उपदेशनं षोडशं स्तोत्रम्
स्तुतिकुसुमाञ्जलिः काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे.
वृषलक्ष्मणः प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः ।
द्युतिभिर्जयन्ति तुलितोदितेन्दवश्चरणारविन्दमकरन्दबिन्दवः ॥१॥
अमलैः फलैरविरलैरलङ्कृता हरिताऽरुणप्रणतशालिशालिनी ।
प्रतिभाति जीर्णतृणवत्तव स्तवं वसुधा सुधाद्युतिवतंस शंसतःम् ॥२॥
तिमिरं चिरन्तनमनन्त सन्ततग्लपितावलोकमवलोकनार्थिनः ।
सृजताऽमृतं दशसु दिक्षु चक्षुषाकलिकालकल्मषमुषामुषाण मे ॥३॥
वहता हतान्धतमसामसादितां
द्युतिभिः कलामविकलां कलावतः ।
दिशता प्रकाशविशदाशमाशयं
वपुषा शिवं शिवपुषा पुषाण मे ॥४॥
घनघर्मलङ्घितकपोलभित्तयः श्वसितानुबन्धविधुरीकृताधराः ।
धनिनां पुरः प्रकटयन्ति दुर्गतिं द्युतिहीनदीनवदना धनार्थिनः ॥५॥
तदनन्तरं तरलिताक्षरां गिरं चिरसम्भृतप्रमदसादगद्गदाम् ।
विहितावहेलजगतीपतीक्षितास्त्रपयापयापितमुखाः प्रयुञ्जते ॥६॥
अवधीर्यमाणमथ दीर्घमत्सरैरवबोधवन्ध्यहृदयैरनादृतम् ।
गुणकौशलं शलभजृम्भितोपमं प्रथयन्ति यान्ति च परं पराभवम् ॥७॥
इति दीर्घदुर्भरकुटुम्बडम्बरा धनसङ्ग्रहग्रहगृहीतचेतसः ।
सुधियोऽपि यान्ति निबिडं विडम्बनं वनवासिभिःप्रहसितप्रवृत्तयः ॥८॥
कृतिनः पुनर्मृदुमृदङ्गमङ्गल-
स्वनसन्निभध्वनितनिर्झरोर्मिषु ।
कृतवृत्तयः सुलभशाद्वलावली-
वलितस्थलेषु (ललितस्थलीषु)तुहिनाद्रिसानुषु ॥९॥
सुरसिन्धुरोधसि गृहीतकेतकी-
चलिता(दलित)ङ्गुलीकिसलयेन पाणिना ।
विविधां विधाय विधिना पिनाकिनः
करुणार्णवस्य चरणाब्जसत्क्रियाम् ॥१०॥
हरिणैः कुशाग्रकवलाभिलाषिभि-
र्भरणार्थिभिश्च कलविङ्कशावकैः ।
अतिथीभवद्भिरहताह्निकक्रियाः
फलमूलकल्पितशरीरवृत्तयः ॥११॥
दिवसावसानसमये सरन्मरु-
त्परिकीर्णजीर्णतृणपर्णमर्मराः ।
तनुजाह्नवीसलिलशीकरोत्करैः शिशिराः
शिवाय (चिराय)चरिता वनस्थलीः ॥१२॥
धवलीकृतास्वमलभानुभानुभि-
र्ज्वलितौषधीषु रजनीष्वनन्तरम् ।
कलकण्ठकण्ठकुहरोद्गतस्वर-
स्वरसार्पितश्रुतिसुखासु शेरते ॥१३॥
इति बिभ्रतः परिकरं प्रियङ्करं
हरपादपङ्कजरजःप्रसादजम् ।
विहसन्ति मूढमनसां महीभुजां
गजकर्णतालतरलाश्रयाः श्रियः ॥१४॥
दधदुद्धतं हर पुरः पुरन्ध्रिभिः प्रबलं बलं गलदपाङ्गभङ्गिभिः ।
हृदयं भिनत्ति मम घस्मरः स्मरः शरपातकातरदृशो भृशं कृशम् ॥१५॥
जनयन्नयं नयनयोरधीरतां भ्रमयन्भ्रुवं भृशमदभ्रसम्भ्रमाम् ।
श्लथयन्प्रयत्नकृतसङ्गमं शमं हसनीयतां नयति रोष ईश माम् ॥१६॥
धनलाभसम्भ्रतविलासवासनाव्यथमानमानसमसत्यसङ्गरम् ।
न विशोभिलोभविवशं स्पृशन्ति मां सुहृदोऽपि कोपितकदर्थितार्थिनम् ॥१७॥
उचितत्रिवर्गरहितं तिरोहितं घनमोहमूढमनसं हसन्ति माम् ।
कृतमेधसामधिसदः सदःसदः सदसद्विवेकविकलं कलङ्कितम् ॥१८॥
इति तर्जयन्ति रिपवः सुदुर्जयाः परिवर्जयन्ति च विशुद्धबुद्धयः ।
न पुनर्जयन्ति विधुरं यथा तथा कुरु हे महेश दृशमेहि देहि नः ॥१९॥
क्व महेश्वरस्मरणसम्भवं भव-
भ्रमभीमघर्मशमसम्मुखं सुखम् ।
विपदां पदं मृदुमृणालिनीदल-
स्खलदम्बुबिन्दुतरलाः क्व सम्पदः ॥२०॥
क्व शिवेश्वरेति कृतगण्डमण्डली
पुलकोद्गमप्रमदमन्थरा गिरः ।
क्व यथार्थपार्थिवनिरर्थकाऽनृत-
स्तुतिविस्तरैरपथपातपातकम् ॥२१॥
क्व समाधिबाधितदुराधिसाधिमा
भवसम्भवश्रमदमक्षमः शमः ।
क्व मदः प्रदर्शितसमग्रविग्रहः
प्रहसन्मनस्विजनगर्हितस्थितिः ॥२२॥
इति मामनर्गलममार्गमार्गण-
प्रवणाविवेकविकलीकृताशयम् ।
करुणानिधान परिबोधय क्षणं
क्षणदाविशेषकशिखाशिखामणे ॥२३॥
प्रमदा मदारुणदृशः कृशोदरास्तनया नयानतसमस्तमस्तकाः ।
सुहृदो हृदन्तरगतेङ्गितस्पृशः प्रणयार्द्रनिर्भरगिरश्च बन्धवः ॥२४॥
दधतः प्रसादमधुरां धुरामपि प्रभवोऽमृतद्रवसमानमानसाः ।
मुखवीक्षणप्रणयिनः प्रतिक्षणं परिचारकाश्च जयजीववादिनः ॥२५॥
न भयं भयङ्करकृतान्तकिङ्करभ्रुकुटीभवं झटिति हन्तुमीशते ।
भजतामतः क्षपयदापदं पदं हृदये दयामृतनिधे निधेहि नः ॥२६॥
हन्ताऽहन्ता प्रथयति मतिह्रासमासञ्जयन्ती
मायामायासितसितशमा यामिनी यामिनीव ।
तस्मादस्मान्रविशशिशिखिप्रेङ्खितोद्दामधाम
क्षिप्त्वा चक्षुर्मुदितमुदिताऽवन्ध्यबोधान्विधेहि ॥२७॥
इति काश्मीरकमहाकविश्रीमजगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``उपदेशनं'' नामकं षोडशं स्तोत्रं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 30, 2026

TOP