संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ विवाहसंस्कारनिर्णय:

अथ विवाहसंस्कारनिर्णय:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


विवाहोद्देश: - ऋग्नेद अ. ८।३।२८ - वीरसूर्देवकामास्योना० ॥ इमांत्वमिंद्रमीढ्व: सुपुत्रां सुभगां कृणु ॥ भाष्ये - वीरसू: पुत्राणामेव प्रसवित्री भव ॥ हे इंद्र वधूं सुपुत्रां शोभनपुत्रा सुभगांच कृणु कुरु ॥ ऋग्वेद अ. ६।८।१९ प्रजाभिरग्ने अमृतत्वमश्यां ॥ भाष्ये हे अग्ने प्रजाभिस्त्वद्दत्ताभि: अमृतत्वं संतत्यविच्छेदं अविनाशित्वं अश्यां प्राप्नुयां । श्रीमद्भगवत दशमस्कंधे - लोकेव्यवायामिषमद्यसेवा० ॥ मनुस्मृतिभाष्ये - विवाहेन भार्या भवतीति ॥ विवाहनं दारकर्म पाणिग्रहणमिति ॥     ॥     ॥     ॥     ॥     ॥
विवाहभेदा: - मनु - ब्रह्मो दैवस्तथाचार्ष: प्राजापत्यस्तथासुर: ॥ गांधर्वो राक्षसश्चैव पैशाचस्त्वष्टमो मत: ॥ नारायणवृत्तिकार: - पूर्वेषु चतुर्षु पूर्व: पूर्व: प्राशस्त: ॥ उत्तरेषूत्तरोत्तर: पापीयान् ॥
विवाहफ़लानि: - संस्कारभास्करे - ब्राह्मादिषुविवाहेषु चतुर्ष्वेवानुपूर्वश: ॥ ब्र्ह्मवर्चसिन: पुत्रा जायंते शिष्टसंमता: ॥ इतरेष्ववशिष्टेषु नृशंसानृतवादिन: जायंते दुर्विवाहेषु ब्र्ह्मधर्मद्विष: सुता: ॥
वधूलक्षणानि: - मनु:- अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ॥ असपिंडाच या मातुरसगोत्रा च या पितु: ॥ सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ नोद्वहेत् कपिलां कन्यां नाधिकांगीं न रोहिणीं ॥ नालोमिकां नातिलोमां न वाचाटां निपिंगलां ॥ अव्यंगांगीं सौम्यनाम्नीं हंसवारणगामिनीं ॥ तनुलोमकेशदशनां मृद्वंगीमुद्वहेत् स्त्रियं ॥
वरलक्षणानि: - स्मृति - कुलं च शीलं च वपुर्वयश्च विद्यां च वित्तं च सनाथतां च ॥ एतान् गुणान् सप्त परीक्ष्य देया कन्या बुधै: शेषमचिंतनीयम् ॥ दशदोष: - महांत्यपि समृद्धानि गोजाविधनधान्यत: ॥ स्त्रीसंबंधे दशेमानि कुलानि परिवर्जयेत् ॥ हीनजातीय पाखंड सुजनोद्वेगकारिणम् ॥ छद्मामय सदवाच्यश्वित्रिकुष्ठिकुलानिच ॥ यस्यास्तु न भवेद्भ्राता न च विज्ञायते पिता ॥ नोपयच्छेत्तुतांप्राज्ञ: पुत्रिकाsधर्मशंकया ॥
ज्योति:शास्त्रोक्त विचार: - जन्मस्थंच विलोक्य बाल्यविधवयोगं विधाप्य व्रतं सावित्र्य उतपैप्पलंहि सुतया दद्यादिमां वा रह: ॥ सल्लग्नेच्युत मूर्तिपिप्पलघटै: कृत्वा विवाहं स्फ़ुटम् ॥ दद्यात्तांचिरंजीविनेsत्र न भवेद्दोष: पूनर्भूर्भव: ॥     ॥     ॥     ॥     ॥    
॥     ॥     ॥     
सूत्रोक्तवधूलक्षण परीक्षा: - आश्वलायन गृह्यसूत्रम् - दुर्ज्ञेयानि लक्षणानीति अष्टौपिंडान् कृत्वा ॥ ऋतमग्ने० गृहाणेति ॥ क्षेत्राचेदुभयत: सस्या द्र्टह्णीयादूभवत्यस्मा: प्रजाभविष्यतीति विद्याद्गोष्ठात् पशुमती वेदिपुरीषाद्ब्रह्मवर्चस्विन्यविदासिनो हृदात् सर्वसंपन्ना देवनात्कितवी चतुष्पथा दूविप्रव्राजिनीरिणादधना श्मशानात्पतिघ्नी ॥
विरुद्धसंबंध: - स्मृति: - मातु:सपत्न्याभगिनीं तत्सुतांचविवर्जयेत् ॥ पितृव्यपत्नीभगिनीं तत्सुतांच विवर्जयेत् ॥ केचिज्ज्येष्ठभ्राता पितु:सम इत्युके ज्येष्ठभ्रातृपत्न्या भगिनी ॥ मातुष्वसृतुल्यत्वात् नविवाह्येत्याहु: ॥
विवाहवयोमर्यादा: - सुश्रुत - पंचविंशे ततोवर्षे पुमानारीतु षोडशे ॥ समत्वागत्यवीर्यौ तौ जानीयात्कुशकोभिषक् ॥ गोभिलगृह्यसूत्रे - अनग्निकातु श्रेष्ठा ॥ प्र. ४ सू. ६०
भिन्नशाखीय विवाह: - स्मृति:- उद्वहेत्तु द्विजो भार्यां सवर्णां लक्षणैर्युताम् ॥ अव्यंगांगीं सौम्यनाम्नीं मृद्वंगींच मनोहराम् ॥
विवाहमुहूर्त - विचार: - आ. गृ. सू. १ ॥ उदगयन आपूर्यमाणेपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहा: ॥ सार्वकालमेकेविवाहम् ॥ मुहूर्तमाला - हेतुर्धर्मार्थकामानां भार्या सच्छीलशालिनी ॥ विवाहकाल शुद्धया तच्छीलं तस्मादूब्रवीमि ते ॥
गुवर्कबलं: - ज्योतिर्निबंधेगर्ग: ॥ स्त्रीणांगुरुबलंश्रेष्ठंपुरुषाणांरवेर्बलम् ॥ तयोश्चंद्रबलश्रेष्ठंमितिगर्गेणभाषितम् ॥ जन्मत्रिदशमारिस्थ: पूजयाशुभदोगुरु: ॥ विवाहेsथ चतुर्थाष्टद्वादशस्थो मृतिप्रद: ॥
कन्यादानाधिकारिण: - ॥ यज्ञवक्ल्य: ॥ पितापितामहोभ्रतापितृव्यो गोत्रिणोगुरु: मातामहोमातुलोवाजननीबांधवा:क्रमात् ॥ कन्याप्रद:पूर्वनाशे प्रकृतिस्थ पर:पर: ॥ प्रकृतिस्थउन्मादादिदोषहीन: ॥
ज्येष्ठविचार: - ॥ रत्नकोशे ॥ जन्मनक्षत्रेजन्मदिवसेजन्ममासेशुभंत्यजेत् ॥ ज्येष्ठेमास्याद्यगर्भस्यशुभंवर्ज्यंस्त्रियाअपि ॥ पराशर: ॥ अज्येष्ठा कन्यका यत्र ज्येष्ठपुत्रोवरोयदि ॥ व्यत्ययोवातयोस्तस्त्रज्येष्ठमास:शुभप्रद: ॥
प्रतिकूलविचार: - शौनक:- पितापितामहश्चैवतामाचैवपितामही ॥ पितृव्य: स्त्रीसुतभ्राताभगिनीचाविवाहिता ॥ एभिरत्रविपन्नैश्चप्रतिकूलंबुधै: स्मृतं ॥ संकटेसमनुप्राप्ते याज्ञवल्क्येनयोगिना ॥ शांतिरुक्तागणेशस्य कृत्वातांशुभमाचरेत् ॥ मेधातिथि: - पुरुषत्रयपर्यंते प्रतिकूलंस्वगोत्रिणां ॥ प्रवेशान्निगमस्तद्वत्तथामंडनमुंडने ॥
एकोदरविचार: - ज्योतिर्निबंधे मनु: - एकमातृजयोरेकवत्सरेपुरुषस्त्रियो:न समानक्रियांकुर्यान्मातृभेदे विधीयते ॥ एतेन एकस्यपुंसो विवाहद्वयमेक दिनेनिषिद्धंमातृभेदाभावात् ॥ नारद: - पुत्रोद्वाहात्परंपुत्रीविवाहोनऋतुत्रये ॥ न तयोर्व्रतमुद्वाहान्मंडनादपिमुंडानं ॥ सारावल्याम् - फ़ाल्गुनेचैत्रमासेतुपुत्रोद्वाहोपनायने ॥ भेदाद्वर्षस्यकुर्वीतनर्तुत्रयाविलंबनं ॥ मदनरत्ने वसिष्ठ :- द्विशोभनंत्वेकगृहेपिनेष्टं शुभंतुपश्चान्नवभिर्दिनैस्तु ॥ आवश्यकंशोभनमुत्सवोवा द्वारेsथवाचार्यविभेदतोवा ॥ एकोदरप्रसूतानां नाग्निकार्यत्रयंभवेत् ॥ भिन्नोदरप्रसूतानां नेति शातातपोsव्रवेत् ॥ ज्योतिर्निबंधेकात्यायन:- अभिन्नवत्सरेपिस्यात्तदहस्तत्रभेदयेत् अभेदेतुनिनाश:स्या न्नकुर्यादेकमंडपे ॥ ज्योतिर्निंबंधे नारद: - प्रत्युद्वाहो नैवकार्यो नैकस्मैदुहितृद्वयं ॥ नचिक जन्ययो: पुंसोरेकजन्ये तुकन्यके ॥ नैवंकदाचिदुद्वाहो नैकदामुंडनद्वयं ॥ नैकजन्येतुकन्येद्वे पुत्रायोरेकजन्ययो: ॥ नपुत्रीद्वयमेकस्मै प्रदद्यात्तुकदाचन ॥ इति ॥
कन्याविक्रयदोषविचार: - य: कन्यापालनंकृत्वा करोति विक्रयंयदि ॥ विपदा धनलोभेन कुंभीपाकं सगच्छति ॥ कन्यामूत्रंपुरीषंच तत्रभक्षति पातकी ॥ कृमिभिर्दंशित: काकैर्यावदिन्द्राश्चतुर्दश ॥ तदंते व्याधितो भूत्वा लभेज्जन्म सुनिश्चितम् ॥ विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥
कन्यादानप्रशंसा: - संवर्त: ॥ अलंकृत्यतुय: कन्यांभूषणाच्छादनादिभि: ॥ दत्वास्वर्गमवाप्नोतिपूज्यतेवासवादिभि: ॥ वृकुदश्चाश्वमेधीचप्रानदानाभयेषुच ॥ समंयातिरथायेषां त्रयोवैनात्रसंशय: ॥ सालंकारकन्यादाता वृकुद: ॥ वन्हिपुराणे ॥ श्रुत्वा कन्याप्रदानं च पितर: सपितामहा: विमुक्ता: सर्वपापभ्योब्रह्मलोकं व्रजंति ते ॥
सगोत्रादिविवाहेप्रायश्चित्तं: - स्मृत्यर्थसारे ॥ इत्त्थंसगोत्रसंबंधविवाहविषये स्थिते यदि कश्चिचज्ज्ञानतस्तांकन्यामूढ्वोपगच्छति गुरुतल्पव्रताच्छुद्धयेत् ॥
विवाहमधेस्त्रियासहभोजनं - ॥ हेमाद्रौप्रायश्चित्तकांडे गालव: ॥ एकयानसमारोह एकपात्रेचभोजनम् ॥ विवाहेपथियात्रायां कृत्वा विप्रो न दोषभाक् ॥
कन्यागृहेभोजननिषेध: - ॥ मदनरत्नेभविष्ये ॥ अप्रजायां तु कन्यायां न भुंजीत कदाचन ॥ दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचति ॥
विवाहेजननाशौचविचार: - ॥ ब्रह्मपुराणेउक्तं ॥ व्रतयज्ञविवाहेषुश्राद्धे होमेर्चनेजपे ॥ आरब्धेसूतकंनस्यादनारब्धेतुसूतकम् ॥ इतिविष्णुवचनाच्च प्रारंभस्तेनैवोक्त: - प्रारंभोवरणंयज्ञेसंकल्पोव्रतसत्रयो: ॥ नांदीमुखंविवाहादौ श्राद्धेपाकपरिक्रिया इति ॥ वरणमितिमधुपर्कपरं गृहीतमधुपर्कस्ययजमानाच्च ऋत्विज: ॥ पश्चादशौचेपतितेनभवेदितिनिश्चय: ॥ अत्रप्रायश्चित्तमाह मदनपरिजातविष्णु: ॥ अनारब्घेविशुद्धयथैकूष्मांडैर्जुहुयात्घृतम् ॥ गां दत्वा पंचगव्याशी तत: शुद्धयति सूतकी ॥ चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत् ॥ यदैवसूतकप्राप्तिस्तदैवाभ्युदयक्रिया ॥


Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP