॥

बाहुद्वन्द्वं तुलितविवलद्बालमार्णालनालं
सालङ्कारं रणितवलयं वेष्टितं कण्ठपीठे ।
मोहान्धानां महति पततां यातनातङ्कपङ्के
शङ्के पङ्केरुहदलदृशः पाशतामेतदेति ॥२३॥

यत्साकूतं मुकुलितदृशः केतकामोदहृद्यं
सद्यः स्विद्यद्वदनममृतस्यन्दि पीतं नताङ्ग्याः ।
रागान्धानां निरयनिलये तद्दुरापावसाने
जाने भूयः पतनशपथाक्रोशकोषत्वमेति ॥२४॥

रागोद्रेकात्कनककलशाकारमालम्बि हारं
सारङ्गाक्ष्याः पृथुकुचयुगं गाढमालिङ्गितं यत् ।
तन्मूढानां नरककलिले मज्जतामन्तकाले
नाले लग्नस्थिरतरगुरुग्रावभावं बिभर्ति ॥२५॥

किं भूयोभिर्वचनरचनाडम्बरैर्दीर्घशोका
लोका युक्तं श‍ृणुत सुतरां पश्चिमं वाक्यमेतत् ।
दुःखोदर्कं प्रमुखसुखदं सङ्गमुत्सृज्य साङ्गं
गाङ्गं लब्ध्वा सलिलममलं शम्भुभक्तिं भजध्वम् ॥२६॥

त्रैलोक्यं लम्भयन्तस्तृणगणगणनां रोहिणीकान्तलेखा-
रेखालङ्कारभक्तिप्रमुदितमनसो निर्मलं धाम लब्धुम् ।
धन्याः संन्यासिनोऽन्तः कलिमलपटलं भूरि भिन्दन्त्यमन्दा
मन्दाकिन्याः पयोभिः शशिमुकुटजटावैजयन्तीदुकूलैः ॥२७॥

एवं देव प्रभेव स्मरहर सकलद्वीपदीपस्य भर्त्तु-
र्भासामासादयन्ती विषमतमतमःखण्डने चण्डिमानम् ।
कारागारानुकारे परिभवति भवे बद्धमोहान्धकारे-
भावत्की भक्तिरेका शरणमशरणत्राणविश्राणिनी नः ॥२८॥

ये विश्वस्थितिसर्गसंहृतिकृतो देवास्त्रयस्तेऽपि यं
सेवन्ते मुखवीक्षणप्रणयिनो दृक्पातमात्रार्थिनः ।
यस्याः स प्रभुरप्रमेयमहिमा क्रीडाशकुन्तायते
तां भक्तिं भुवनत्रयाद्भुतमहामाहात्म्यशक्तिं स्तुमः ॥२९॥

गावस्तावद्दुहाना रसमसमसुधासोदरास्वादबन्धुं
भक्तिर्भर्गेनिसर्गक्लमशमनचमत्कारभोगैकभूमिः ।
तृप्तिः स्वात्मावभासादनुपमपरमानन्दनिःस्यन्दसंवि-
द्विश्रान्त्येकान्तहेतोरितिसपदि विपत्किङ्करी किङ्करोतु ॥३०॥

इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``भक्तिस्तोत्रं'' नाम सप्तदशं स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : January 30, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP