संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|स्तुतिकुसुमाञ्जलिः| स्तुतिप्रस्तावना प्रथमं स्तोत्रम् स्तुतिकुसुमाञ्जलिः प्रस्तावना सूचिपत्रम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् नमस्कारात्मकं द्वितीयं स्तोत्रम् आशीर्वादाख्यं तृतीयं स्तोत्रम् मङ्गलाष्टकं चतुर्थं स्तोत्रम् कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् हराष्टकं षष्ठं स्तोत्रम् सेवाभिनन्दनं सप्तमं स्तोत्रम् शरणाश्रयणं अष्टमं स्तोत्रम् कृपणाक्रन्दनं नवमं स्तोत्रम् करुणाक्रन्दनं दशमं स्तोत्रम् दीनाक्रन्दनं एकादशं स्तोत्रम् तमःशमनं द्वादशं स्तोत्रम् प्रभुप्रसादनं त्रयोदशं स्तोत्रम् हितस्तोत्रं चतुर्दशं स्तोत्रम् करुणाराधनं पञ्चदशं स्तोत्रम् उपदेशनं षोडशं स्तोत्रम् भक्तिस्तोत्रं सप्तदशं स्तोत्रम् सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् हसितस्तोत्रं विंशं स्तोत्रम् अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् द्विपदयमकं चतुर्विंशं स्तोत्रम् रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् महायमकस्तोत्रं त्रिंशं स्तोत्रम् नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् ग्रन्थकर्तुर्वंशवर्णनम् स्तुतिप्रस्तावना प्रथमं स्तोत्रम् काश्मीरचे महान कवि जगद्धर भट्ट द्वारा रचित भगवान शंकर सबंधी स्तोत्रांचा एक प्रसिद्ध संग्रह आहे. Tags : stuti kusumanjaliकुसुमाञ्जलिजगद्धर jagaddharस्तुति स्तुतिप्रस्तावना प्रथमं स्तोत्रम् Translation - भाषांतर ह्लादवद्भिरमलैरनर्गलैर्जीवनैरघहरैर्नवैरियम् ।स्वामिनः क्लमशमक्षमैः क्षणं रोद्धुमर्हति मनः सरस्वती ॥१॥स्वामिनः स्थिरगुणा सवक्रिमा कर्णयोरमृतवर्षिणी मनः ।कर्त्तुमर्हति मुहूर्त्तमुज्झितस्वैरचापलमियं सरस्वती ॥२॥रम्यरीतिरनघा गुणोज्ज्वला चारुवृत्तरुचिरा रसान्विता ।रञ्जयत्वियमलङ्कृता मनः स्वामिनः प्रणयिनी सरस्वती ॥३॥सत्त्वधाम वरलाभयाचितश्लाघ्यवर्णविशदा विशत्वियम् ।निर्मलं सघनकालविप्लवा मानसं स्मरजितः सरस्वती ॥४॥भक्तितः सपदि सर्वमङ्गला बोधिता निजधियैव मेऽनया ।आरिराधयिषतीश्वरं वरं लब्धुमीप्सितमियं सरस्वती ॥५॥ओमिति स्फुरदुरस्यनाहतं गर्भगुम्फितसमस्तवाङ्मयम् ।दन्ध्वनीति हृदि यत्परं पदं तत्सदक्षरमुपास्महे महः ॥६॥भानुना तुहिनभानुना बृहद्भानुना च विनिवर्तितं न यत् ।येन तज्झगिति(झटिति)शान्तिमान्तरं ध्वान्तमेति तदुपास्महे महः ॥७॥कीचकादिकुहरेष्विवाऽम्बरं बिम्बमम्बरमणेरिवोर्मिषु ।एकमेव चिदचित्स्वनेकधा यच्चकास्ति तदुपास्महे महः ॥८॥तर्ककर्कशगिरामगोचरं स्वानुभूतिसमयैकसाक्षिणम् ।मीलिताखिलविकल्पविप्लवं पारमेश्वरमुपास्महे महः ॥९॥स्वावभासमयमेव मायया येन भिन्नमवभास्यते जगत् ।चित्रमिन्द्रधनुरभ्रलेखया भास्वतेव तदुपास्महे महः ॥१०॥हृद्गुहागहनगेहगूहितं भासिताऽखिलजगत्त्रयोदरम् ।कन्दकन्दरदरीमुखोद्गतप्राणमारुतकृतस्थिरस्थितिम् ॥११॥त्यक्तसर्वदशमक्षयोदयं रूपवर्जितमभित्तिसंश्रयम् ।यं निरञ्जनमनक्षगोचरं दीपमद्भुतमुशन्ति तं स्तुमः ॥१२॥यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभिः ।अद्भुतां दधति नीरजस्कतां तं जगत्पतिमुमापतिं स्तुमः ॥१३॥चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् ।अभ्युपेतघनकालशात्रवं नीलकण्ठमतिकौतुकं स्तुमः ॥१४॥इच्छयैव भुवनानि भावयन् यः प्रियोपकरणग्रहोऽपि सन् ।अप्रियोपकरणग्रहोऽभवत् तं स्वशक्तिसचिवं शिवं स्तुमः ॥१५॥पद्मसद्मकरमर्दलालितं पद्मनाभनयनाब्जपूजितम् ।पद्मबन्धुमुकुटांशुरञ्जितं पादपद्मयुगमैश्वरं स्तुमः ॥१६॥अङ्घ्रियुग्मममरेशमस्तकस्रग्भिरुज्ज्वलमुरश्च भस्मभिः ।शेखरञ्च हिमरश्मिरश्मिभिर्यो बिभर्ति तमुपास्महे विभुम् ॥१७॥मूर्ध्नि चन्द्रकरसुन्दरत्विषं फेनपिण्डपरिपाण्डुरस्मिताम् ।देहिनां वहति तापहारिणीं सिद्धसिन्धुमतनुं तनुं च यः ॥१८॥कर्त्तुमुत्सहत एव सेवको यस्य कस्य न मनः सकौतुकम् ।नैति शान्तनवविग्रहोऽपि सन् भीष्मतां न च विचित्रवीर्यताम् ॥१९॥आपतन्तमयमं यमं पुरो यः सविग्रहमविग्रहं व्यधात् ।दर्पकं व्यधित योऽप्यदर्पकं तं विषादमविषादमाश्रये ॥२०॥अम्बरेण गननेन संवृतं जीवनैः शिरसि वारिभिः श्रितम् ।भोगिभिश्च भुजगैर्विभूषितं शङ्करं शुभकरं भजामहे ॥२१॥पावकेन शिखिनोपशोभितं भासितं सितरुचा हिमांशुना ।भास्वता च रविणा विराजितं लोचनत्रयमुपास्महे विभोः ॥२२॥अभयङ्करमाश्रितं स्वरूपं दधदुद्दामसमग्रधामयोगम् ।शुचितारकमीश्वरस्य नेत्रत्रितयं शूलशिखात्रयं च वन्दे ॥२३॥मीलद्विलोचनसमुद्गसमुद्गताऽश्रु-श्रोतःस्रु तिस्नपितमूलकपोलभागाः ।देवं शशाङ्ककलया कलिताऽवतंसंशंसन्ति सन्त इह शङ्कर शङ्करेति ॥२४॥भ्रान्तोऽस्मि वैशसमये समयेऽहमत्रमिथ्यैव दिग्भ्रमहतो महतोऽपमार्गान् ।विश्रम्य नन्दनवने नवने शिवस्यखेदस्तु सम्प्रति समेति स मेऽवसानम् ॥२५॥यत्पार्वणेन्दुकरसुन्दरवाहहंस-संवासदुर्ललितयाऽपि वचोधिदेव्या ।विश्रम्यते मनसि नः समले सलीलंतत्सौभगं भगवतो जयतीन्दुमौलेः ॥२६॥यं भूषयन्ति कमनीयमहीनभोगाःस्तुत्वा भवन्ति कृतिनो यमहीनभोगाः ।चित्तोचितं तमपहाय महीनभोगाःकर्तुं परत्र धृतसंयम ! ही न भो गाः ॥२७॥अवाप्य गुरुभिर्गुणैर्जगति गौरवं ध्यायत-स्तमीरमणशेखरं भवति गौरवन्ध्या यतः ।अतस्तमुमया समं कृतमहाविलासं प्रतिस्तुतौ विरचिता मया मतिरनाविला सम्प्रति ॥२८॥मत्त्वा सद्यः सुकृतसुलभं दुर्लभं जीवलोकंलब्ध्वा सर्वव्यसनशमनं मित्रमेकं विवेकम् ।धन्याः केचित्कृतकुमुदिनीकान्तलेखाऽवतंसंहंसं शंसन्त्यमलमधुरैर्भक्तिसिक्तैर्वचोभिः ॥२९॥अन्तःशून्यं गुणविरहितं नीरसं सर्गहीनंकाव्यं हृद्यं ननु सुमनसां न स्थलाम्भोरुहाभम् ।तत्रापीशः श्रवणपुलिने गाढरागानुबन्ध-प्रोद्यद्भक्तिप्रगुणितमदः कर्त्तुमर्हत्यगर्हम् ॥३०॥अथवाऽमृतबिन्दुवर्षिणीन्दुद्युतिरानन्दममन्दमर्पयन्ती ।नयति ध्रुवमार्द्रतामियं गीर्गिरिजाजीवितनाथमिन्दुकान्तम् ॥३१॥इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितेभगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ``स्तुतिप्रस्तावना'' नामकं प्रथमं स्तोत्रं सम्पूर्णम् । N/A References : N/A Last Updated : January 30, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP